| YouTube Channel

षप (Sapa)

 
Wilson
English
षप r. 1st cl. (सपति)
1 To be connected.
2 To understand thoroughly.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सप्
मूलधातुः:
षप
धात्वर्थः:
समवाये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
सपति
धातुप्रदीपः
Sanskrit
षपँ षप समवाये
- सपति सिषापयिषति ।। 401 ।।
शब्दकल्पद्रुमः
Sanskrit
षप, सम्बे इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) सपति असीषपत् सम्बःसम्बन्धः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
षप सम्बन्धे
भ्वा०
पर०
सक०
सेट् सपति असापीत् असपीत् ।असीषपत्
क्षीरतरङ्गिणी
Sanskrit
षपँ षप समवाये
- सपति सिषापयिषति सप्त सप्तिरश्वः सचेति चन्द्रः (चा0 धा0 1140) सचति, सचिवः 392
धातुवृत्तिः
Sanskrit
षपँ षप (अर्थः) समवाये
(अर्थविवरणम्) समवायः संबन्धः सम्यगवबोधो वा
( सपति )इत्यादि जपिवत् ( सिसपिषति ) "स्तौतिण्योरेव'' इति अषत्वम्( सापयति असीषपत् सप्तिः ) "क्तिच्क्तौ संज्ञायाम्'' इति क्तिच् (सप्त) "सप्यशूभ्यां तुट् च'' इति कनिन्प्रत्ययः तुडागमश्च पञ्चशब्दवत् षट्संज्ञा तत्कार्यं च, सप्तानामपत्यं (साप्तिः ) "बह्वादिभ्यश्च'' इतीञि "नस्तद्धिते'' इति टिलोपः अत्र शाकटायनः क्षीरस्वामी सचतिं चाहुरित्युक्त्वा ( सचति सचितः ) इत्यप्याह 397
कृदन्तरूपमाला
Sanskrit
1 {@“षप समवाये”@} 2 समवायः = सम्बन्धः, सम्यगवबोधो वा।
सप्तिः--‘क्तिच्क्तौ संज्ञायाम्’ 3 इति संज्ञायां क्तिच्।
सप्तिः = अश्वः।
सप्त--औणादिकः कनिन्प्रत्ययः, तुडागमश्च।
सर्वाण्यपि रूपाणि भौवादिकचयतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८१८)
02
=>
(१-भ्वादिः-४००। अक। सेट्। पर।)
03
=>
(३-३-१७४)
04
=>
(५०२)