| YouTube Channel

षण्ढः (SaNDhaH)

 
Apte
English
षण्ढः [ṣaṇḍhḥ] षण्ढकः [ṣaṇḍhakḥ], षण्ढकः A eunuch
Y.*
1.215.
The neuter gender
निवेशः शिबिरं षण्डे Ak.
'षण्ढो वर्षवरे क्लीबे गोपतौ वन्ध्यपूरुषे' इति विश्वः
प्रतिज्ञां षण्ढको$स्मीति करिष्यामि महीपते
Mb.
* 4.2.25 (com. षण्डो गोपतिः पक्षे क्लीबः).
Comp.
तिलः barren sesamum.
(fig. ) a useless person.
Apte Hindi
Hindi
षण्ढः
पुं*
- "सन् + ढ, पृषो* षत्वम्"
"नपुंसक, हिजड़ा"
षण्ढः
पुं*
- "सन् + ढ, पृषो* षत्वम्"
नपुंसकलिंग
Wordnet
Sanskrit
Synonyms:
क्लीबः, तृतीयप्रकृतिः, अपुंस्, उडुम्बरः, तूबरकः, पृष्ठशृङ्गी, वर्षवरः, पण्ड्रः, मुष्कशून्यः, पण्ड्रकः, स्त्रीस्वभावः, वृषाङ्कः, धर्षवरः, षण्ढः, धर्षः, वध्रिका, अक्षतः, अक्षतम्, प्रकृतिः
noun
सः जनः यः स्त्री पुमान्।
"अद्यतनकाले क्लीबाः अपि राजनीतौ भागं गृह्णन्ति।"
शब्दकल्पद्रुमः
Sanskrit
षण्ढः,
पुं,
(शाम्यति शिश्रामावात् शम +“शमेर्ढः ।” उणा० १०१ इति ढप्रत्ययेनसाधूः ।) नपुंसकः इति राजनिर्घण्टः हेम-चन्द्रश्च
चतुर्द्दशविधः विशतिविधश्च ।यथा नारदः ।“परीक्ष्यः पुरुषः पुंस्त्वे निजैरेवाङ्गलक्षणैः ।चतुर्द्दशविधः शास्त्रे षण्ढो दृष्टो मनीषिभिः
चिकित्स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिःक्रमात् ।निसर्गषण्ढो वद्धश्च पक्षषण्डस्तथैव
प्रतिशापाद्गुरो रोगात् देवक्रोधात्तथैव ।ईर्ष्याषण्डश्च सेव्यश्च वातरेता मुखेभगः
आक्षिप्तमोघबीजौ शालिनोऽन्यापतिस्तथा
”१४
कामतन्त्रे तु ।“निसर्गषण्ढो बद्धश्च पक्षषण्डश्च कीलकः ।शापादिषण्ढस्तब्धश्च ईर्षकः सेव्यकस्तथा
आक्षिप्तमोघबीजौ शालीनोऽन्यापतिस्तथा ।मखेभगो वातरेताः कुम्भीकः पण्डनष्टकौ
आसेव्यश्च सुगन्धी षण्ढः क्लीवानि विंशतिः
”२०
तेषां लक्षणानि यथा, --“ध्वजादिरहितोत्पन्नो निसर्गषण्ढ उच्यते ।गलिताण्डो भवेद्बद्धः पक्षान्तरितशक्तिमान्
पक्षषण्ढः कीलकस्तु यः क्लैव्यादात्मनः स्त्रियम्परेण सह संयोज्य पश्चात्तामेव सेवते
शापादिषण्ढो गुर्व्वादिशापादेवाप्रहर्षणः ।सदा स्तम्भितरेतास्तु रतिस्तब्धः ईर्षकः
दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते ।बहुस्त्रीसेवनाज्जातविरसः सेव्यकः स्मृतः
प्रत्यक्प्रवृत्तवीर्य्यो यो विसर्गसमये भवेत् ।आक्षिप्तबीजः ज्ञेयो मोघबीजस्तु सस्मृतः
धृष्टस्त्रीसन्निधानादेर्य्यो भवेत् पतिध्वजः १० ।अत्र शालीनलक्षणं पतितम्
११
परस्यामेव यस्यास्तिपुंस्त्वं सोऽन्यापतिर्म्मतः १२वक्त्र एव तु यः कुर्य्यान्मैथुनं मुखेभगः
१३
वातरेता विसर्गे यो वातं लिङ्गेन मुञ्चति १४कुम्भीकः तु वो नार्य्याः पाणावेव प्रवर्त्तते
१५
अविकारिध्वजः पण्डो १६ नष्टो रोगादशुक्रकः ।१७ ।शुक्रप्राण्यध्वजोच्छ्रायी आसेव्यः १८ ससुगन्धिकः
यो योनिसेफसोर्गन्धमाघ्राय लभते बलम् १०षण्ढः स्त्रीतुल्यवाक्चेष्टः स्त्रीधर्म्मा छिन्नलि-ङ्गकः
२०
इति वाचस्पतिकृतस्मृतिरत्नावख्यामुद्वाह-रहस्यविकाशः
तद्दर्शनस्पर्शनयोः प्रायश्चित्तंयथा, --“नालपेज्जनविद्विष्टान् वीरहीनां तथा स्त्रियम्देवतापितृसच्छास्त्रयज्ञसत्रादिनिन्दकैः
कृत्वा तु स्पर्शनालापं शुद्धेतार्कावलोकनात् ।अवलोक्य तथोदक्यामन्त्यजं पतितं शवम्
विधर्म्मिसूतिकाषण्ढविवस्त्रान्तावसायिनः ।मृतनिर्य्यातकांश्चैव परदाररताश्च ये
एतदेव हि कर्त्तव्यं प्राज्ञैः शोधनमात्मनः ।अभोज्यसूतिकाषण्ढमार्ज्जाराखूश्च कुक्कुटान्
पतितापविद्धचाण्डालमृतहारांश्च धर्म्मवित् ।संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ
”इति मार्मार्कण्डेये सदाचाराध्यायः