| YouTube Channel

षिधु (Sidhu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सिध्
मूलधातुः:
षिधु
धात्वर्थः:
संराद्धौ
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
सिद्ध्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुप्रदीपः
Sanskrit
षिधुँ षिधु गत्याम्
- सेधति सिषेध अभिषेधति ''द्विषो ध्नन् परिसेधतः''। सेधतेर्गतौ (8/3/113) इति षत्वप्रतिषेधः प्रतिषेधति पापात् अनेकार्थत्वादत्राप्रतिषेधः प्रत्यषेधत् प्रतिषिषेधिषति उदितो वा (7/2/56) सेधित्वा सिद्ध्वा सिधित्वा यस्य विभाषा (7/2/15) सिद्धम् केचिदस्योकारमनार्षमिच्छन्ति तथा एकाच उपदेशऽनुदात्ताद् (7/2/10) इत्यत्र वृत्तौ निष्ठायां सिधितमित्युदाहृतम् ।। 4 6 ।।
षिधुँ षिधु संराद्धौ
- सिध्यति अभिसिध्यति सिषेध सेद्धा असिधत् सेधित्वा सिधित्वा सिद्ध्वा सिद्धम् सिध्यः सिद्धिः अन्नं साधयति 86
क्षीरतरङ्गिणी
Sanskrit
षिधुँ षिधु गत्याम्
सेधति, सिषेध परिसेधति गाम्, गमयतीत्यर्थः सेधतेर्गतौ (83113) इति षत्वं नास्ति, अन्यत्र निषेधति पापात् उपसर्गात् सुनोति-सुवति (8335) इति षत्वम्, सेधतिनिर्देशात् सिध्यतेर् (धा0सू0481) नास्ति - निसिध्यति उदितो वा (7259) इति क्तवो वेट् सिद्ध्वा, सिधित्वा, सेधित्वा, रलो व्युपधात् (1226) इति वा कित्त्वम् यस्य विभाषा (72915) इति निष्ठायां नेट् - सिद्धः, निरनुबन्धपाठे तु सिधितः रलो व्युपधाद् (1226) इति वा कित्त्वम् - सिसिधिषति सिसेधिषति 45
षिधुँ षिधु संराद्धौ
- (अर्थविवरणम्) संराद्धिर्निष्पत्तिः
सिध्यति असिधत्, सिषेध, सेद्धा सिध्यतेरपारलौकिके (6 47) णावत्त्वम्-कार्यं साधयति नेह-सेधयति धर्मम् सिद्ध्वा सिधित्वा सेधित्वा (द्र0 7 256 1226) पुष्यसिद्धौ नक्षत्रे (31116) भ्वादौ (138) निषेधति 80
धातुवृत्तिः
Sanskrit
षिधुँ षिध[षिधु?] (अर्थः) गत्याम्
केचिदुदितं पठन्ति यदाह काश्यपः, उकार "उदितो वा'' इति विशेषणार्थ इति, तरङ्गिणी चायमुदिदिति, तद्वृत्तिविरोधादुपेक्ष्यं, यदाह ततः परं सिध्यतिरेव नेतर इत्यनिट्कारिकायां सिध्यतिबुध्यत्यो श्यना निर्द्देशादन्यविकरणयोर्बुधिसिध्योरिड्भवत्येव बोधिता सोधिता निष्ठायामपि प्रतिषेधाभावाद् बुधितं सिधिमित्येव भवतीति उदित्त्वे हि ( सूत्रम्) "उदितो वा'' (इति सूत्रम्) इति क्त्वायां विकल्पस्योक्तत्वाद् ( सूत्रम्) यस्य विभाषा (इति सूत्रम्) यस्य धातोः क्क चिद्वभाषेहुक्तस्तस्य निष्ठायामिण नेति प्रतिषेधेन भाव्यमिति कथमेवं ब्रूयात् तत्र न्यासपदमञ्जर्योरपि सिधेरुदित्त्वमनार्षमित्युक्तम् अत एव क्षीरस्वामी सिद्धमित्युदाहृत्य निरनुबन्धपाठे तु सिधित इत्यपरितुष्यन्नुदाजहार अथोदाहरणानि ( सूत्रम्) "धात्वादेः षः सः'' (इति सूत्रम्) ( सेधति सिषेध सिषेधिथ सिषिधिव ) ( सूत्रम्) "आदेशप्रत्यययोः'' (इति सूत्रम्) इति षत्वं, ( सेधिता सेधिष्यति सेधतु असेधत् आशिषि सिध्यात् असेधीत् असेधिष्यत् कर्मणि सिध्यत इत्यादि ) गत्यर्थत्वेन कर्तृस्थक्रियत्वाद् कर्मकर्तास्ति ( सिसेधिषति सिसिधिषति सिधित्वा सेधित्वा ) ( सूत्रम्) "रलो व्युपधात्'' (इति सूत्रम्) इति कित्त्वविकल्पः ( सूत्रम्) "स्तौतिण्योरेव षणी" (इति सूत्रम्) इति नियमान्न षत्वम् ( सेषिध्यते ) कुटिलं गच्छतीत्यर्थः ( सूत्रम्) "नित्यं कौटिल्ये गतौ'' (इति सूत्रम्) इति यङ् नित्यग्रहणं क्रियासमभिहारे यङो निवृत्तय इति वृत्तौ प्रतिपादितम् ( सेषिधीति सेषेद्धि ) ( सूत्रम्) "झषस्तथौः'' (इति सूत्रम्) इति धत्वे जश्त्वम ( सेधयति असीषिधत् ) ( सूत्रम्) "दीर्घो लघोः'' (इति सूत्रम्) इति दीर्घः, "सिध्यतेरपारलौकिके'' इति णावात्वं श्यना निर्देशादस्य भवति प्रतिषेधति) ( सूत्रम्) उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिसथासेनयसेधसिचसञ्जस्वञ्जाम् (इति सूत्रम्) इति उपसर्गस्यान्निमित्तात्पस्य सुनोत्यादिसकारस्य षत्वविधानात् ( सूत्रम्) "सात्पदाद्योः'' (इति सूत्रम्) इति निषेधं बाधित्वा सिधिसकारस्य षत्वं, सेधतीति शपा निर्देशो यङ्लुङ्निवृत्त्यर्थश्चेति हरदत्तः तेन प्रतिसेषिधीतीत्यत्र अभ्यासे षत्वं, परस्य ( सूत्रम्) "आदेशप्रत्यययोः'' (इति सूत्रम्) इति षत्वं अस्त्विह शपा निर्देशोयं सिध्यतेरेव निवृत्त्यार्थो यङ्लुकः, तेनेह षत्वं भवत्येव, एवं हि ( सूत्रम्) "सेधतेर्गतौ'' (इति सूत्रम्) इति निषेधे शपा निर्द्देशो ऽर्थवान् अन्यथ यङ्लुकि षत्यस्वैवाप्रसङ्गात् किमनेनेति, प्रत्यषेधदित्यादौ उपसर्गस्थान्निमित्तात्परत्वाभावेऽपि ( सूत्रम्) प्राक् सितादड्व्यवाये ऽपि (इति सूत्रम्) इति षत्वम् प्राक् सितादिति उपसर्गस्थात्सुनोतीत्यादयः परिनिविभ्यः सेवत्यन्ता उच्यन्ते प्रतिषिषिधिषतीत्यत्र ( सूत्रम्) "स्तौतिण्योरेव'' (इति सूत्रम्) इति नियमं बाधित्वा ( सूत्रम्) "स्थादिष्वभ्यासेन चाभ्यासरू'' (इति सूत्रम्) इति अभ्यासात्परस्य षत्वं, प्रकृतेनतु ( सूत्रम्) "उपसर्गात्'' (इति सूत्रम्) इति इदं षत्वमषोपदेशार्थमवर्णान्ताभ्यासार्थं ( सूत्रम्) "स्तौतिण्योरेव'' (इति सूत्रम्) इति नियमबाधनार्थं चेत्युक्तम् सूत्रार्थस्तु स्थादिषु प्राक्सितीयेषु उपसर्गादिति अभ्यवहितस्य भवति अत्राभ्यासस्योपसर्गादित्येव सिद्धे ऽभ्यासग्रहणं योगभेदेन प्राक्सितीयेषु स्थादिष्वेवाभ्यासस्य षत्वं त्वन्यत्रेति निषेधप्रतिपादनार्थम्, इदं ( सूत्रम्) "उपसर्गाद्'' (इति सूत्रम्) इति षतृवं ( सूत्रम्) "सेधतेर्गतौ'' (इति सूत्रम्) निषेधात् ( प्रतिसेधति गा ) इत्यादौ गत्श्यर्थत्वेन भवति ( सुषेधः, दुःषेधः, निःषेधः ) ( सूत्रम्) "नुम्विसर्जनीयशर्व्यवायेपि'' (इति सूत्रम्) इति किमेषां गणे पाठेन अत्र वृत्तिः सुशब्दस्य कर्मप्रवचनीयत्वान्निर्दुदशद्वयोः क्रियान्तरविषत्वादनुपसर्गत्वे सति पाठोयं, ( सूत्रम्) "सेधतेर्गतौ'' (इति सूत्रम्) इति प्रतिषेधबाधनार्थं चेति सिध्रः साधुपर्यायः सिध्यतेर्वायम् ( सूत्रम्) "स्फायितञ्चि'' (इति सूत्रम्) इत्यादिना रक् सिध्रको वृक्षविशेषः संज्ञायां कन् सिध्रकप्रचुरो वनविशेषः, सिध्रकावणम् ( सूत्रम्) वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् (इति सूत्रम्) इति कोटरादित्वा, उत्तरपदे दीर्घः ( सूत्रम्) वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः (इति सूत्रम्) इति वननकारस्य णत्त्वम्, वनमिति षष्ठयर्थे प्रथमा इदं णत्वं संज्ञायामग्रात्परत्वे ऽसंज्ञायामपीति स्थितम् सिध्यं, बाहुलकान्मन् ( सिध्मलः ) ( सूत्रम्) "सिध्मादिभ्यश्च'' (इति सूत्रम्) इतिप्रथमान्तादस्तुपाधिकादस्त्यर्थे लच् 47
षिधुँ षिधु (अर्थः) संराद्धौ
केचिदूदितं पठन्ति तदसत्, अनुदात्तोपदेशवैयर्थ्यात् ( सिध्यति सिषेध सेद्धा सेत्स्यति सिध्यतु असिध्यत् सिध्येत्, सिध्यात्, ) लिङौ ( असिध्यत् सिषित्सति सेषिध्यते सेषेद्धि ) ( अन्नं साधयति, ) "सिध्यतेरपारलौकिके'' इति परलोकप्रयोजनव्यतिरिक्तार्थवृत्तेः सिद्धेः णावेचः आत्वम् पारलौकिके तु तपस्सेधयति तापसम् अत्र सिद्धिः परलोकार्थे ज्ञानविशेषे वर्तते तापस्सिध्यति ज्ञानविशेषमासादयति, तं तपः प्रयुक्ते, ज्ञानविशेष उत्पन्नः परलोके जन्मान्तरफलमभ्युदयलक्षणमुपसंहरन् परलोकप्रयोजनो भवति अन्नं साधयति, ब्राह्मणेभ्यो दास्यामीत्यत्र तु षिधेर्निष्पत्तिरर्थः तस्याः प्रयोजनमन्नम्, तस्य यद्दानं तत्पारलौकिकम्, पुनर्निष्पत्तिरेवेति साक्षात्परलोकप्रयोजने सिद्ध्यर्थे चरितार्थत्वाद् निषेधस्येह प्रवृत्तिः ( सिद्धः ) ( साङ्काश्यसिद्धः, ) "सिद्धशुष्क'' इति सप्तमीसमासः "तत्पुरुषे कृति बहुलम्'' इत्यलुको "नेन्सिद्धबध्नातिषु च'' इतीवन्ते सिद्धशब्दे बध्नातौ निषेधः ( सिधित्वा, सेधित्वा, सिद्धा, ) उदित्त्वादिड्विकल्पः, इटि "रलो व्युपधात्'' इति कित्वविकल्पः राधादयोऽनुदात्ता उदात्तेतः अतः परं विभाषेटः परस्मैपदिनो रधादीनष्टाह 84
कृदन्तरूपमाला
Sanskrit
1 {@“षिधु संराद्धौ”@} 2 ‘सिधेः सिध्यति संराद्धौ--’ 3 इति देवः।
संराद्धिः = निष्पत्तिः।
“केचिदूदितं पठन्ति
तदसत्।
अनुदात्तोपदेशवै- यर्थ्यात्” इति माधवः।
4 सिद्ध्यः, 5 सिधित्वा-सेधित्वा-सिद्ध्वा, 6 सिद्धः, 7 साङ्काश्यसिद्धः, 8 अन्नं साधयन्, तपः सेधयन्, इति विशेषरूपाणि।
इतराणि सर्वाण्यपि पूर्वधातुवत् ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१८३६)
02
=>
(४-दिवादिः-११९२। सक। अनि। पर।)
03
=>
(श्लो। ११६)
04
=>
[[१। ‘पुष्यसिंद्ध्यौ नक्षत्रे’ (३-१-११६) इति निपातनात् नक्षत्रविशेषे वाच्ये सति धातोः क्यप्। ण्यतोऽपवादः। सिद्ध्यति अस्मिन्नुपक्रान्तं कार्यमिति सिद्ध्यः = पुष्यनक्षत्रः। अन्यत्र सेध्यम् इति ण्यदेव।]]
05
=>
[[२। उदित्त्वादिड्विकल्पः, ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। तेन रूपत्रयम्।]]
06
=>
[[३। उदित्त्वेन क्त्वायामिड्विकल्पनात्, निष्ठायामिण्निषेधः। संज्ञायां क्तप्रत्ययोऽयम्। सिद्धा इति देवयोनिविशेषाः।]]
07
=>
[[४। सांकाश्ये सिद्धः सांकाश्यसिद्धः। ‘सिद्धशुष्कपक्वबन्धैश्च’ (२-१-४१) इति सप्तमीसमासः। ‘नेन्सिद्धबध्नातिषु च’ (६-३-१९) इति सप्तम्या अलुको निषेधः
\n\n अन्यथा, ‘साङ्काश्ये--’ इति सप्तम्याः ‘तत्पुरुषे कृति--’ (६-३-१४) इति अलुक् श्रूयेत। तत्र सूत्रे बहुलग्रहणादेव क्वचिदलुकोऽप्रवृत्तौ तु नात्र सिद्धग्रहणं करणमित्यास्तां तावत्।]]
08
=>
[[५। ‘सिद्ध्यतेरपारलौकिकेऽर्थे’ (६-१-१४९) इति णावात्वम्। परलोकसाधनभूते तु ‘तपः सेधयन्’ इत्यत्र आत्वम्।]]