षिका (SikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“किल श्वैत्यक्रीडनयोः”@} 2 केलकः-लिका, केलकः-लिका, 3 चिकिलिषकः चिकेलिषकः षिका, चेकिलकः-लिका
केलिता-त्री, केलयिता-त्री, चिकिलिषिता-चिकेलिषिता-त्री, चेकिलिता-त्री
4 किलन् 5 -न्ती-ती, केलयन्-न्ती, चिकिलिषन्-चिकेलिषन्-न्ती
-- केलिष्यन्-न्ती-ती, केलयिष्यन्-न्ती-ती, चिकिलिषिष्यन्-चिकेलिषिष्यन्-न्ती-ती
-- केलयमानः, केलयिष्यमाणः, चेकिल्यमानः, चेकिलिष्यमाणः
किल्-किलौ-किलः
-- -- -- किलितम्-तः, केलितः-तम्, चिकिलिषितः-चिकेलिषितः, चेकिलितः-तवान्
6 किलः, केलः, चिकिलिषुः-चिकेलिषुः, चिकेलयिषुः, चेकिलः
7 केलितव्यम्, केलयितव्यम्, चिकिलिषितव्यम्-चिकेलिषितव्यम्, चेकिलितव्यम्
केलनीयम्, केलनीयम्, चिकिलिषणीयम्-चिकेलिषणीयम्, चेकिलनीयम्
केल्यम्, केल्यम्, चिकिलिष्यम्-चिकेलिष्यम्, चेकिल्यम्
ईषत्केलः-दुष्केलः-सुकेलः
-- -- किल्यमानः, केल्यमानः, चिकिलिष्यमाणः-चिकेलिष्यमाणः, चेकिल्यमानः
चेकिलः
केलः, केलः, चिकिलिषः-चिकेलिषः, केलितुम्, केलयितुम्, चिकिलिषितुम्-चिकेलिषितुम्, चेकिलितुम्
किल्तिः, केलना, चिकिलिषा-चिकेलिषा, चिकेलयिषा, चेकिला
केलनम्, केलनम्, चिकिलिषणम्-चिकेलिषणम्, चेकिलनम्
किलित्वा केलित्वा केलयित्वा, चिकिलिषित्वा-चिकेलिषित्वा, चेकिलित्वा
सकिल्य, प्रकेल्य, प्रचिकिलिष्य-प्रचिकेलिष्य, प्रचेकिल्य
केलम् २ किलित्वा २ केलित्वा २ केलम् २ केलयित्वा २ चिकिलिषम् २ चिकिलिषित्वा २ चिकेलिषम् २ चिकेलिषित्वा २ चेकिलम् २
चेकिलित्वा २
8 केलिः- 9 केली।
-- -- --
01 (१९३)
02 (६-तुदादिः-१३५३। सक। सेट्। पर।)
03 [[२। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति सनः क्त्वाप्रत्ययस्य च कित्त्वं वा।]]
04 [[३। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः। शस्य ङिद्वद्भावाद्गुणो न।]]
05 [[B। ‘गतनिमेषमुदैक्षि किलन् विभुस्सुकृतिभिस्स जगत्तिलकाकृतिः। चिलितपीतपटेन चलन् इलन् अविलितोरुकृपां परितो दृशम्।।’ धा। का। २। ७८।]]
06 [[४। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कः। अचोऽपवादः।]]
07 [पृष्ठम्०१८८+ २२]
08 [[१। ‘सर्वधातुभ्यः’ (द। उ। १-४६।) इत्यौणादिकः इन् प्रत्ययः।]]
09 [[२। स्त्रियां ‘कृदिकारादक्तिनः’ (ग। सू। ४-१-४५) इति ङीष् वा।]]
1 {@“घुणि ग्रहणे”@} 2 घुण्णकः-ण्णिका, घुण्णकः-ण्णिका, जुघुण्णिषकः षिका, जोघुण्णकः-ण्णिका
घुण्णिता-त्री, घुण्णयिता-त्री, जुघुण्णिषिता-त्री, जोघुण्णिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्लिन्दतिवत् 3 बोध्यानि।
4 परिघुण्ण्य।
5
01 (४६७-आ)
02 (१-भ्वादिः-४३५। सक। सेट्। आत्म।)
03 (२८४)
04 [[C। ‘प्रधिण्य भूषाः परिधुण्य मालिकाः प्रघृण्य घोणापुटघूर्णिचन्दनम्’ धा। का। १। ५७।]]
05 [पृष्ठम्०४५६+ २७]
1 {@“छद अपवारणे”@} 2 आधृषीयः।
3 ‘छदिरूर्जने’ 4 इति भ्वादिषु पठ्यते।
तत्र छदिरिति इका निर्देशः।
ऊर्जनम् = बलनम् प्राणनं वा।
चुरादिषु पठितस्य छदधातोराधृषीयत्वेन णिज्विकल्पनात् स्वार्थे णिजभावपक्षे मित्त्वार्थोऽयमनुवादः।
धातूनामनेकार्थत्वा- दूर्जने वृत्तिः।
छदन्तं प्रयुङ्क्ते छदयति = बलवन्तं प्राणवन्तं वा करोतीत्यर्थः।
यदा तु छादयतीति स्वार्थे ण्यन्तः, तदा बलीभवति, प्राणीभवति, अपवारयतीति वाऽर्थः।
तदा, ‘नान्ये मितोऽहेतौ’ 5 इति वचनात् मित्त्वं न।
‘छदिरर्जने’ इति कुत्रचिद् दृष्टः पाठो न साम्प्रदायिकः।
‘छेद अपवारणे’ इति चुरादावेवोत्तरत्र विद्यमानस्य धातोरपि ‘छद’ इत्येव क्षीरस्वामिसम्मतः पाठोऽप्यनार्ष इति ज्ञायते।
देवपुरुषकारावप्यस्मदुक्तार्थोपष्टम्भकावेव।
‘छादेर्घेऽद्व्युपसर्गस्य’ 6 इत्यादिसूत्राण्येवास्य धातोः भ्वादिषु पाठाभावे गमकानीत्यपि ज्ञेयम्।]] 7 ‘यौ वा णौ--अपवारणे छदत इत्येकम्, द्वितीयं छदेत्, 8 अन्यत् छादयति, छदेदिति पुनः स्यादूर्जनेऽर्थे मितः।
यत्तु च्छन्दयतीति णौ नुमि पदं-तत संवृताविष्यते’ -- 9 इति देवः।
10 छादकः-दिका, 11 चिच्छादयिषकः-षिका, 12 छादकः-दिका, चिच्छदिषकः- षिका, 13 चाच्छदकः-दिका, 14 छदकः-दिका
छादयिता-त्री, चिच्छादयिषिता-त्री, छदिता-त्री, चिच्छदिषिता-त्री, चाच्छदिता-त्री, छदयिता-त्री
छादयन्-न्ती, चिच्छादयिषन्-न्ती, 15 छदन्-न्ती, चिच्छदिषन्-न्ती, -- छदयन्-न्ती
छादयिष्यन्-न्ती-ती, चिच्छादयिषिष्यन्-न्ती-ती, छदिष्यन्-न्ती-ती, चिच्छ-दिषिष्यन्-न्ती-ती, -- छदयिषिष्यन्-न्ती-ती
छादयमानः, चिच्छादयिषमाणः
16 छदमानः, चिच्छदिषमाणः, चाच्छद्यमानः, छदयमानः
छादयिष्यमाणः, चिच्छादयिषिष्यमाणः, छदिष्यमाणः, चिच्छदिषिष्यमाणः, चाच्छदिष्यमाणः, छदयिषिष्यमाणः
17 18 तनुच्छत्-तनुच्छदौ-तनुच्छदः
-- -- 19 छन्नम्- 20 छन्नः-छादितः- 21 तम्, चिच्छादयिषितः, छदितः-तम्, चिच्छदिषितः, चाच्छदितः, 22 छदितः-तवान्
छादः, चिच्छादयिषुः, छदः, चिच्छदिषुः, चाच्छदः, छदः
छादयितव्यम्, चिच्छादयिषितव्यम्, छदितव्यम्, चिच्छदिषितव्यम्, चाच्छदितव्यम्, छदयितव्यम्
छादनीयम्, चिच्छादयिषणीयम्, छदनीयम्, चिच्छदिषणीयम्, चाच्छदनीयम्, छदनीयम्
छ द्यम्, चिच्छादयिष्यम्, छाद्यम्, चिच्छदिष्यम्, चाछद्यम्, छद्यम्
ईषच्छादः-दुश्छादः-सुच्छादः
-- -- छाद्यमानः-चिच्छादयिष्यमाणः, छद्यमानः, चिच्छदिष्यमाणः, चाच्छद्यमानः, छद्यमानः
छादः, 23 प्रच्छदः-उरश्छदः-दन्तच्छदः, समुपच्छादः, 24 समुपातिच्छादः, चिच्छादयिषः, छादः, चिच्छदिषः, चाच्छदः, छदः
छादयितुम्, चिच्छादयिषितुम्, छदितुम्, चिच्छदिषितुम्, चाच्छदितुम्, छदयितुम्
छादना, चिच्छादयिषा, छत्तिः, चिच्छदिषा, चाच्छदा, छदना
छादनम्, चिच्छादयिषणम्, छदनम्, चिच्छदिषणम्, चाच्छदनम्, छदनम्
25 छादयित्वा, चिच्छादयिषित्वा, छदित्वा, चिच्छदिषित्वा, चाच्छदित्वा, छदयित्वा
प्रच्छाद्य, प्रचिच्छादयिष्य, प्रच्छद्य, प्रचिच्छदिष्य, प्रचाच्छद्य, 26 प्रच्छदय्य
छादम् २, छादयित्वा २, चिच्छादयिषम् २, चिच्छादयिषित्वा २, छादम् २, छदित्वा २, चिच्छदिषम् २। चिच्छदिषित्वा २, चाच्छदम् २, चाच्छदित्वा २, 27 छदम् २ -छादम् २। छदयित्वा २
28 इसिप्रत्यये छदिः इति भवति।
‘इस्मन्त्रन्क्विषु च’ 29 इति, उपधाया ह्रस्वः।
छादयतीति छदिः = चर्म, आवरणं च।]] छदिः, 30 ष्ट्रन् प्रत्यये, ‘इस्मन्त्रन्क्विषु च’ 31 इत्युपधाह्रस्वे रूपम्।
छाद्यतेऽनेनेति छत्त्रम् = आतपत्रम्।]] छत्त्रम्, 32 इति मनिनि प्रत्यये छद्म = कपटम्।]] छद्म।
01 (५६२)
02 (१०-चुरादिः-१८३४। सक। सेट्। उभ।)
03 [[[अ]
04 (ग। सू।)
05 (ग। सू। चुरादौ)
06 (६-४-९६)
07 [पृष्ठम्०५३५+ २४]
08 (छदन्)
09 (श्लो। ११३)
10 [[१। स्वार्थे णिचि, ‘अत उपधायाः’ (७-२-११६) इति वृद्धौ रूपम्।]]
11 [[२। ण्यन्तात् सनि, अभ्यासात् परतः, ‘छे च’ (६-१-७३) इति तुक्। ‘स्तोः श्चुना श्चुः’ (८-४-४०) इति श्चुत्वेन चकारः। एवं सन्नन्ते यङन्ते च बोध्यम्।]]
12 [[३। ‘आधृषाद्वा’ (गणसूत्रं चुरादौ) इति णिचो वैकल्पिकत्वम्। तेन, णिजभावपक्षे शुद्धाद्धातोर्ण्वुलि रूपम्। ण्यन्तप्रकृतिकण्वुलन्तस्य, अस्य चार्थमेदो नास्ति।]]
13 [[४। णिजभावपक्षे, यङन्ते, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासस्य दीर्घे, ‘दीर्घात्’ (६-१-७५) इति तुकि, तस्य श्चुत्वेन चकारे रूपम्। एवमुत्तरत्रापि रूपनिष्पत्तिर्ज्ञेया।]]
14 [[५। ‘छदिरूर्जने’ (गणसूत्रम्-भ्वादौ) इति घटादिषु पाठेनास्य मित्त्वात्, अस्मात्, हेतुमण्णिचि परतः, उपधावृद्धौ, ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वे, ‘छदकः- दिका’ इत्यादीनि, ऊर्जनार्थे विद्यमानस्यास्य धातोर्णौ बोध्यानि।]]
15 [[आ। ‘मल्लोऽर्द्यः स च हिंसितः पदमुपासात्सीद्धरेः शुन्धितः तावत् स्वं बलमच्छदन् जुषितवान् मुष्ट्या हली मुष्टिकम्।।’ धा। का। ३-५०।]]
16 [[६। धातोः स्वरितेत्त्वेन, शुद्धात्, ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले (१-३-७२) इति आत्मनेपदम्। परगामिनि क्रियाफले तु, ‘शेषात् कर्तरि परस्मैपदम्’ (१-३-७८) इति परस्मैपदमपि भवति।]]
17 [पृष्ठम्०५३६+ २४]
18 [[१। ‘क्विप् च’ (३-२-७६) इति क्विपि, ‘इस्मन्त्रन्क्विषु च’ (६-४-९७) इति णौ, उपधायाः ह्रस्वः।]]
19 [[२। ‘वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः’ (७-२-२७) इति ण्यन्तात्, निष्ठायाः इडभावः उपधाह्रस्वत्वं च निपात्यते। ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ (८-२-४२) इति निष्ठानत्वम्। पक्षे छादितः इत्यपि भवति।]]
20 [[आ। ‘प्रच्छन्नस्तरुगहनैः स गुल्मजालैः लक्ष्मीवाननुपदमस्य सम्प्रतस्थे।।’ किरातार्जुनीये १२-५४।]]
21 [[B। ‘आच्छादितायतदिगम्बरमुच्चकैर्गामाक्रम्य संस्थितमुदग्रविशालशृङ्गम्।’ शिशुपालवधे ४-१९।]]
22 [[३। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः।]]
23 [[४। छादेः करणार्थे, प्रच्छाद्यतेऽनेनेत्यर्थे, ‘पुंसि संज्ञायां घः प्रायेण’ (३-३-११८) इति घप्रत्यये, ‘छादेर्घेऽद्व्युपसर्गस्य’ (६-४-९६) इति उपधाह्रस्वः। एवं दन्त- च्छदः उरश्छदः इत्यादिष्वपि ज्ञेयम्।]]
24 [[५। ‘अद्विप्रभृत्युपसर्गस्येति वक्तव्यम्’ (वा-६-४-९६) इत्युक्तत्वात् द्विप्रभृतिषूपसर्गेषु सत्स्वपि ह्रस्वो न प्रवर्तते।]]
25 [पृष्ठम्०५३७+ १९]
26 [[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
27 [[२। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
28 [[३। औणादिके [द। उ। ९। ३०]
29 (६-४-९७)
30 [[४। ‘ष्ट्रन्’ [द। उ। ८-७९]
31 (६-४-९७)
32 [[५। ‘मनिन्’ [द। उ। ६-७३]
1 {@“जभि नाशने”@} 2 3 दैवश्लोकस्य प्रवृत्तिस्तु--‘जभ मैथुने’ इति पाठमवलम्ब्य।
‘रभिश्च भान्तेष्वथ मैथुने यभिः’ 4 इति वृत्तिग्रन्थपरामर्शें तु स पाठः न प्रामाणिक इति गम्यंते।]] ‘जृम्भणे जम्भते, याभे जम्भेत्, नाशेतु जम्भयेत्।।’ 5 इति देवः।
जम्भकः-म्भिका, जिजम्भयिषकः-षिका, जम्भकः-म्भिका, जिजम्भिषकः- षिका, जाजम्भकः-म्भिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- चम्पयतिवत् 6 ज्ञेयानि।
इदित्करणात् णिचो वैकल्पिकत्वम्।
जिजम्भिषुः 7 णिजभावपक्षे केवलाद्धातोः सन्नन्तादुकारः प्रत्ययः।
8
01 (५८५)
02 (१०-चुरादिः-१७१७। सक। सेट्। उभ।)
03 [[[अ]
04 (काशिका ७-२-१०)
05 (श्लो। १४५)
06 (१९९)
07 [[C। ‘मल्लो जिजम्भिषुरसूदितवीर्यमीशं मुष्ट्या जजास बहु पाशितवांश्च दोष्णा।।’ धा। का। ३। ३८।]]
08 [पृष्ठम्०५५८+ २४]
1 {@“णू स्तवने”@} 2 कुटादिः।
‘--स्तुत्यां नुवति, नौति वा।।’ 3 इति देवः।
नावकः-विका, 4 नुविता-त्री, नुवन्-ती-न्ती, नुविष्यन्-न्ती-ती, प्रणूः, 5 प्रण्वौ-प्रण्वः, 6 नूतम्-नूतः-नूतवान्, नुवः, नुवितव्यम्, नुवनीयम्, नव्यम्, 7 अवश्यनाव्यम्, ईषन्नुवः-दुर्नुवः-सुनुवः, नूयमानः, नुवः-नुवितुम्, 8 9 नूतिः, नुवनम्, नूत्वा, प्रणूय, नावम् २ नूत्वा २ इति शुद्धाद्धातो रूपाणि।
ण्यन्तात्, सन्नन्तात् यङन्ताच्च क्रमेण नावकः-विका, नुनूषकः, षिका, नोनूयकः-यिका
इत्यादीनि रूपाणि आदादिकनौतिवत् 10 ज्ञेयानि।
01 (६८६)
02 (६-तुदादिः-१३९७। सक। सेट्। पर।)
03 (श्लो। २४)
04 [[२। अस्य धातोः कुटादिषु पाठात् ‘गाङ्कुटादिभ्यः--’ (१-२-१) इति ञित्णिद्- भिन्नानां प्रत्ययानां ङिद्वद्भावातिदेशात् ‘क्ङिति च’ (१-१-५) इति गुणनिषेधे, उवङादेशे च नुविता नुविष्यन् इत्यादीनि रूपाणि बोध्यानि।]]
05 [[३। क्विबन्ते द्विवचनादौ ‘उपसर्गादसमासेऽपि--’ (८-४-१४) इति णत्वे, ‘ओः सुपि’ (६-४-८३) इति यण्।]]
06 [[४। अस्य कुटादित्वात् विशेषविहितेन ङिद्वद्भावेन क्तप्रत्ययस्य कित्त्वं बाध्यते। अतश्च ‘श्र्युकः क्किति’ (७-२-११) इति निषेधाप्रवृत्त्या इडागमे ‘नुवितः-तवान्’ इति केचिद्वदन्ति। तत्तु न समीचीनम्। अत एव ‘गाड्कुटादिम्यः--’ (१-२-१) इति सूत्रे भाष्ये--‘तस्मात् नूत्वा धूत्वा इत्येव भवितव्यम्।’ इत्युक्तिः सङ्गच्छते।]]
07 [[५। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्। आवादेशः।]]
08 [पृष्ठम्०६३६+ २४]
09 [[आ। ‘नूत्या किं भयधूतविद्रुतगुवल्लोकं तदा तद्ध्रुवत् कोदण्डं कुवमानमैक्षि दलितं भोजेश्वराकूतवत्।।’ धा। का। २। ८२।]]
10 (६८३)
1 {@“दृप सन्दीपने”@} 2 ‘तृप तृप्तौ’ 3 इत्यस्य पाठान्तरोऽयम्।
दर्पकः-र्पिका, दिदर्पयिषकः- षिका
दर्पकः-र्पिका, दिदर्पिषकः-षिका, दरीदृपकः-पिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 4 बोध्यानि।
01 (८६१)
02 (१०-चुरादिः-१८२१। सक। सेट्। उभ। आधृषीयः।)
03 (७७३)
04 (५५४)
1 {@“धिष शब्दे”@} 2 छान्दसः।
धेषकः-षिका, धेषकः-षिका, दिधिषिषकः-दिधेषिषकः-षिका, देधिषकः- षिका
इत्यादीनि सर्वाण्यपि रूपाणि किटतिवत् 3 ज्ञेयानि।
क्विपि धिड्-धिट् धिषौ-धिषः इति रूपम्।
शतरि 4 दिधिषत्-दिधिषती इति 5 रूपम्।
6 धिषणा, 7 यक्प्रत्यये नुमागमे च रूपम्।
दिधेष्टीति धिष्ण्यम् = गृहम्, ज्योतिश्च।]] धिष्ण्यम्।
01 (९००)
02 (३-जुहोत्यादिः-११०३। अक। सेट्। पर।)
03 (१९०)
04 [[२। शतरि, शपि, तस्य, ‘जुहोत्यादिभ्यः--’ (२-४-७४) इति श्लौ, ‘श्लौ’ (६-१-१०) इति द्विर्वचने, ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधे च रूपमेवम्।]]
05 [पृष्ठम्०७९७+ २८]
06 [[१। ण्यन्तात् ‘ण्यासश्रन्थो युच्’ (३-३-१०७) इति युचि, अनादेशे, बाहुलकाद् गुणाभावे च रूपम्।]]
07 [[२। औणादिके [द। उ। १०। १७]
1 {@“ध्रेकृ शब्दोत्साहयोः”@} 2 उत्साहः = वृद्धिरौद्धत्यं वा।
‘शब्दोत्साहे’ इति केचित्।
शब्दोत्साहः = शब्देन स्वोत्साहस्याविष्करणम्।
ध्रेककः-किका, ध्रेककः-किका, दिध्रेकिषकः- षिका, देध्रेककः-किका
3 ध्रेकणः।
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिक- केपतिवत् 4 ज्ञेयानि।
01 (९३५)
02 (१-भ्वादिः-७९। अक। सेट्। आत्म।)
03 [[१। ‘चलनशब्दार्थादकर्मकाद् युच्’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युच्प्रत्ययः। ‘अट्कुपु--’ (८। ४। २) इति णत्वम्।]]
04 (२६१)
1 {@“पिडि संघाते”@} 2 ‘सङ्घाते पिण्डयेत् पिण्डेस्तत्रैव शपि पिण्डते।’ 3 इति देवः।
पिण्डकः-ण्डिका, पिपिण्डयिषकः-षिका, पिण्डकः-ण्डिका, पिपिण्डिषकः- षिका, पेपिण्डकः-ण्डिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचिन्त- यतिवत् 4 बोध्यानि।
5 पिण्डितः।
01 (९९९)
02 (१०-चुरादिः-१६७०। अक। सेट्। उभ।)
03 (श्लो। ९०)
04 (५२३)
05 [[आ। ‘इत्थं वदत्यसुरजासिनि पिण्डितायस्स्थेमाऽथ रोषतमतिः प्रतिमल्लडेपी।’ धा। का। ३। ३२।]]
1 {@“प्रुष स्नेहनसेवनपूरणेषु”@} 2 ‘--सेचन…’ इति क्षीरस्वामि-पुरुषकार-कविकल्पद्रुमसम्मतः पाठः।
मैत्रेयस्तु ‘… मोचन…’ इति पपाठ।
‘मोहनदाहनयोरप्याह शङ्करः।
इति धा।
का।
व्याख्या 3।
अयं ‘प्रूष--’ इति दीर्घोपघ इति बालमनोरमा।
‘--स्नेहनादिषु।
प्रुष्णाति च, प्रोषति च दाहे--।।’ 4 इति देवः।
प्रोषकः-षिका, प्रोषकः-षिका, पुप्रोषिषकः-पुप्रुषिषकः-षिका, पोप्रुषकः- षिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकपोषतिवत् 5 ज्ञेयानि।
6 विप्रुट्।
7 प्रुष्णन् 8।
01 (१०७५)
02 (९-क्र्यादिः-१५२७। सक। सेट्। पर।)
03 (३-१२)
04 (श्लो। १७२)
05 (१०२६)
06 [[५। क्विपि षकारस्य जश्त्वेन डकारः। विप्रुट् = पामा।]]
07 [[६। शतरि क्रैयादिकत्वात् श्नाप्रत्यये, ‘श्नाऽभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपे णत्वे च रूपम्।]]
08 [[आ। ‘प्रुष्णन् सतां प्रियमयं प्लुषिताङ्गरागः…।’ धा। का। ३। १२।]]
1 {@“प्लुष स्नेहनसेवनपूरणेषु”@} 2 ‘--मोहनदाहनयोरप्याह शङ्करः।’ इति धा।
का।
3।
‘सेचन--’ इत्यपि कुत्रचिद् दृष्टः पाठः।
‘प्लोषति प्लुष्यतीति स्तां, प्लुष्णाति स्नेहनादिषु।’ 4 इति देवः।
प्लोषकः-षिका, प्लोषकः-षिका, पुप्लोषिषकः-पुप्लुषिषकः, पोप्लुषकः- षिका
प्लुष्णन्-ती इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकपोषतिवत् 5 ज्ञेयानि।
निष्ठायाम्- 6 प्लुषितम्-तः, इति एकमेव रूपमिति विशेषः।
01 (१०८४)
02 (९-क्र्यादिः-१५२८। सक। सेट्। पर।)
03 (३-१२।)
04 (श्लो। १७२)
05 (१०२६)
06 [[B। ‘प्रुष्णन् सतां प्रियमयं प्लुषिताङ्गरागः पुष्णन् मुदं मृगदृशां रिपुधाम मुष्णन्।’ धा। का। ३। १२।]]
1 {@“प्लुषु दाहे”@} 2 ‘… दाहकर्मणि।।
प्लोषति, प्लुष्यतीति स्तां, प्लुष्णाति स्नेहनादिषु।’ 3 इति देवः।
प्लोषकः-षिका, प्लोषकः-षिका, पुप्लोषिषकः-पुप्लुषिषकः-षिका, पोप्लुषकः- षिका
4 प्लुष्टः 5, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकपोषतिवत् 6 ज्ञेयानि।
01 (१०८५)
02 (१-भ्वादिः-७०४। सक। सेट्। पर।)
03 (श्लो। १७१-१७२)
04 [[१। उदित्त्वेन क्त्वायामि ड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। ष्टुत्वम्।]]
05 [[C। ‘… प्रोष्यान् प्लुष्टजनान् कृपामृतपृषद्वर्षी भवान् दानवान्।’ धा। का। १। ८८।]]
06 (१०२६)
1 {@“भ्लक्ष अदने”@} 2 ‘भक्ष’ इति क्षीरस्वामी इति मा।
धातुवृत्तावुक्तम्।
पुरुषकारेऽप्येवमेव।
‘भक्ष’ इति मैत्रेयः।
‘प्लक्ष’ इति दुर्गः।
मुद्रितक्षीरतराङ्गिण्यां तु ‘भ्लक्ष--’ इत्येव पाठो दृश्यते।
चुरादिषु भक्ष 3 धातौ क्षीरस्वामिनैव ‘भक्षतेर्घञ्- भक्षः।’ इत्युक्तत्वात् अदनार्थकस्य भक्षतेर्भ्वादिषु कुत्राप्यपाठात्, एनमेव 4 भक्षतिं मनुते इति भाति।
दुर्गादयस्तु धातुममुं ‘प्लक्ष--’ इति पठन्ति।
“तस्य शिरः छित्त्वा मेघं प्राक्षारयन्, स प्रक्षोऽभवत्।
तत् प्रक्षस्य प्रक्षत्वम्-यत् प्लक्षशाखा--” 5 इति श्रुत्यनुसारेण प्रपूर्वकात् क्षरतेः पचाद्यचि कपिलकादेराकृतिगणत्वात् 6 उपसर्गस्थरेफस्य लत्वे च प्लक्षशब्दव्युत्पादनं कृतवतो भाष्यकारस्य न सम्मतमिति, अन्यथा 7 अस्मादेव पचाद्यचि प्लक्षशब्दसिद्धेः, श्रौतनिर्वचनस्याप्रसक्तेरिति मनीषया च सुदूरं विचार्य माधवधातुवृत्तौ पाठोऽयं निरस्त इति ज्ञेयम्।
शतपथब्राह्मणे 8 ‘प्रख्यो हवै नामैतत् यत् प्लक्षः।’ इत्युक्तमपीह ध्येयम्।
भ्लक्षकः-क्षिका, भ्लक्षकः-क्षिका, बिभ्लक्षिषकः- षिका, बाभ्लक्षकः-क्षिका
भ्लक्षिता-त्री, भ्लक्षयिता-त्री, बिभ्लक्षिषिता-त्री, बाभ्लक्षिता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिकध्रजतिवत् 9 ज्ञेयानि।
अस्य धातोः उभयपदि- त्वात् शानचि-भ्लक्षमाणः, भ्लक्षिष्यमाणः, इति विशेषः।
ल्यपि- 10 प्रभ्लक्ष्य इति।
01 (११९४)
02 (१-भ्वादिः-८९३। अक। सेट्। उभ।)
03 (२१)
04 [पृष्ठम्०९८७+ २८]
05 (मैत्रायणीयसंहिता-६-३-१०-२)
06 (वा। ८-२-१८)
07 (प्लक्षधातुसद्भावे)
08 (३-८-३-१२)
09 (९२६)
10 [[आ। ‘लाषेण चाषांश्छषितान् झषित्वा प्रभ्लक्ष्य भक्षन्ति यदम्बु नीचाः।’ धा। का। २। २८।]]
1 {@“मार्ग अन्वेषणे”@} 2 ‘अन्वेषणेऽर्थे मृगयेत णौ यो मार्गेर्भवेन्मार्गति मार्गयेच्च।।’ 3 इति देवः।
आधृषीयत्वादस्य धातोर्णिज्विकल्पः।
णिजभावपक्षे धातोरस्य भौवादिकत्वमिति ज्ञेयम्।
मार्गकः-र्गिका, मिमार्गयिषकः-षिका, मार्गकः-र्गिका, मिमार्गिषकः- षिका, मामार्गकः-र्गिका
मार्गयिता-त्री, मिमार्गयिषिता-त्री, मार्गिता-त्री, मिमार्गिषिता-त्री, मामार्गिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- चर्पयतिवत् 4 ज्ञेयानि।
01 (१२४८)
02 (१०-चुरादिः-१८४७। सक। सेट्। उभ। आधृषीयः)
03 (श्लो। ४४)
04 (५५४)
1 {@“मिजि भाषार्थः”@} 2 आस्वदीयः।
इदित्करणात् णिचो वैकल्पिकत्वम्।
धातुरयं क्षीरस्वामिना नोपात्तः।
3 मिञ्जकः-ञ्जिका, मिमिञ्जयिषकः-षिका, मिञ्जकः-ञ्जिका, मिमिञ्जिषकः- षिका, मेमिञ्जकः-ञ्जिक
मिञ्जयिता-त्री, मिमिञ्जयिषिता-त्री, मिञ्जिता-त्री, मिमिञ्जिषिता-त्री, मेमिञ्जिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककुंशयतिवत् 4 ज्ञेयानि।
01 (१२५२)
02 (१०-चुरादिः-१७५७। सक। सेट्। उभ।)
03 [[३। इदित्त्वान्नुमि, अनुस्वारे परसवर्णे च रूपमेवम्। एवमेव सर्वत्र ज्ञेयम्।]]
04 (२३२)
1 {@“मिष स्पर्धायाम्”@} 2 ‘सेचने मेषतीति स्यात् स्पर्धायां मिषतीति शे।’ 3 इति देवः।
4 ‘--अयमुन्मीलनार्थोऽपि’ इति धा।
का।
5।
मेषकः-षिका, मेषकः-षिका, मिमेषिषकः-मिमिषिषकः-षिका, मेमिषकः- षिका
मेषिता-त्री, मेषयिता-त्री, मिमेषिषिता-मिमिषिषिता-त्री, मेमिषिता-त्री
इत्यादीनि रूपाणि तौदादिककिलतिवत् 6 ऊह्यानि।
7 मेषः-मेषी, 8 निमेषः- 9 निमिषः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
01 (१२६४)
02 (६-तुदादिः-१३५२। सक। सेट्। पर।)
03 (श्लो। १७४)
04 [पृष्ठम्१०२८+ २४]
05 (२। ७८)
06 (१९३)
07 [[१। पचादिषु ‘मेष’ इति पाठात् कर्तर्यच्प्रत्यये रूपमेवम्। ‘येषां धातूनां प्रयोगे गुणादिकं दृष्टं ते धातवः पचादेराकृतिगणत्वेन तत्र पाठादूह्याः’ इति प्रक्रियास- र्वस्वम्। वस्तुतोऽत्र पचादिषु पाठो दृश्यत एवेत्यस्मिन् विषये आकृतिगणत्वेन समाधिर्नादर्तव्या। स्त्रियां जातिलक्षणे (४-१-६३) ङीषि मेषी इति भवति।]]
08 [[२। ‘घञ्--निमेषः।’ इति क्षीरतरङ्गिणी। एवमेव धातुवृत्तावपि।]]
09 [[३। ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इत्यत्र परिगणनानादरेण भावे घञपवाद- तया बाहुलकात् कप्रत्यये निमिषः, आमिषम् इत्यादयोऽपि साधवः। एवमेव निमेष इत्यपि बाहुलकादेव, यतोऽयं कप्रत्ययो घञपवादस्ततोऽत्रैव घञोऽप्रसक्ते- रिति ज्ञेयम्।]]
1 {@“मिषु सेचने”@} 2 ‘--सेवने’ इति धा।
का।
3।
‘सेचने मेषतीति स्यात्, स्पर्धायां मिषतीति शे।’ 4 इति देवः।
मेषकः-षिका, मेषकः-षिका, मिमेषिषकः-मिमिषिषकः-षिका, मेमिषकः- षिका
मेषिता-त्री, मेषयिता-त्री, मिमेषिषिता-मिमिषिषिता-त्री, मेमिषिता- त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकजेमतिवत् 5 ज्ञेयानि।
6 मेषः-मेषी, शतरि-मेषन्, इत्यादीनि रूपाणि विशेषेण भवन्ति।
ण्यति 7 मेष्यम्।
01 (१२६५)
02 (१-भ्वादिः-६९९। सक। सेट्। पर।)
03 (१-८७)
04 (श्लो। १७४)
05 (६०२)
06 [[४। ‘नन्दिग्रहिपचादिभ्यः’ (३-१-१३४) इति अच्प्रत्यये रूपमेवम्। मेषट् इति पचादिषु पाठात् टित्त्वात् स्त्रियां ङीषि-मेषी इति भवति।]]
07 [[आ। ‘वेषैर्मेष्यतमैः प्रपोषदशुभप्रश्रेषिभिः श्लेषति…।’ धा। का। १। ८८।]]
1 {@“रुज हिंसायाम्”@} 2 आस्वदीयः।
‘भङ्गे रुजति, हिंसायां रोजयेदिति णौ रुजेः।।’ श्लो।
६९) इति देवः।
रोजकः-जिका, रुरोजयिषकः षिका
रोजयिता-त्री, रुरोजयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककोटयतिवत् 3 बोध्यानि।
01 (१४१५)
02 (१०-चुरादिः-१८०५। सक। सेट्। उभ।)
03 (२०५)
1 {@“ली श्लेषणे”@} 2 प्वादिः, ल्वादिश्च।
‘यौ द्रवीकरणेऽनात्वे लीनयेत् लाययेत् लयेत्।।
लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 3 इति देवः।
4 5 लायकः-यिका, 6 लालकः-लिका, 7 लीनकः-निका, निलापकः-पिका, 8 लिलीषकः- षिका, 9 लेलीयकः-यिका
10 लेता-लेत्री, लाता-त्री, लापयिता-लालयिता-त्री, लीनयिता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
11 लिनन्-ती, लापयन्, लालयन्, लीनयन्-न्ती, लिलीषन्-न्ती
-- लास्यन्-लेस्यन्-न्ती-ती, लापयिष्यन्-लालयन्-लीनयन्-न्ती-ती, लिलीषिष्यन्-न्ती-न्ती
-- -- लापयमानः-लालयमानः-लीनयमानः, -- लेलीयमानः
-- 12 जटाभिर्लापयमानः, वर्त्तिकामुल्लापयमानः, बालमुल्लापयमानः
-- लापयिष्यमाणः-लालयिष्यमाणः-लीनयिष्यमाणः, --लेलीयिष्यमाणः
लीः-लियौ-लियः
-- -- -- 13 लीनम्-नः-नवान्, लापितः-लालितः-लीनितः, लिलीषितः, लेलीतः-तवान्
14 15 लयः, लापः-लालः-लीनः, लिलीषुः, लिलापयिषुः, लेल्यः-लेलियः
लेतव्यम्-लातव्यम्, लापयितव्यम्-लालयितव्यम्-लीनयितव्यम्, लिलीषितव्यम्, लेलीयितव्यम्
लयनीयम्-लानीयम्, लापनीयम्-लालनीयम्-लीननीयम्, लिलीषणीयम्, लेलीयनीयम्
16 ईषल्लयः-दुर्लयः-सुलयः
-- -- -- लीयमानः, लाप्यमानः-लाल्यमानः-लीन्यमानः, लिलीष्यमाणः, लेलीय्यमानः
लयः, लापः-लालः-लीनः, लिलीषः, लेलीयः
लातुम्-लेतुम्, लापयितुम्-लालयितुम्-लीनयितुम्, लेलीयितुम्
17 लीनिः, लापना-लालना-लीनना, लिलीषा, लेलीया
लयनम्, लानम्, लापनम्-लालनम्-लीननम्, लिलीषणम्, लेलीयनम्
लीत्वा, लालयित्वा-लापयित्वा-लीनयित्वा, लिलीषित्वा, लेलीयित्वा
18 विलाय-विलीय, विलाप्य-विलाल्य-विलीन्य, विलिलीष्य, विलेलीय
लायम् २ लीत्वा २, लापम् २ -लालम् २ -लीनम् २, 19 जतुविलायं विलिल्ये, लापयित्वा २ -लालयित्वा २ -लीनयित्वा २, लिलीषम् २, लिलीषित्वा २, लेलीयम् २
लेलीयित्वा २।
01 (१४९२)
02 (९-क्र्यादिः-१५०१। अक। अनि। पर।)
03 (श्लो। १७-१८)
04 [पृष्ठम्११६५+ २६]
05 [[१। ण्वुलि, ‘विभाषा लीयतेः’ (६-१-५१) इत्याकारविकल्पः--एज्विषये। आत्वपक्षे ‘आतो युक्--’ (७-३-३३) इति युगागमे रूपमेवम्। आत्वाभावपक्षे वृद्धौ आया- देशे च लायकः इत्येव रूपमिति ज्ञेयम्। एवमुत्तरत्रापि।]]
06 [[२। ‘लीलोर्लुग्नुकावन्यतरस्यां स्नेहविपातने’ (७-३-३९) इति ण्यन्ते लुगागम- विकल्पः--स्नेहविपातने। स्नेहविपातनं नाम कठिनद्रव्यस्याग्नौ निष्टपनेन द्रबी- करणम्। एतद्भिन्नार्थे तु ‘विभाषा लीयतेः’ (६-१-५१) इत्यात्वे ‘अर्तिह्री--’ (७-३-३६) इति पुगागमे लापकः इत्यादीनि रूपाणि।]]
07 [[३। अनेनैव सूत्रेण (७-३-३९) पाक्षिके नुगागमे लीनकः इत्यादीनि रूपाणि।]]
08 [[४। सन्नन्ते ‘इको झल्’ (१-२-९) इति सनः कित्त्वं सर्वत्र ज्ञेयम्।]]
09 [[५। यङन्ते ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणोऽभ्यासस्य।]]
10 [[६। धातोरनिट्त्वात् इडागमो न। गुणः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
11 [[७। शतरि ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति धातोरीकारस्य ह्रस्वः। ‘श्नाऽऽभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपः।]]
12 [[८। ‘लियः सम्माननशालीनीकरणयोश्च’ (१-३-७०) इति ण्यन्तात् अकर्त्रभिप्रायेऽपि आत्मनेपदमेव। सम्माननम् = पूजा। शालीनीकरणम् = न्यग्भावनम्। जटाभिः आलापयमानः = जटया हेतुना पूजां समधिगच्छन् इत्यर्थः। वर्तिकामुल्ला- पयमानः = पक्षिविशेषं न्यक्कृत्येत्यर्थः। एतयोरुभयोरेवार्थयोस्तङ्। बालकमुल्ला- पयमानः, वञ्चयन्नित्यर्थः प्रलम्भनार्थेऽपीति वार्त्तिकात् (३४८३)।]]
13 [[९। ‘ल्वादिभ्यः--’ (८-२-४४) इति निष्ठातकारस्य नकारः।]]
14 [पृष्ठम्११६६+ १९]
15 [[१। पचाद्यचि रूपमेवम्। ‘निमिमीलियां खलचोरात्वं न’ (वा। ६-१-५१) इत्यत्र ‘अच्’ इत्यनेन पचाद्यचोऽपि ग्रहणमिति पदमञ्जरी।]]
16 [[२। अत्रापि खल्प्रत्यये आत्वं न।]]
17 [[३। ‘ऋल्वादिभ्यः --’ (वा। ३-३-९४) इति क्तिनस्तकारस्य नकारः।]]
18 [[४। ‘विभाषा लीयतेः’ (६-१-५१) इति ल्यपि आत्वविकल्पः। आत्वपक्षे विलाय इति, आत्वाभावपक्षे विलीय इति च रूपद्वयम्।]]
19 [[५। ‘उपमाने कर्मणि च’ (३-४-४५) इति णमुल्। ‘कषादिषु--’ (३-४-४६) इति यथाविध्यनुप्रयोगः।]]
1 {@“लुजि हिंसाबलादाननिकेतनेषु”@} 2 क्षीरस्वामिनैव ‘लुजि’ इति पठ्यते।
अन्ये सर्वेऽपि मतान्तरत्वेनैव पठन्ति अयं पाठः मा।
धा।
वृत्तौ नाऽदृतः।
मैत्रेयादिभिरपि न पठ्यते।
लुञ्जकः-ञ्जिका, लुलुञ्जयिषकः-िका, लुञ्जकः-ञ्जिका, लुलुञ्जिषक
षिका, 3 लोलुञ्जकः-ञ्जिका
लुञ्जयिता-त्री, लुलुञ्जयिषिता-त्री, लुञ्जिता-त्री, लुलुञ्जिषिता-त्री, लोलुञ्जिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकचिन्तयतिवत् 4 बोध्यानि।
01 (१४९५)
02 (१०-चुरादिः-१५६७। सक। सेट्। उभ।)
03 [पृष्ठम्११६८+ २६]
04 (५२३)
1 {@“व्युष विभागे”@} 2 पुषादिः।
अयं दाहार्थे पठितः, अर्थभेदेन अङर्थं दिवादावेव पुनः पठ्यते।
‘प्युस--’ इति पठित्वा, “प्युष इति दुर्गः, पुस इत्येके--पुस्तकम्, पुस्तं लेप्यादि कर्म” इति क्षीरस्वामी।
“केचिदमुमोष्ठ्यादिं दन्त्यान्तमिच्छन्ति-- व्युसेति।
अपरे त्वयकारं बुसेति” इति सायणः।
‘व्युस--वुस’ इति सि।
कौमुदी।
‘पुष--’ इति काशकृत्स्नः।
‘प्युष’ इति कातन्त्राः, अन्ये च वैयाकरणाः’ इति तत्र टिप्पन्यां दृश्यते।
युक्ता- युक्तत्वे त्वत्र सूरयः प्रमाणम्।
व्योषकः-षिका, व्योषकः-षिका, वुव्योषिषकः-वुव्युषिषकः-षिका, वोव्युषकः- षिका
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकपोषतिवत् 3 ज्ञेयानि।
01 (१६५८)
02 (४-दिवादिः-१२१५। सक। सेट्। पर।)
03 (१०२६)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
