| YouTube Channel

षिच (Sica)

 
Wilson
English
षिच (औ) षिचा r. 6th cl. (सिञ्चति-ते) To sprinkle.
With अभि prefixed,
1 To anoint, to initiate.
2 To sprinkle.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सिच्
मूलधातुः:
षिच
धात्वर्थः:
क्षरणे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
सिञ्चति-ते
अनुबन्धादिविशेषः:
मुचादिः
धातुप्रदीपः
Sanskrit
षिचँ षिच क्षरणे
- सिञ्चति सिञ्चते निषिञ्चति सिषेच सिषिचे सेक्ता सेक्ष्यति सेक्ष्यते न्यषिञ्चत् असिचत् असिचत असिक्त सिसिक्षति सिसिक्षते निषिषिक्षति सेसिच्यते निसेसिच्यते अभिषेकः 160
शब्दकल्पद्रुमः
Sanskrit
षिच, क्षरणे इति कविकल्पद्रुमः
(तुदा०-उभ०-सक०-अनिट् ।) ञ, सिञ्चति सिञ्चते औ, सेक्ता सिषिचुरवनि-मम्बुवहाः इति भारविः इति दुर्गादासः
षिट, अनादरे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) मूर्द्ध्वन्यादिः सेटति खलंलोकः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
षिच आर्द्रीकरणे तु० मु०
उभ०
सक०
अनिट् सिञ्चति ते असिचत् सिक्तः
क्षीरतरङ्गिणी
Sanskrit
षिचँ षिच क्षरणे
- सिञ्चति, सिञ्चते उपर्गात् सुनोति (8365) इति षः अभिषिञ्चति स्थादिष्वभ्यासेन चाभ्यासस्य (8364)-अभिषिषेच, अभ्यषिञ्चत् असिचत्, असिक्त, असिचत दाम्नी (3282) इति ष््रन्-सेक्त्रम् सिचेः संज्ञायां कन् नुंहौ (द0 उ0 9106)-सिंहः सिचो यङि (83112) षत्वम्-अभिसेसिच्यते ण्यन्तस्योपसंख्यानम्-असीसिचत् 152
धातुवृत्तिः
Sanskrit
षिचँ षिच (अर्थः) क्षरणे
सिञ्चति सिषेच सिषिचतुः सिषेचिथ ) क्रादिनियमादिट् "आदेशप्रत्यययोः'' इति प्रकृतेः षत्वम् ( सेक्ता सेक्ष्यति सिञ्चतु असिञ्चत् सिच्यात् असिचत् ) "लिपिसिचिह्वश्च'' इति परस्मैपदेऽङ् अन्यत्र "आत्मनेपदेष्वन्यतरस्याम्'' इति विकल्पः ( असिक्त असिक्षाताम् असिचत असिचेताम्) इत्यादि ( सिञ्चते सिषिचे ) इत्यादि, ( सिसिक्षति सिसिक्षते ) "स्तौतिण्योरेव'' इति नियमान्न षत्वम् ( सेसिच्यते ) "सिचो यङि'' इति षत्वम् सेसेक्ति सेचयति असीषिचत्) अत्र स्वामी षत्वं नेच्छति ( अभिषिचति ) "स्तौतिण्योरेव'' इति नियमम्बाधित्वा "स्थादिष्वभासेन चाभ्यासस्य'' इति षत्वम् ( अभिसेसिच्यते ) इत्यत्र "उपसर्गात्'' इति प्राप्तेरपि परत्वात् "सिचो यङि'' इति निषेधो भवति, "उपसर्गात्'' इति प्राप्तिस्तु पुरस्तादपवादन्यायेन "सात्पदाद्योः'' इति निषेधमेव बाधेत ( सेक्त्रम् ) "दाम्नीशस'' इत्यादिना ष्ट्रन् ( सिक्थम् ) पात्रम् "पातृतुदिवचिरिचिसिचभ्यस्थक्'' इति थक् सिचशब्दस्तु बाहुलकात्कयनन्तः मुचादयोऽनुदात्ताः स्वरितेतः विदतिस्तु सेडेकः 150
कृदन्तरूपमाला
Sanskrit
1 {@“षिच क्षरणे”@} 2 मुचादिः।
सेचकः-चिका, सेचकः-चिका, 3 सिसिक्षकः-क्षिका, 4 सेसिचकः-चिका
5 सेक्ता-सेक्त्री, सेचयिता-त्री, सिसिक्षिता-त्री, सेसिचिता-त्री
इत्यादीनि रूपाणि तौदादिकमुञ्चतिवत् 6 बोध्यानि।
7 अभिषिञ्चन्- परिषिञ्चन्-न्ती-ती, 8 निषेकः, अभिषेकः, 9 सेक्त्रम्, 10 सिक्थम् इति विशेष- रूपाणि।
प्रासङ्गिक्यः
01
=>
(१८३१)
02
=>
(६-तुदादिः-१४३४। सक। अनि। पर।)
03
=>
[[८। सन्नन्ते ‘हलन्ताच्च’ (१-२-१०) इति झलादेः सनः कित्त्वम्
\n\n तेन गुणो न।]]
04
=>
[[९। ‘सिचो यङि’ (८-३-११०) इति षत्वनिषेधः। ‘आदेशप्रत्यययोः’ (८-३-५९) इति प्राप्तस्य षत्वस्य निषेधः।]]
05
=>
[पृष्ठम्१३४२+ ३१]
06
=>
(१२७५)
07
=>
[[१। ‘उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिच--’ (८-३-६५) इति षत्वमत्र। ‘शे मुचादीनाम्’ (७-१-५९) इति नुम्। अनुस्वारपरसवणौ।]]
08
=>
[[२। घञि ‘चजोः--’ (७-३-५२) इति कुत्वम्
\n\n षत्वम्। निषेकः संस्कारविशेषः।]]
09
=>
[[३। ‘दाम्नीशसयुयुजस्तुतुदसिसिच--’ (३-२-१८२) इति करणे ष्ट्रन्प्रत्ययः। सिञ्चन्ति अनेनेति सेक्त्रम् सेचनसाधनम्।]]
10
=>
[[४। औणादिके क्थन्प्रत्यये, प्रत्ययस्य कित्त्वात् गुणनिषेधे कुत्वे रूपमेवम्।]]