| YouTube Channel

षण्णाडीचक्रं (SaNNADIcakraM)

 
शब्दकल्पद्रुमः
Sanskrit
षण्णाडीचक्रं,
क्ली,
(षड्विधं नाडीचक्रम् ।)नराणां जन्मादिषण्णक्षत्रघटितचक्रविशेषः ।यथा, --“जन्माद्यं कर्म्म ततोऽपि दशमं सांहातिकंषोडषभम् ।समुदायमष्टादशभं विनाशसंज्ञं त्रयोविंशम्
आद्यात्तु पञ्चविंशं मानसमेवं नरः षडृक्षःस्यात्
*
तेषां फलम् ।“इहादेहार्थहानिः स्याज्जन्मर्क्ष उपतापिते ।कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे
मूर्त्तिद्रविणबन्धूनां हानिः सांहातिके तथा
सन्तप्ते सामुदयिके मित्रभृत्यार्थसङ्क्षयः ।वैनासिके विनाशः स्याद्देहद्रविणसम्पदाम्
”इति ज्योतिस्तत्त्वम्