| YouTube Channel

षम (Sama)

 
Wilson
English
षम r. 1st cl. (समति)
1 To be unconfused.
2 To be confused. r. 10th cl. (समयति) To perplex or distress.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सम्
मूलधातुः:
षम
धात्वर्थः:
अवैकल्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
समति
धातुप्रदीपः
Sanskrit
षमँ षम
मानकरूपान्तरम् - ष्तमँ
ष्टम वैक्लव्ये
- समति सिषमयिषति स्तमति तस्ताम तिष्टमयिषति ।। 831, 832 ।।
शब्दकल्पद्रुमः
Sanskrit
षम, वैक्लव्ये इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) वैक्लव्यं विह्वलीभावः ।“समन्ति यद्वियोगेन सीमन्तिन्यः स्मरातुराः ।”इति दुर्गादासः
षम, त् वैक्लव्ये इति कविकल्पद्रुमः
(अदन्तचुरा०-पर०-अक०-सेट् ।) सिषमयिषति इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
षम वैकल्ये अद०
चु०
उभ०
अक० सेट् समयति गे अससमत् सिषमयिषति
क्षीरतरङ्गिणी
Sanskrit
षमँ षम
मानकरूपान्तरम् - ष्तमँ
ष्टम अवैक्लव्ये
- समति समः विषमः समयति स्तमति, स्तमयति 799, 800
धातुवृत्तिः
Sanskrit
षमँ षम
मानकरूपान्तरम् - ष्तमँ
ष्टम (अर्थः) वैक्लव्ये
( समति ससाम सेमतुः सेमिथ समिता सिसमिषति संसभ्यते संसमीति संसन्ति ससान्तः समयति असीषम् स्तमति तस्ताम तस्तमतुः स्तमिता तिस्तमिषति तंस्तम्यते संस्तन्ति स्तमयति अतिष्टमत् ) अत्र स्वाम्यादयः के विदेतदन्ता घटादय इति बोधिन्यासे तु ध्वन्यन्ता इति तत्र फणतौ मित्वे विवादः राजादीनां त्वनन्तराणां चतुर्णं णौ चङ्युधह्रस्वनिषेधार्थादुदित्करणाल्लिङ्गान्नमित्वे भविष्यति स्यमेरमन्तत्वातृस्वनिध्वन्योश्च पूर्वत्र पाठान्मित्वं, सिद्धम् सर्वैरपि शब्दार्थत्व एव मित्वं यथा स्यादिति पूर्वत्र पाठोङ्गीकृतः षमिष्टम्योरप्यमन्तत्वादेव मित्वं सिद्धमिति आहोपुरुषिकामात्रमैवैतत्, ध्वन्यन्ता सिद्धमिति आहोपुरुषिकामात्रमेवैतत्, ध्वन्यन्ता घटादय इति मतद्वयम् यत्तु तैरुक्तं षमिष्टम्योरमन्तयोः पुनः पाठेनामन्तलक्षणस्य मित्वस्यानि त्यत्वज्ञापकादुत्क्रामयतीत्यादिसिद्धिरिति, तदस्माभिरमन्ताच्चेति मित्वविधौ प्रकारन्तरेणोपपादितम् 815
कृदन्तरूपमाला
Sanskrit
1 {@“षम अवैक्लव्ये”@} 2 सर्वाण्यपि रूपाणि भौवादिकद्रमतिवत् 3 बोध्यानि।
4 समः, 5 सुषमः- विषमः-निःषमः-दुःषमः।
अमन्तत्वेन मित्त्वात् णिजन्ते ह्रस्वः, समकः-मिका, सिसमिषकः, संसमकः, सम्समकः-मिका
इत्यादीनि रूपाणि।
प्रासङ्गिक्यः
01
=>
(१८१९)
02
=>
(१-भ्वादिः-८२९। अक। सेट्। पर।)
03
=>
(८७६)
04
=>
[[१। पचाद्यचि रूपमेव। यदा तु भावार्थकत्वं, तदा संज्ञायां घप्रत्यये रूपमेवम्।]]
05
=>
[[२। ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः’ (८-३-८८) इति षत्वम्।]]