| YouTube Channel

षष्टिसंवत्सराः (SaSTisaMvatsarAH)

 
शब्दकल्पद्रुमः
Sanskrit
षष्टिसंवत्सराः,
पुं,
(षष्टिगुणिताः संवत्सराः ।)प्रभवादिषष्टिसंख्यकवर्षम् यथा, --अथ षष्टिसंवत्सरगणना ।“शाकेन्द्रकालः पृथगाकृतिघ्नः २२शशाङ्कनन्दाश्वियुगैः ४२९१ समेतः ।शराद्रिवस्विन्दु १८७५ हृतः सलब्धःषष्ट्यावशिष्टाः प्रभवादयोऽब्दाः
वर्षवर्ज्जन्तुयच्छेषं सूर्य्यैः संपूर्य्य खोर्म्मिभिः ६० ।हृतव्युत्क्रमतः खाग्निहृतेऽंशे मासकादयः
”अस्यार्थः शाकेन्द्रकालः शकराजाब्दकालःपृथक् द्विष्ठः तत्रैव आकृतिघ्नः २२ द्वाविंशत्यापूरितः शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशत-द्वयाधिकचतुःसहस्रैः समेतोऽङ्कः शराद्रिव-स्विन्दुहृतः पञ्चसप्तत्यधिकाष्टादशशतैर्यावत्सख्यंहर्त्तुं शक्नोति तावता हृतः कर्त्तव्यः सलब्धःपूर्व्वशकाब्दः शरेत्यादिना लब्धसंख्यया युतःकार्य्यः षष्ट्याप्तशेषे पश्चादेषोऽङ्कः पूर्ववत् षष्ट्याहृते लब्धस्यावशिष्टे प्रभवादयः एकावशेषेप्रभवः द्व्याद्यवशिष्टे विभवादिः वर्षवर्ज्जन्तुयच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृता-वशिष्टं तत् सूर्य्यैर्द्वादशभिः संपूर्य्य खो-र्म्मिभिः षष्ट्या हृते व्युत्क्रमत इत्यनेन पष्टि-हृतावशिष्टाः अङ्का दण्डाः षष्टिहृतलब्धांशकेखाग्निहृते त्रिंशता हृते अवशिष्टा अंशकालब्धा मासाः स्युरिति
*
प्रभवादिषष्टिवर्षा-ण्युपक्रम्य ।“आद्या तु विंशतिर्ब्राह्मी द्वितीया वैष्णवीस्मृता ।तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत्
”भविष्यपुराणे ।भरव उवाच ।“षष्ट्यब्दं कथयाम्यत्र क्रूराः सौम्याश्च ये प्रिये ।संवत्सरफलं मुख्यं प्रभवादौ वरानने
बहुतोयास्तथा मेघाः सर्वशस्या मेदिनी ।बहुक्षीरास्तथा गावो व्याधिरोगविवर्ज्जिताः ।प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्त्तिताः
१सुभिक्षं क्षेममारोग्यं सर्वे व्याधिविवर्ज्जिताः ।प्रशान्ता मानवाः सर्वे बहुशस्या वसुन्धरा ।हृष्टास्तुष्टा जनाः सर्वे विभवे वरानने
रोगा बहुविधाश्चैव मनुष्या वाजिकुञ्जराः ।सर्व एव प्रणश्यन्ति शुक्रे वर्षे वरानने
उन्मत्तञ्च जगत् सर्वं धनधान्यसमाकुलम् ।नित्योत्सवः प्रजावृद्धिः प्रमोदे जायते प्रिये
४नीरोगाश्च निरावाधा मानवा विगतद्विषः ।बहुक्षीरास्तथा गावः प्राजापत्ये वरानने
निरातङ्कं जगत् सर्व्वं धनयौवनगर्व्वितम् ।अङ्गिरसि प्रजा सर्वा नित्योत्साहा वरानने ।॥
सुभिज्ञं क्षेममारोग्यं वर्षाकालं सुशोभनम् ।शस्यवृद्धिं विजानीयात् श्रीमुखे सुरवन्दिते
७बहुक्षीरास्तथा गावो धान्यञ्च बलवत्तरम् ।जायन्ते सर्व्वशस्यानि भावे वर्षे वरानने
महार्घं जायते सर्वं घृततैलरसादिकम् ।प्रजानाञ्च भवेद्वृद्धिर्यूनि संवत्सरे शुभे
निष्पत्तिः सर्वशस्यानां मध्या धातरि कीर्त्तिताइक्षुक्षीरगुडादीनां प्रबलत्वं वरानने
१०
सुभिक्षं क्षेममारोग्यं कार्पासस्य महार्घता ।लवणं मधु गव्यञ्च ईश्वरे दुर्ल्लभं प्रिये
११
सुभिक्षं क्षेममारोग्यं प्रशान्ताः पार्थिवाःप्रिये ।तस्करोपहतं वित्तं बहुधान्ये वरानने
१२
राष्ट्रभङ्गश्च दुर्भिक्षं तस्करैश्चोपपीडनम् ।जानीयाद्विग्रहं घोरं प्रमाथिनि वरानने
१३
जायन्ते सर्वशस्यानि मेदिनी निरुपद्रवा ।लवणं मधु गव्यञ्च महार्घं विक्रमे प्रिये
१४
कोद्रवाः शालिमुद्गाश्च शक्तुमाषास्तथैव ।महार्घं जायते सर्वं वृषे सुरवन्दिते
१५
चणका मुद्गभाषाश्च अन्यच्च विदलं प्रिये
महार्घं जायते सर्व्वं चित्रभानौ वरानने
१६
सुभिक्षं क्षेममारोग्यं विश्वञ्च निरुपद्रवम् ।व्यवहारो भवेत् श्रेयान् स्वर्भानौ देवपूजिते
१७अतिवृष्टिश्च जायेत धान्यस्याथ प्रपीडनम् ।शस्यं भवति सामान्यं दारुणे देववन्दिते
१८
बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने ।सौराष्ट्रे नाटदेशे पार्थिवे नात्र संशयः
१९
दुर्भिक्षं जायते घोरं सर्व्वोपद्रवसंयुतम् ।अनावृष्टिः समाख्याता व्यये संवत्सरे प्रिये
२०
उद्यतो वर्षणे मेघो जलं नैवोपयच्छति ।महार्घं सर्व्वजिद्वर्षे सर्व्वमेव वरानने
२१
कोद्रवाः शालिमुग्दाश्च कङ्गुमाषास्तथैव ।सुलभं जायते सुस्थं जगद्वै सर्व्वधारिणि
२२
अनग्निप्रबला लोका धान्योषधिप्रपीडनम् ।जायते मानुषे कष्टं विरोधिनि संशयः
२३
सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायतेशिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृतेजनाः
२४
उपद्रुतं जगत् सर्व्वं तस्करैर्मूषिकैः खगैः ।पीडिताश्च प्रजाः सर्व्वाः देशभङ्गः खरे प्रिये
२५सुभिक्षं क्षेममारोग्यं शस्यं भवति शोभनम् ।बहुक्षीरास्तथा गावो नन्दनं नन्दने प्रिये
२६
अल्पतोयास्तथा मेघा वर्षन्ति खण्डमण्डले ।नश्यन्ति सर्व्वशस्यानि विजये नात्र संशयः
२७
क्षत्त्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः ।पीडितास्ते वरारोहे जये सर्व्वे संशयः
२८
सरोगञ्च तथा देवि दाहज्वरसमन्वितम् ।अभिभूतं जगत् सर्वं मन्मथे सुरवन्दिते
२९
तुषधान्यक्षयो देवि सर्व्वशस्यमहार्घता ।व्यवहाराश्च नश्यन्ति दुर्म्मुखे दुर्म्मुखाः प्रजाः
३०पीड्यन्ते सर्व्वशस्यानि देशे देशे शुचिस्मिते ।हेमलम्बेप्रजाः सर्व्वाः क्षीयन्ते नात्र सशयः
३१तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् ।अर्थो भवति सामान्यो विलम्बे तु भयं महत्
३२विषमस्थं जगत् सर्व्वं विरोधे भवसंप्लवम् ।विकारी सर्व्वतोऽपायो मम वाक्यन्तु नान्यथा ३३क्वचिद्वर्षति पज्जन्यो देशे संछिन्नमण्डलः ।दुर्भिक्षं सर्व्वरीवर्षे व्यवहारो विपर्य्ययः
३४
दुर्भिक्षं जायते सर्व्वा मेदिनी दुष्यति प्रिये ।प्लेवे पवन्ति तोयानि मानवा दु खिता भुवि
३५सुवर्णरूप्यधान्यानि जगत् सर्व्वं सुशोभनम् ।ब्राह्मणा बणिजस्तुष्टाः सुभिक्षे शुभकृत् प्रिये
३६सुभिक्षं क्षेममारोग्यं तृप्ता गोब्राह्मणाः प्रिये ।सुस्थिताः शोभने वर्षे प्रजाः सर्व्वाः सुलोचने
३७विषमस्थं जगत् सर्व्वं व्याकुलं समुदाहृतम् ।जनानां जायते भद्रे क्रोधे क्रोधः परस्परम्
३८सर्व्वत्र जायते क्षेमं सर्व्वशस्यमहार्घता ।विश्वावसौ वरारोहे कार्पासस्य महार्घता
३९
पार्थिवैर्नृपसैन्यैश्च समस्तैः खण्डमण्डले ।प्रपीड्यन्ते जनाः सर्व्वे भयभीताः पराभवे
४०
तृणधान्यानि पीड्यन्ते ग्रीष्मे वर्षति वासवः ।प्लवङ्ग पीडिताः सर्व्वाः प्रजाश्च सुरवन्दिते
४१
जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् ।सौम्यदृष्टिर्भवेद्राजा कालिके शुभं वदेत्
४२मुभिक्षं क्षेममारोग्यं सुखञ्च निरुपद्रवम् ।सौम्यदृष्टिभवेद्राजा सौम्ये सौख्यं प्रकीर्त्तितम्
४३तायपूर्णो भवेन्मेघो वर्वते दिने दिने ।निरुपद्रवाश्च राजानः सर्व्वसाधारणे प्रिये
४४वासवो वर्षते देवि देशे चाखण्डमण्डले ।अहिछत्रे कान्यकुब्जे विरोधि कृषिनाशकृत्
४५अभिभूतं जगत् सर्व्वं क्लेशैर्बहुविधैः प्रिये ।मारुतैः फलदाहैश्च परिवारिणि शोभने
४६
निष्पत्तिः सर्वशस्यानां सुभिक्षं भवति प्रिये ।प्रमाथिनि जलोद्गारी जलदो मोदते प्रजा
४७ ।निष्पत्तिः सर्व्वशस्यानां सर्व्वशस्यामहार्घता ।घृतं तैलसमं याति आनन्दे नन्दति प्रजा
४८
कोद्रवाः शालिमुद्गाश्च पीड्यन्ते वरवर्निनि ।सर्व्वौषधानि धान्यानि राक्षसे निष्ठुराःप्रजाः
४९
दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् ।अनले समाख्यातं नात्र कार्य्या विचारणा
५०देशभङ्गः सुदुर्भिक्षं समासात् कथयाम्यहम् ।पिङ्गले चारुपद्माक्षि दुर्भिक्षं नर्म्मदातटे
५१
गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः ।वासवो वर्षते देवि शस्यञ्च नहि जायते
तिलसर्षपमाषादिकार्पासानां महार्घता ।गोमहिष्यः सुवर्णानि कांस्यताम्राद्यशेषतः
तत्सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ।तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्दिनम् ।पार्थिवांमोषकादीनाः कालयुक्ते प्रपीडिताः
५२तोयपूर्णाः स्मृता मेघा बहुशस्या मेदिनी ।निष्ठुराः प्रार्थिवा देवि सिद्धार्थे वरानने
५३अल्पतोया घनाश्चैव कीटकाः प्रबलाः स्मृताः ।विरुद्धाः प्रार्थिवा देवि रौद्रे संवत्सरे प्रिये
५४दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो वचते ।भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते
५५
दुर्भिक्षं जायते लोकाः सर्व्वे द्रविणवर्ज्जिताः ।प्राणिनां जायतेऽहर्षो दुन्दुभौ बरवर्णिनि
५६
महिषीगोहिरण्यादिताम्रकांस्याद्यशेषतः ।तत् सर्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः
रक्ते संवत्सरे देवि क्रूरबुद्धिर्नराधिपः ।मानवाः क्रूरचेष्टाश्च सग्रामे रुधिरंभवेत्
५७
दुर्भिक्षं मरणं घोरं धान्यौषधिप्रपीडनम् ।पापरोगो भवेद्देवि रक्ताख्येऽमरवन्दिनि
५८
रोगो मरणदुर्भिक्षं विरोधो बहुसङ्कुलम् ।क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये
५९मेदिनी लभते देवि सर्व्वभूतं चराचरम् ।देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा
सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा ।दर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये
कौमुदीनर्म्मदाद्याश्च यमुनानर्म्मदातटम् ।विन्ध्यायां सैन्धवञ्चापि विनश्यति संशयः
सिंहलं मध्यदेशञ्च कालञ्जरं तथैव ।क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि
६०इति ज्योतिस्तत्त्वम्