षिता-त्री (SitA-trI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“गन्ध अर्दने”@} 2 आकुस्मीयः।
गन्धकः-न्धिका, जिगन्धयिषकः-षिका
गन्धयिता-त्री, जिगन्धयि- षिता-त्री
3 गन्धयमानः, 4 जिगन्धयिषमाणः
गन्धयिष्यमाणः, जिगन्धयि- षिष्यमाणः
सुगन्-सुगन्धौ-सुगन्धः
गन्धितम्-तः, जिगन्धयिषितः-तवान्
गन्धः, जिगन्धयिषुः
गन्धयितव्यम्, जिगन्धयिषितव्यम्
5 गन्धनीयम्, जिगन्धयिषणीयम्
गन्ध्यम्, जिगन्धयिष्यम्, ईषद्गन्धः-दुर्गन्धः-सुगन्धः
गन्ध्यमानः, जिगन्धयिष्यमाणः
गन्धः, जिगन्धयिषः
गन्धयितुम्, जिगन्धयिषितुम्
गन्धना, जिगन्धयिषा
गन्धनम्, जिगन्धयिषणम्
गन्धयित्वा, जिगन्धयिषित्वा
विगन्ध्य, विजिगन्धयिष्य
गन्धम् २, गन्धयित्वा २, जिगन्धयिषम् २
जिगन्धयिषित्वा २। 6
01 (३७५)
02 (१०-चुरादिः-१६८५। सक। सेट्। आत्म।)
03 [[१। ‘आकुस्मादात्मनेपदिनः’ (गणसूत्रं चुरादौ) इत्यात्मनेपदमेव। तेन शानच्।]]
04 [[२। ‘पूर्बवत् सनः’ (१-३-६२) इति सन्नन्तादपि आत्मनेपदमेव।]]
05 [[B। ‘प्रस्पाश्य मुष्टिमभितर्जयते प्रभर्त्स्यः मल्लो विबस्तयिषुरेनमगन्धनीयम्। किष्क्येत निष्कृपमनिष्कितकान्तिरेष बालोऽमुना नृपतिलालनयाऽद्य कष्टम्।।’ धा। का। ३-३४।]]
06 [पृष्ठम्०३६९+ २७]
1 {@“तुजि भाषार्थः”@} 2 आस्वदीयः।
‘--अभिहिते त्वर्थे पदं तुञ्जयेत्।’ 3 इति देवः।
तुञ्जकः-ञ्जिका, तुतुञ्जयिषकः-षिका, तुञ्जकः-ञ्जिका, तुतुञ्जिषकः-षिका, तोतुञ्जकः-ञ्जिका
तुञ्जयिता-त्री, तुतुञ्जयिषिता-त्री, तुञ्जिता-त्री, तुतुञ्जि- षिता-त्री, तोतुञ्जिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि कुशि 4 धातुवत् ज्ञेयानि।
01 (७३४)
02 (१०-चुरादिः-१७५६। सक। सेट्। उभ।)
03 (श्लो। ६६)
04 (२३२)
1 {@“तुबि अदर्शने”@} 2 अर्दने इति केचित्।
इदित्करणात् णिचः पाक्षिकत्वम्।
‘लुम्बयेत् तुम्बयेदर्दे शपि लुम्बति तुम्बति।।’ 3 इति देवः।
‘तुपि अर्दने’ इति मैत्रेयदुर्गसंमतपाठमनुसृत्य दैवश्लोके-- ‘अर्दने तुम्प- येण्णिचि।’ 4 इत्यंशस्य उपपत्तिर्बोध्या।
तुम्बकः-म्बिका, तुतुम्बयिषकः-षिका, तुम्बकः-म्बिका, तुतुम्बिषकः-षिका, तोतुम्बकः-म्बिका
तुम्बयिता-त्री, तुतुम्बयिषिता-त्री, तुम्बिता-त्री, तुतुम्बि- षिता-त्री, तोतुम्बिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भाषार्थककुशि- धातुवत् 5 बोध्यानि।
तुम्बः-तुम्बी = 6।
गौरादिपाठात् ङीष्।
7 तुम्बितम्।
01 (७५१)
02 (१०-चुरादिः-१६५८। सक। सेट्। उभ।)
03 (श्लो। १३९)
04 (श्लो। १३९)
05 (२३२)
06 [अलाबूः]
07 [[आ। ‘किं कुम्ब्यते सदसि लुम्बितवैभवोऽहं बालोऽस्मि तुम्बितविरोधिभयाश्च यूयम्।’ धा। का। ३। २९।]]
1 {@“मान पूजायाम्”@} 2 आधृषीयः।
‘पूजायां मानयेत् मानेत् यौ, मीमांसेत तङ्सनोः।’ 3 इति देवः।
मानकः-निका, मिमानयिषकः-षिका, मानकः-निका, मिमानिषकः-षिका, मामानकः-निका
मानयिता-त्री, मिमानयिषिता-त्री, मानिता-त्री, मिमानि- षिता-त्री, मामानिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचीकयति- वत् 4 ज्ञेयानि।
धातोरस्याधृषीयत्वेन ‘आधृषाद्वा’ 5 इति णिज्विकल्पः।
तेन णिजभावपक्षे क्रमेण शुद्धात्, शुद्धप्रकृतिक- सन्नन्तात्, शुद्धप्रकृतिकयङन्तादपि रूपाणि विलिखितानीति ज्ञेयम्।
01 (१२४५)
02 (१०-चुरादिः-१८४४। सक। सेट्। उभ।)
03 (श्लो। १२६)
04 (५२९)
05 (ग। सू। चुरादौ)
1 {@“मृष तितिक्षायाम्”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘--क्षमायां यौ मर्षेन्मर्षेत मर्षयेत्।’ 3 इति देवः।
मर्षकः-र्षिका, मिमर्षयिषकः-षिका, मर्षकः-र्षिका, मिमर्षिषकः-षिका, मरीमृषकः-षिका
मर्षयिता-त्री, मर्षिता-त्री, मिमर्षयिषिता-त्री, मिमर्षि- षिता-त्री, मरीमृषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्षतिवत् 4 ज्ञेयानि।
णिजभावपक्षे क्विपि-मृट्-मृड्-मृषौ-मृषः, मृषित्वा-मर्षित्वा, इत्यादीनि रूपाण्यस्य धातोरिति विशेषः।
01 (१३११)
02 (१०-चुरादिः-१८५०। सक। सेट्। उभ।)
03 (श्लो। १७३)
04 (५५४)
1 {@“म्लेच्छ अव्यक्तायां वाचि”@} 2 3 ‘इहाव्यक्तवागपशब्दनम्।’ इति माधवः।
चान्द्रास्तु धातुममुमत्र 4 न पठन्तीति क्षीरतरङ्गिण्यां स्पष्टम्।
म्लेच्छकः-च्छिका, मिम्लेच्छयिषकः-षिका
म्लेच्छयिता-त्री, मिम्लेच्छयि- षिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचित्रयतिवत् 5 ज्ञेयानि।
01 (१३३०)
02 (१०-चुरादिः-१६६३। अक। सेट्। उभ।)
03 [पृष्ठम्१०६३+ २३]
04 (चुरादौ)
05 (५२५)
1 {@“वट विभाजने”@} 2 अदन्तः।
मा।
धातुवृत्ति, सि।
कौमुद्याद्यनुसारेण अयं पाठो लिखितः।
‘णावदन्ताद्वटेर्ग्रन्थे वटयेद् वेष्टने वटेत्।।’ 3 इति देवः।
अत्र क्षीरस्वामिना ‘वटि विभाजने’ इत्येव उक्तम्।
किंच तत्र “4 नन्दिमते वण्टति” इति दृश्यते।
मैत्रेयोऽपि एवमेव इति मा।
धा।
वृत्ति- दर्शनाज्ज्ञायते।
सि।
कौमुद्यां तु ‘वट--’ इति पठित्वा वटि--’ इत्येके’ इति।
वटेः पुनःपाठोऽर्थभेदात् इति ज्ञेयम्।
अयं धातुः कथाद्यन्तर्गणः इति शाकटायनमतम्।
वटकः-टिका, विवटयिषकःषिका
वटयिता-त्री, विवटयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाणि चौरादिककलयतिवत् 5 ज्ञेयानि।
शतरि--वटयन्।
इदित्पाठपक्षे-वण्टकः-ण्टिका, विवण्टयिषकः-षिका
वण्टयिता-त्री, विवण्टयि- षिता-त्री
इत्यादीनि रूपाणि ऊह्यानि।
6 वण्टापयकः-यिका, इति अस्य घातोः विशेषः।
इदित्त्वाण्णिज्विकल्पः इत्यपि ज्ञेयम्।
7
01 (१५४१)
02 (१०-चुरादिः-१९१९। सक। सेट्। उभ।)
03 (श्लो। ७७)
04 (भ्वादौ)
05 (१७६)
06 [[३। ‘कथादिपातिस्फायो पुग्लुग्वत्वम्’ इति शाकटायनसूत्रात् कथादीनां धातूनां णौ परतः पुगागमे, वृद्धौ च एवं रूपम्। इति माधवः (चुरादौ लजधातुप्रकरणे)।]]
07 [पृष्ठम्११८७+ २६]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
