षिञ् (SiJ)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit सि
षिञ्
बन्धने
स्वादिः
सकर्मकः
अनिट्
उभयपदी
सिनोति, सिनुते
इकारान्तः
सि
षिञ्
बन्धने
क्र्यादिः
सकर्मकः
अनिट्
उभयपदी
सिनाति, सिनीते
इकारान्तः
धातुप्रदीपः
Sanskritषिञ् बन्धने
- सिनोति सिनुते सिषाय सिष्ये सेषीयते सिसीषति सिसीषते विषयः सितम् सिनो ग्रासः स्वयमेव सिता पाशेन शूकरी 2
षिञ् बन्धने
- सिनाति सिनीते सिषाय सिष्ये सेष्यति सेष्यते सिसीषति सिसीषते सितः सिनोतीति सौवादिकस्य 5
क्षीरतरङ्गिणी
Sanskritषिञ् बन्धने
- सिनोति, सिनुते सिषाया ण्वुल् (द्र0 31133)-सायकः परिनिविभ्यः सेव (8370) इति षत्वम्-विषयः क्ते-प्रसितः अञ्जिघृषिभ्यः क्तः (उ0 389) सितः दाधेट्सि (32159) इति रुः-सेरुः सितनिगमि (उ0169) इति तुन्-सेतुः सुसिचिभ्यां दीर्घश्च (तु0 दश0 उ0 32)-सिनो बद्धः कवृजसि (दश0 उ0 542) इति नः-सेना 2
षिञ् बन्धने
- सिनाति, सिनीते असैषीत् स्तौतिण्योरेव षणि-(8361) इति नियमात् सिसीषति स्वादौ (52) सिनोति अस्यैव ग्रासकर्तृकस्य (द्र0 8244 वा0) सिनो ग्रासः स्वयमेव 5
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritषिञ् (अर्थः) बन्धने
( सिनोति सिनोषि सिनोमि सिन्वः सिनुवः सिषाय सिष्यतुः सिषयिथ सिषेथ सिष्म सिषाय सिष्यतु सिषयिथ सिपेथ सिष्य सिषाय सिषय सिष्यिव अत्रागुणवृद्धिविषये अजादौ "एरनेकाच'' इति यण् ( सेता सेष्यति सिनोतु सिनु सिनवानि असिनोत् सिनुयात् ) आशिषि ( सीयात् असैषीत् असैष्टाम् सिनुते सिनुषे सिन्वे सिन्वहे सिनुवहे सिष्ये सिष्यिषे सिष्यिवहे सेता सेष्यते सिनुताम्, सिनुष्व, सिनवै असिनुत असिनुथाः असिन्वि असिन्वहि असिनुवहि सिन्वीत सेषीष्ट असेष्ट असेषाताम् सिसीषति सिसीषते सेषीयते सेषयीति सेषेति साययति असीषयत्सितः सितवान् ) ( सिनो ग्रासः स्वयमेव ) "सिनोतेर्ग्रासकर्मकर्त्तृकस्य'' इति वक्तव्येन निष्ठानत्वम् यदा बध्यमानः पिण्डीक्रियमाणो ग्रासो दध्यादिवशेन तत्रानुकूलयंप्रतिपद्यते तदा कर्मणः कर्तृत्वविवक्षायामयं प्रयोग इति न्यासपदमञ्जर्यादौअनेकार्थत्वाद्धातोर्भक्षणमर्थ इत्यात्रेयः केशेषु प्रसितः केशैरिति वा, "प्रसितोत्सुकाभ्यां तृतीया च'' इति तृतीयासप्तम्यौ ( सयः ) अच् ( परिषितः ) "परिनिविभ्यः'' इत्यादिना सितसयशब्दयोः षत्वम् एवं निविभ्यामपि ( सेरुः ) "दाधेद्सि'' इति रुः ( सेत्रं, ) "दाम्नी''इत्यादिना ष्ट्रन् ( सितो वर्णः ) "अञ्जिधृसिभ्यः क्त'' इति संज्ञायां क्तः ( सितिमा, सैत्यं, ) "वर्णदृढादिभ्यः ष्यञ्च'' इति ष्यञिमनिचौ भावकर्म्मणोः ( सिता ) शर्करा न सिता ( असिता ) असितेत्यत्र "वर्णादनुदात्तात्'' इति डीब्नकारयोः [ असितपलितयोः प्रतिषेधः ] इति निषेधः "छन्दसि क्रमेके'' [ भाषायामपीष्यते ] इत्यसिक्नीति क्नादेशङीपावपि पक्षे भवतः ( सेतुः ) "सितनिगमिमसिसच्यविधात्रकुशिभ्यस्तुन्'' इति तुन् ( सीरो ) लाङ्गलम् "शुषिचिमि दीर्घश्च'' इति क्रनि दीर्घः सीरस्येदं तद्वहतीति वा ( सैरिकः ) "हलसीराठ्ठक्'' इति तस्येदं विषये तद्वहति विषये च ठक् अयं क्र्यादावपि सिनाति सिनीत इति 2
षिञ् (अर्थः) बन्धने
(सिनाति सिनीते) इत्यादि क्रीवत् (सिषाय सेष्यति ) इत्यादि "आदेशप्रत्यययोः'' इति षत्वम् ( सिष्यतुः) इत्यादौ "एरनेकाच''इति यण् (सिसीषति) इत्यत्र "स्तौतिण्योः'' इत्यषत्वम् "अज्झनगमां'' इति दीर्घः (सितः सितवान् ) 5
कृदन्तरूपमाला
Sanskrit1 {@“षिञ् बन्धने”@} 2 ‘सिनोति सिनुते बन्धे सिनीते च सिनाति च।’ 3 इति देवः।
सर्वाण्यपि रूपाणि सौवादिकचिन्वतिवत् 4 बोध्यानि।
5 इति प्रक्रियासर्वस्वम्।]] सिनो ग्रासः स्वयमेव, सितः, केशेषु केशैर्वा 6 प्रसितः, 7 सयः-विषयः, 8 परिषि- ण्वन्-निषिण्वन्-विषिण्वन्-ती, 9 सेरुः, 10 पुरुषः-पूरुषः, 11 सेत्रम्, 12 सेतुः, 13 14 सीरम्, इति विशेषरूपाणि।
01 (१८३२)
02 (५-स्वादिः-१२४८। सक। अनि। उभ।)
03 (श्लो। १५)
04 (५१९)
05 [[५। ‘सिनोतेर्ग्रासकर्मकर्तृकस्य--’ (वा। ८-२-४४) इति निष्ठानत्वम्। इदमत्र माधवोक्तं विवरणम्-- ‘यदा बध्यमानः पिण्डीक्रियमाणो ग्रासो दध्यादिवशेन तत्रानुकूल्यं प्रतिपद्यते, तदा कर्मणः कर्तृत्वविवक्षायां अयं प्रयोगः’ इति। [[श्लोकः - “ग्रासस्य कर्मकर्तृत्वे निष्ठानत्वं भवेत् षिञः। स्वयमेव सिनो ग्रासः सुखबद्धस्तथोच्यते।। दध्यादियोगात् ग्रासोऽहि सुसंश्लिष्टो भवेन्मिथः। नानार्थत्वात् तु धातूनां सुखभुक्त इतीतरे।।” श्लोकान्तः]]
06 [[६। ‘प्रसितोत्सुकाभ्यां तृतीया च’ (२-३-४४) इति तृतीयासप्तम्यौ।]]
07 [[७। पचाद्यचि सयः। विशेषेण बध्नाति इति विषयः = शब्दादिः। ‘परिनिविभ्यः--’ (८-३-७०) इति षत्वम्।]]
08 [[८। ‘परिनिविभ्यः सेवसितसय--’ (८-३-७०) इति षत्वम्।]]
09 [[९। ‘दाधेट्सि--’ (३-२-१५९) इति तच्छीलादिषु कर्तृषु रुप्रत्ययः। धातोर्गुणः।]]
10 [[१०। पुरु सिनोतीति पुरुषः
\n\n ‘अन्येष्वपि--’ (३-२-१०१) इति डप्रत्ययः। पुरुष एव पूरुषः। ‘अन्येषामपि--’ (६-३-१३७) इति दीर्घः।]]
11 [[११। ‘दाम्नीशसयुयुजसि--’ (३-२-१०२) इति करणे ष्ट्रन्प्रत्ययः। सेत्रम् = जालम्।]]
12 [[१२। औणादिके (द। उ। १-१२२) तुन्प्रत्यये रूपम्। सेतुः कूलान्तरप्रापकः पन्थाः। ‘तितुत्र--’ (७-२-९) इतीण्निषेधः।]]
13 [पृष्ठम्१३४३+ २९]
14 [[१। ‘शुषिचिमिभ्यो दीर्घश्च’ (द। उ। ८-४३) इति क्रन्प्रत्ययः, प्रकृतेः दीर्घश्च। सीरम् = हलः।]]
1 {@“षिञ् बन्धने”@} 2 ‘सिनोति सिनुते बन्धे, सिनीते च सिनाति च।’ 3 इति देवः।
शतृशानचोः--सिनन्-ती, सिनानः इति रूपे।
इतराणि समस्तान्यपि रूपाणि पूर्वधातुवत् 4 ऊह्यानि।
01 (१८३३)
02 (९-क्र्यादिः-१४७७। सक। अनि। उभ।)
03 (श्लो। १५)
04 (१८३२)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
