षह (Saha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Yates
EnglishWilson
Englishषह r. 1st cl. (सहते) r. 4th cl. (सह्यति) 1st and 10th cls.
(सहति साहयति.)
1 To bear, to endure, to suffer or support, to forbear, to have patience.
2 To be content or satisfied.
3 To be able.
With उत् prefixed,
1 To make effort or exertion, to persevere, to energize.
2 To be happy or delighted.
With प्र, To be violent.
With वि, To determine.
धातुपाठः (Krishnacharya)
Sanskrit सह्
षह
मर्षणे
भ्वादिः
सकर्मकः
सेट्
आत्मनेपदी
सहते
सह्
षह
चक्यर्थे (तृप्तिः)
दिवादिः
अकर्मकः
सेट्
परस्मैपदी
सह्यति
सह्
षह
मर्षणे
चुरादिः
सकर्मकः
सेट्
उभयपदी
साहयति, सेहे
आधृषीयः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुप्रदीपः
Sanskritषहँ षह मर्षणे
- सहते । सेहे । विषहते । परिनिविभ्यः (8/3/70) इति षत्वम् । सिवादीनां वाऽड्व्यवायेपि (8/3/71) इति वा षत्वम् । न्यषहत । न्यसहत । सर्वंसहः । सहिता सोढा । सोढ इति षत्वनिषेधः । विसोढः । विसोढुम् । साहः सहः । ''स एवायं नागः सहति कलभेभ्यः परिभवम्'' । ''ततः प्रोदसहन् सर्व'' इति तु युजादिपाठात् (88) ।। 855 ।।
षहँ षह
मानकरूपान्तरम् - षुहँ
षुह शक्यार्थे
(6)- सह्यति विषह्यति ससाह सेहतुः सिसाहयिषति सुह्यति सुषोह अधेः प्रसहने (1333) इत्यत्र सह्यतेः सहतेर्वा निर्देश इति शक्तावुपेक्षायाञ्च उदाहृतं तमधिचक्रे इति (7) 22
षहँ षह मर्षणे
- साहयति सहति ''स एवायं नागः सहति कलभेभ्यः परिभवम् '' सहति प्रतिभटम् ''ततः प्रोदसहन् सर्वे '' अन्यत्र सहते 254
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritषहँ षह मर्षणे
-(अर्थविवरणम्) मर्षणं क्षमा
अयम् 591। उदात्तोऽनुदात्तेत् सेडात्मनेपदी च सहते सिसहिषते स्तन्भुसिवुसहां चङि (तु0 83116) इति षत्वम्-पर्यसीषहत्, सः स्विदिस्वदिसहीनां च (8362) इति सत्वम्-सिसाहयिषति परिनिविभ्यः (8370) इति षत्वम्-विषहते सिवादीनां वाऽड्व्यवायेऽपि (8371) इति षत्वं वा पर्यसहत पर्यषहत विसहनेकृत्येति साक्षादादि पाठान्नास्ति तीषुसह (तु0 7284) इति वेट्-सहिता, सोढा विसोढा सोढः (82115) इति षत्वाभावः, सहिवहोरोत् (63112) सोढः वर्णग्रहणात् साहेरपि सोढा, णिलोपे पूर्वत्रासिद्धे न स्थानिवद् )1157 वा0) इति ढत्वादिदाश्वान् साह्वान् मीढ्वांश्च (6 112) इति क्वसौ साह्वान् शकिसहोश्च (3199) इति यत्-सह्यम् ल्युः (द्र0 31134) सहनः सहेः पृतनर्ताभ्यां च (83109) इति ण्विः पृतनाषाट् तुराषाट्, सहेः साडः सः (8356) इति षत्वम्, षाड्रूपत्वाभावे नास्ति- पुरासाहं पुरोधाय (कुमारसम्भव 21) इति, नहिवृतिवृषि (61116) इति दीर्घः अलङ्कृञ् (32136) इतीष्णुच्- सहिष्णुः अनुपसर्गाल्लिम्पविन्द (31138) इति ण्यन्तात् शः-साहयः संज्ञायां भृतॄ (3246) इति खच्-सर्वंसहः असुन् (द0 उ0 949) सहस् शकधृषज्ञा (3465) इति तुमुन्-सहते भोक्तुम् सहेः षष् क्विप् च षट् चुरादौ (10204) आधृषाद् वा (10201) वा णिच् सहति साहयति 823
षहँ षह मर्षणे
- साहयति, सहति यथा-स एवायं नागः सहति कलभेभ्यः परिभवम् (सुभाषित-631) भ्वादौ (1590)सहते 256
धातुवृत्तिः
Sanskritषहँ षह (अर्थः) मर्षणे
उदात्तोऽनुदात्तेत् ( सहते सेहे सहिता सीढा ) "तीषसहलुभ''इती ढविकल्पः इडभावे ढत्यधत्वष्टुत्वढलोपाः, "सहिवहोरोदवर्णस्य'' इति ढलोपे अवर्णस्यौकारः ( सिसहिषते ) "स्तौतिण्योरेव'' इत्यषत्वम् (सिसाहयिषतीत्यत्र) "स्तौस्ति'' इति नियमं बाधित्वा "सः स्विदिस्वदिसहीनाम्'' इति सत्त्वं भवति ( सासह्मते सासोढि सासोढः ) पूर्ववद्ढत्वादि, (सासक्षि) षढोः कः सीतिकत्वम् लीटिहेर्धिभावे ढत्वष्टुत्वढलोपाः तेषु (सासोढीति) भवति (साहयति असीषहत् परिषहते विषहते ) "परिनिविभ्यः'' इति षत्वम् इदं च ( सूत्रम्) सिवादीनां वाङ्व्यवायेपि (इति सूत्रम्) इति अड्व्यवाये विकल्प इति ( पयषहत पर्यसहतेति ) "स्वादिष्वभ्यासेन च'' इत्यत्र "प्राक् सितात्'' इत्यनुवर्त्तंनात् (परिषिसहिषत) इति अत्रोत्तरखण्डस्य षणि प्रतिषेध एव भवति अत एव "प्राक्सितात्'' इत्यनुवर्त्तनात्तत्राभ्यसस्येति योगभेदेन स्यादिष्वेवाभ्यासस्य षत्वमिति क्रियमाणो नियमोस्मिन्प्राक्सितीये नेति षत्वमभ्यासस्य भवत्येव तथा व तत्र वृत्तौ प्राक्सितीयः सुनोत्यादिरेव प्रत्युदाहतः अत्रयस्तु सामान्येन नियममिच्छन् षत्वमाह तत्र "स्तम्भुसिवुसहां च'' इति अभ्यासे षत्वनिषेधे वैयर्थ्यप्रसङ्गात् वृत्त्यसामञ्जस्याच्च हेयम् परिसोढेत्यादौ सहेः षोढरूपत्वात् "षोढः'' इति षत्वं निषिध्यते परिषासोढीत्यत्राभ्यासस्यासोढरूपत्वान्नांयं निषेधः पर्यसीसहदित्यादौ "स्तम्भुसिवुसहां चडि'' इति "परिनिविभ्यः'' इति षत्वं निपिध्यते परस्य तु "ज्ञण्कोः'' इति भवत्येव "दाश्वान्साह्वान्'' इत्यत्र वृत्तौ साह्वानिति निपातनमस्येत्युक्तम् यदाह परस्मैपदमुपधादीर्घत्वमनिट्त्वं च निपात्यत इति कैयटे तु "आघृषाद्वा'' इति विभाषितणिच इत्युक्तम् एवं पदमञ्जर्यामपि अत्र मते तस्य सहेः षादेशः कनिनश्च लुक् परस्मैपदित्वात्क्कसुर्निपात्यः (सह्मम् ) "शकिसहोश्च'' इति कर्मणि यत् साहयतीति, (साहयः) "अनुपसर्गाल्लिम्व''इत्यादिना शप्रत्ययः शपि गुणायौ (साहः सहः ) णाभावे ऽच् (सर्वेसहा) वसुमीत "संज्ञायां भृतृवृजि''इत्यादिना खच् "अरुद्विषत्'' इति मुम् सर्वं सहत इति (सर्वसहः) "पूः सर्वयोः'' इति यथासंख्यादस्य सर्वशब्दे कर्मण्युपपदे खच् ( सहिष्णुः ) "अलङ्ङुञ्'' इत्यादिनेष्णुज् (सहनः) "अनुदातेतः'' इति युच् (सासहिः) "सहिपतिवदिभ्यो यङन्तेभ्यः किकनौ'' इति किकनोरन्यतरः (सहित्रम्) "अर्तिलूधूसूखनसहचर इत्रः'' इति कारण इत्रप्रत्ययः (षट) "सिहेः षष् लुक् च'' इति सहेः षषादेशः कनिनश्च लुक् "ष्णान्ताः षङ्'' इति षट्संज्ञायां "षछ्भ्यो लुक'' इति जश्शसोर्लुक् "विष्णुमित्यत्र "षट्चतुभ्यैश्च'' इति षट्संज्ञकत्वादामो नट् षण्णां पूरणः (षष्ठः) ( सूत्रम्) तस्य पूरणे डट् (इति सूत्रम्) इति षष्ठ्यान्तात्पूरणे संख्यान्तरस्योत्पादकर्थे डटि "षट्कतिकतिपयचतुराम्'' इति थुक् टित्वात् स्त्रियां (षष्ठी) यदा तु पूरणो भागो भवति तदा "षष्ठाष्ठमाभ्यां ञ च'' इति स्वार्थे ञप्रत्ययः चकारादञ् च, (षाष्ठः षष्ठः) यदा तु पूरणो भागो माने भवति तदा ( सूत्रम्) मानपश्वङ्गयोः कन्लुकौ च (इति सूत्रम्) इति तथासंख्यात् षष्ठस्य माने कन् अष्ठमस्य लुक् ( सूत्रम्) षष्ठाष्ठमाभ्यां ञ च (इति सूत्रम्) इति विहितयोर्ञाञोः, चकाराद् यथाप्राप्तौ ञाञौ तेन (षष्ठकं मानं षाष्ठं षष्ठमिति) त्रीणि रूपाणि भवन्ति "पूरणगुण''इति पूरणात्समासनिषेधात्तान्युञ्ञ्छषष्ठेतृयादिप्रयोगश्चिन्त्यः षट् दन्ता अस्य (षोडन्) ( सूत्रम्) वयसि दन्तस्य दतृ (इति सूत्रम्) इति दन्तान्तस्य बहुव्रीहौ वयसि गम्यमाने दत्रादेशः उगित्त्वान्नुम् षट च दश च (षोडश इति ) ( सूत्रम्) चार्थे द्वनद्वः (इति सूत्रम्) इति द्वन्द्वः समुच्चयादयश्चार्थास्तत्रासामर्थ्यात् समुच्चयान्तवाचययोर्न समास इति स्थितम् (षोढा) "संख्याया विधार्थे धा' "अधिकरणविचाले च'' इति धाप्रत्ययः "तत्र षष उत्वम्'' इति उत्वषत्वे धासु वेति वचनाद् धाप्रत्यये पक्षे न भवत इति (षढधा) इत्यपि भवति अत्र षकारस्य धाप्रत्यये "स्वादिषु'' इपिपदत्वाज्जश्त्वं डकारः धकारस्य ष्टुत्वं ( सूत्रम्) न पदान्तात् (इति सूत्रम्) इति निषेधान्न भवति पदान्ताटवर्गात् परस्य नाम्वर्जितस्य स्तोः ष्टुत्वं नेति सूत्रार्थः 837
षहँ षह (अर्थः) मर्षणे
( साहयति ) सहति सहत इति शप्यनुदात्तेत् अस्येह पाठो वृत्तिकारादीनामनभिमत इति दिवादावेवावोचाम 269
कृदन्तरूपमाला
Sanskrit1 {@“षह मर्षणे”@} 2 ज्वलादिः।
‘मर्षणे सहते, यौ तु साहयेत् सहति द्वयम्।
श्यनि सह्यति शक्यार्थे--।।’ 3 इति देवः।
साहकः-हिका, साहकः-हिका, 4 सिसहिषकः-षिका, सासहकः-हिका
5 सोढा- 6 सोढ्री-सहिता-त्री, साहयिता-त्री, सिसहिषिता-त्री, सासहिता-त्री
इति समस्तान्यपि रूपाणि भौवादिकवहतिवत् 7 बोध्यानि।
8 परिषहमाणः-निषहमाणः-विषहमाणः, 9 विसहनेकृत्य, 10 साह्वान्, 11 सह्यम्, 12 पृतनाषाट्-ऋताषाट्-तुराषाट्, 13 सहनः, 14 सहमानः, 15 सहिष्णुः, 16 साहयः, 17 सर्वसहः-शत्रुंसहः, 18 सर्वंसहा, भोक्तुं 19 सहमानः, 20 21 सासहिः, 22 साहः-सहः, 23 उत्साही, 24 सहित्रम्, 25 सिसाहयिषुः, 26 षट्, 27 सहसानः, इतीमानि विशेषरूपाणि।
01 (१८२७)
02 (१-भ्वादिः-८५२। सक। सेट्। आत्म।)
03 (श्लो। १९७)
04 [[४। अत्र उत्तरस्वण्डस्य षत्वं क्षीरतरङ्गिणीटिप्पणकार अभिप्रैति। तत्र निदानं न पश्यानः। प्रत्युत ‘स्तौतिण्योरेव--’ (८-३-६१) इति नियमात् षत्वनिषेध एव प्रामाणिकः।]]
05 [पृष्ठम्१३४०+ ३२]
06 [[१। तादेरार्धधातुकस्य ‘तीषसह--’ (७-२-४८) इतीड्विकल्पः। इट्पक्षे सहिता। इडभावपक्षे ‘सहिवहोरोद् अवर्णस्य’ (६-३-११२) इत्योकारः। ‘हो ढः’ (८-२-३१) इति ढत्वम्। तकारस्य धत्वम्, तस्य ष्टुत्वेन ढकारः। ‘ढो ढे लोपः’ (८-३-१३) इति पूर्वढकारस्य लोपः। ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (परि। १२०) इति न्यायेन ओकारस्य ‘ढ्रलोपे--’ (६-३-१११) इति दीर्घः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
07 (१५८२)
08 [[२। ‘परिनिविभ्यः सेवसितसयसिवुसह--’ (८-३-७०) इति षत्वम्।]]
09 [[३। ‘विसहने’ इति साक्षात्प्रभृतिषु (१-४-७४) पाठात् विपूर्वकत्वेऽपि ‘परिनि- विभ्यः--’ (८-३-७०) इति षत्वं न। विपूर्वकात् सहतेः ल्युटि साक्षात्प्रभृतिषु पाठात् कृञो योगे गतिसंज्ञायाम्, ‘समासेऽनञ्पूर्वे--’ (७-१-३७) इति क्त्वाप्रत्य- यस्य ल्यबादेशे, गणे निपातनादेव एदन्तत्वम्। विसहनेकृत्य = क्षान्त्वा इत्यर्थः।]]
10 [[४। ‘दाश्वान् साह्वान् मीढ्वांश्च’ (६-१-१२) इत्यत्र निपातनात् छन्दसि, लोके च सहतेः क्वसौ परस्मैपदम्, उपधादीर्घत्वम्, अद्विर्वचनत्वम्, अनिट्त्वं च। ‘साह्वान् = वलाहकः’ इति काशिका (६-१-१२)।]]
11 [[५। ‘शकिसहोश्च’ (३-१-९९) इति यत्। ण्यतोऽपवादः।]]
12 [[६। ‘छन्दसि सहः’ (३-२-६३) इति ण्विप्रत्ययः। णित्त्वादुपधावृद्धिः। प्रत्ययः सर्वलोपी। ‘अन्येषामपि दृश्यते’ (६-३-१३७) इति पूर्वपदस्य दीर्घः। ‘सहेः साढः सः’ (८-३-५६) इति मूर्धन्यादेशः। द्वितीयादिषु तु ‘सहेः पृतनर्ताभ्यां च’ (८-३-१०९) इति षत्वम्। एवं जलाषाट् इत्यादिषु चेति बोध्यम्।]]
13 [[७। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
14 [[८। सोढुं शक्रोतीत्यर्थे ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इति चानश्।]]
15 [[९। तच्छीलादिषु कर्तृषु ‘अलंकृञ… सहचर इष्णुच्’ (३-२-१३६) इतीष्णुच्प्रत्ययः।]]
16 [[१०। ण्यन्तात् कर्तरि, ‘अनुपसर्गात्… साहिभ्यश्च’ (३-१-१३८) इति शप्रत्ययः। प्रत्ययस्य शित्त्वात् ‘कर्तरि शप्’ (३-१-६८) इति शप्। साहयतीति साहयः।]]
17 [[११। सर्वं सहते इति सर्वसहः। ‘संज्ञायां भृतॄवृजिधारिसहि--’ (३-२-४६) इति खच्प्रत्ययः। ‘अरुर्द्विषत्--’ (६-३-६७) इति पूर्वपदस्य मुमागमः। सर्वसहः = अतीव सूक्ष्मबुद्धिः। एवं शत्रुंसह इत्याद्यपि।]]
18 [[१२। ‘पूःसर्वयोर्दारिसहोः’ (३-२-४१) इति खच्। पूर्ववत् नुम्। सर्वसहा = वसुमती। संज्ञाऽत्र।]]
19 [[१३। ‘शकधृषज्ञाग्लाघटरभलभक्रमसह--’ (३-४-६५) इति सहधातौ उपपदे धातो- स्तुमुन्।]]
20 [पृष्ठम्१३४१+ २८]
21 [[१। ‘सहिवहिचलिपतिवदिभ्यो यङन्तेभ्यः--’ (वा। ३-२-१७१) इति किः किन् वा प्रत्ययः। प्रत्ययस्य लिड्वद्भावात् द्विर्वचनादिकम् इति केचित्। वस्तुतो यङन्तादेव विधानात् ‘सन्यङोः’ (६-१-९) इति द्विर्वचनमिति न्याय्यम्।]]
22 [[२। ज्वलादित्वात् (३-१-१४०) कर्तरि णप्रत्ययः। तस्य वैकल्पिकत्वात् पक्षे पचाद्यच्।]]
23 [[३। उत्पूर्वकादस्माद् ग्रह्यादि (३-१-१३४) पाठात् कर्तरि णिनिः।]]
24 [[४। ‘अर्तिलूधूसूखनसह--’ (३-२-१८४) इति करणे इत्रप्रत्ययः।]]
25 [[५। ण्यन्तात् सनि उप्रत्यये रूपमेवम्। उत्तरखण्डे ‘सः स्विदिस्वदिसहीनां च’ (८-३-६२) इति सत्वम्
\n\n ‘स्तौति--’ (८-३-६१) इति नियमस्य बाधकोऽयम्।]]
26 [[६। ‘सहेः षष् लुक् च’ (द। उ। ९-७) इति धातोः षषादेशः, कनिन्प्रत्ययस्य लुक् च। षट् = संख्याविशेषः।]]
27 [[७। औणादिके (द। उ। ५-३०) असानच्प्रत्यये रूपम्। सहसानः = क्षमावान्।]]
1 {@“षह चक्यर्थे”@} 2 चक्यर्थः = तृप्तिः।
प्राचां मतेऽस्याप्रामाणिकः पाठ इति माधवः।
देवश्लोकः पूर्धधातौ द्रष्टव्यः।
रूपाणि समस्तान्यपि पूर्वधातुवत् ज्ञेयानि।
अयं सेट्, शतरि--सह्यन् इति भवतीतिं विशेषः।
01 (१८२८)
02 (४-दिवादिः-११२८। अक। सेट्। पर।)
1 {@“षह मर्षणे”@} 2 आधृषीयः।
अस्मादेव धातोः साह्वान् इति 3 शुद्धात् निपात्यते इति कैयटः 4।
रूपाणि आधृषीयचर्पयतिवत् 5 बोध्यानि।
01 (१८२९)
02 (१०-चुरादिः-१८१०। सक। सेट्। उभ।)
03 (णिजभावपक्षे)
04 (६-२-१२)
05 (५५४)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
