| YouTube Channel

षस (Sasa)

 
Wilson
English
षस r. 2nd cl. (सस्ति) To sleep.
Monier Williams Cologne
English
षस (prob.)
=
खाखस, poppy,
Cat.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सस्
मूलधातुः:
षस
धात्वर्थः:
स्वप्ने
गणः:
अदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
सस्ति
अनुबन्धादिविशेषः:
छान्दसः
धातुप्रदीपः
Sanskrit
षसँ षस
मानकरूपान्तरम् - षस्तिँ
षस्ति ष्वप्ने
- सस्ति ससास सेसतुः सेसुः सस्यम् सस्यको मणिः संस्ति संस्तः। स्कोः (8/2/29) इति संयोगादिलोपोऽत्र नेष्यते, बहूनां समवाये द्वयोः संयोगसंज्ञा संस्तन्ति संस्तिता ।। 69, 70 ।।
शब्दकल्पद्रुमः
Sanskrit
षस, लु स्वापे इति कविकल्पद्रुमः
(अदा०-पर०-अक०-सेट् ।) मूर्द्धन्यादिः लु, सस्ति ।र, वैदिकः स्वापः शयनम् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
षस स्वप्रे अदा०
पर०
अक० सेट् वैदिकः सस्ति असासीत् अससीत्
क्षीरतरङ्गिणी
Sanskrit
षसँ षस स्वप्ने
- सस्ति माछाससिसूभ्यो यः (उ0 4109)-सस्यम् रास्नासास्ना (उ0 315) सस्ति ससने इति चैके पेठः-संस्ति 65
धातुवृत्तिः
Sanskrit
षसँ षस
मानकरूपान्तरम् - षस्तिँ
षस्ति (अर्थः) स्वप्ने
अयं पाठो मैत्रेयात्रेयादीनाम् अत्र केचित षस्तीति पृथग्धातुः, किन्तु षसेरेव श्तिपा निर्देशोऽर्थभेदात्पुनः कृत इति स्वामी तु "षस षसने' इत्या-द्यमेव पपाठ षसनं स्वप्नः (सस्ति, सस्तः, ससन्ति, सस्सि सस्मि, ससास, सेसतुः, सेसुः, सेसिथ, सेस, ससास, ससस, सेसिव ) एत्वाभ्यासलोपौ ( ससिता ससिष्यति सस्तु, सधि ) "धि च'' इति सलोपः "अतो हेः'' इति स्थानिवद्भावेन हेर्लोपो भवति
सलोपस्य पूर्वत्रासिद्धत्वात्_ (ससानि असत्, असस्ताम्, असः, असत्, ) "तिप्यनस्तेः'' इति दत्वम् सिपि तु "सिपि धातोरुर्वा''' इति रुत्वं हल्ड्यादिलोप उभयत्र ( सस्यात्, सस्याताम् ) आशिषि सलोपभावो विशेषः ( असासीत्, अससीत् ) "अतो हलादेः'' इति वा वृद्धिः ( सिससिषति सास्यते सासस्ति सासयति असीषसत् सस्यम् ) "माच्छाससिसूभ्यो य'' इति यः ( सस्यको ) मणिः "सस्येन परिजात'' इति कन् अत्र सस्यशब्दो गुणवाचीति हरदत्तः गुणैः परिगतो जात आकारशुद्ध इत्यर्थः ( सास्ना, ) गवां कण्ठकम्बलः "रास्नासास्नास्थूणावीणा'' इति निपात्यते (संस्ति, संस्तः, संस्तन्ति, "स्कोः'' इति सलोपोऽत्र भवति, बहूनां समवाये द्वयोस्संयोगसंज्ञाभावादित्यत्रेयमैत्रेयौ छान्दसत्वान्नेहास्माभिरयमर्थः प्रपञ्च्यते तथा "जक्षित्यादयष्षट्'' इत्यत्र हरदत्तः "षसषस्ती छान्दसौः वशिरपि तस्यापि भाषायां प्रयोगस्साधुः, भाष्यवार्तिककारौ चेत्प्रमाणम्' इति तथा भाष्यमपि "षसिवशी छान्दसौ'' इति अत्र कैयटः "षसिवशी' इति षस षस्ति स्वप्ने इति ये पठन्ति केवलं "षस स्वप्ने" "वश कान्तौ' इति तन्मतेनैतदुक्तम् अन्ये त्वाहुः षस्तीति धातुपाठ एव श्तिपा निर्देशः कृतः अर्थभेदात्तु द्विः पठितः अन्ये तु षस स्वप्ने इति पठन्तीति अत्र सुधाकरः "षस षसने' "वश कान्तौ' छान्दसौ "जक्षित्यादयष्षट्'' इत्यत्र भाष्यादेवावधृतौ "वष्टि भागुरिरल्लोपम्' इति दुर्लभः प्रयोग'' इति 69
कृदन्तरूपमाला
Sanskrit
1 {@“षस स्वप्ने”@} 2 ‘-- षसने’ इति सुधाकरक्षीरस्वामिनौ।
छान्दसोऽयमिति भाष्यादौ ‘जक्षित्यादयः षट्’ 3 इत्यत्र स्पष्टम्।
केचित् छान्दसत्वं नाभ्युपगच्छ- न्ति।
4 सस्यम्, 5 सास्ना।
प्रासङ्गिक्यः
01
=>
(१८२५)
02
=>
(२-अदादिः-१०७८। अक। सेट्। पर।)
03
=>
(६-१-६)
04
=>
[[१। ‘माच्छाससि--’ (द। उ। ८-१२) इति यप्रत्ययः।]]
05
=>
[[२। औणादिके (द। उ। ५-४७) नप्रत्यये उपधाया दीर्घे रूपम्। सास्ना = गवादीनां गलकम्बलः।]]