| YouTube Channel

षिध (Sidha)

 
Wilson
English
षिध r. 1st cl. (सेधति) To go. (ऊ) षिधू r. 1st cl.
(सेधति)
1 To command, to order.
2 To ordain, especially with respect to holy observances.
2 To do an auspicious act. or one indicating good fortune. (उ) षिध
r. 4th cl. (सिध्यति)
1 To succeed, to effect fully or completely.
2 To complete a series of mystical observances by which supernatural powers
are attained, to be an adept, to be initiated.
2 To be perfect, to be finished or accomplished.
4 To be right or correct.
With नि or प्रति prefixed, (निषेधति प्रतिषेधति) To prevent, to prohibit.
With प्र, To be celebrated or notorious.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सिध्
मूलधातुः:
षिध
धात्वर्थः:
गत्याम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
सेधति
शब्दकल्पद्रुमः
Sanskrit
षिध, गत्याम् इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) सेधति निष्ठायां सिधितः ।इति दुर्गादासः
षिध, गत्याम् इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् क्वा वेट् ।) सेधति उ, मेधित्वा सिद्ध्वा क्वावेट्त्वान्नेम् ङीश्वीति इमोनिपेधे मिद्धः इति दुर्गादासः
षिध, सिद्धौ इति दुर्गादासः
(दिवा०-पर०-अक०-अनिट् क्वावेट् ।) उ, सेधित्वा सिद्ध्वा य, सिध्यति औ, असैत्-सीत् अस्मात् पुषादित्वान्नित्यं इत्यन्ये ।सिद्धिर्निष्पत्तिः सिध्यति घटो निष्पन्नः स्यात्इत्यर्थः इति दुर्गादासः
षिध, शिवे शास्त्रे इति कविकल्पद्रुमः
(भ्वा०-पर०-शिवे अक०-अनुशासने सक०-वेट् ।) मूर्द्धन्यादिः ऊ, असेधीत् असैत्-सीत् शिवं मङ्गलम् तदाकर्म्मकः सिद्ध्वोवर्णसमाम्नाय इति कातन्त्रस्याद्यसूत्रम् शास्त्र-मनुशासनम् सेधति शिष्यं गुरुः इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
षिध माङ्गल्ये अक० शसने
सक०
उदित् वेट् सेधति असेधीत्--असैत्सीत् सिद्धः
षिध गतौ
भ्वा०
पर०
सक०
सेट् सेधति असेधीत् सेधितः
षिध सिद्धौ दिवा०
पर०
अक० अनिट् क्त्वा वेट् सिध्यतिअसैत्सीत् णिचि साधयति सिषाधयिषति ।आ + राजाज्ञयाऽवरोधे
सक०
आसेधः ।उत् + उच्चतायाम् अक० उत्सेधः ।नि + निवारणे
सक०
निषेधः ।परि + निवारणे
सक०
परिषेधः ।प्रति + निवारणे
सक०
प्रतिषेधः ।वि + + विशेषेण निषेधे व्याषेधः ।वि + प्रति + विरुद्धत्वे व्याघाते विप्रतिषेधः
कृदन्तरूपमाला
Sanskrit
1 {@“षिध गत्याम्”@} 2 काश्यपक्षीरस्वामिनौ धातुममुम् उदितं पठन्ति, ‘ततः परं सिध्यतिरेव नेतरे।’ 3 इति वृत्तिविरोधात् तावुपेक्ष्यौ-- इति माधवः।
विस्तरश्च तत्रैव धातुवृत्तौ द्रष्टव्यः।
देवीऽपि ‘सिधेः सिध्यति संराद्धौ सेधतीत्युदितो गतौ।
शास्त्रमाङ्गल्ययो रूपमूदितस्तदिटा भिदा।।’ 4 इति उदित्पक्षमेवाङ्गीकृतवान्।
5 सिधित्वा-सेधित्वा, सिसेधिषकः-सिसिधिषकः-षिका, 6 अभिषेधन्-परिषेधन्-न्ती, 7 अभिसेधयन् गाः, 8 सुषेधः-दुःषेधः-निःषेधः, 9 सिध्रः, 10 सिध्रकः-सिध्रकावणम्
11 इतीमानि विशेषरूपाणि।
इतराणि समस्तान्यपि रूपाणि भौवादिकशर्धतिवत् 12 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८३५)
02
=>
(१-भ्वादिः-४७। सक। सेट्। पर।)
03
=>
(व्याघ्रभूतिकारिका ७-२-१०)
04
=>
(श्लो। ११६)
05
=>
[[२। ‘रलो व्युपधात्--’ (१-२-२६) इति क्त्वासनोः कित्त्वविकल्पः, तेन अत्र, सन्नन्ते रूपद्वयम्।]]
06
=>
[[३। ‘उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेध--’ (८-३-६५) इति षत्वम्।]]
07
=>
[[४। ‘सेधतेर्गतौ’ (८-३-११३) इति अत्र षत्वनिषेधः।]]
08
=>
[[५। अत्र सुषामादित्वात् (८-३-९८) षत्वम्। सुषेध इत्यत्र ‘उपसर्गात्--’ (८-३-६५) इति, दुःषेधः, निःषेधः इत्यत्र ‘नुम्विसर्जनीयशर्व्यवायेऽपि’ (८-३-५८) इति यद्यपि षत्वं सिद्धम्
\n\n तथापि कर्मप्रवचनीयानां सुदुर्निसां षत्वनिषेधकत्वात् तत्रापि षत्वप्राप्त्यर्थम्, गत्यर्थे ‘सेधतेर्गतौ’ (८-३-११३) इति निषेधबाधनार्थ सुषामादिषु पाठ इत्यवधेयम्।]]
09
=>
[[६। औणादिके (द। उ। ८-३१) रक्प्रत्यये रूपम्। सिध्रः = साधुः, आसनप्रकारश्च।]]
10
=>
[[७। सिध्र इव सिध्रकः
\n\n इवार्थे संज्ञायां वा कन्प्रत्ययः। सिध्रकः = वृक्षविशेषः। सिध्रकावणम् इत्यत्र ‘वनगिर्योः--’ (६-३-११७) इत्यत्र कोटरादित्वात् दीर्घः। ‘वनं पुरगामिश्रकासिध्रका--’ (८-४-४) इति णत्वम्। सिध्रकवृक्षप्रचुरो वन- विशेषः--सिध्रकावणम्।]]
11
=>
[पृष्ठम्१३४४+ २८]
12
=>
(१७४८)