| YouTube Channel

षणु (SaNu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सन्
मूलधातुः:
षणु
धात्वर्थः:
दाने
गणः:
तनादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
सनोति-ते
अनुबन्धादिविशेषः:
उदित्
धातुप्रदीपः
Sanskrit
षणुँ षणु दाने
- सनोति सनुते सायते सन्यते सनिष्यति सनिष्यते सायात् सन्यात् असनीत् असानीत् असनिष्ट असात असनीः असानीः असनिष्ठाः असाथाः सिषासति सिषासते सिसनिषति सिसनिषते सासायते संसन्यते सनित्वा सात्वा सातम् साति सतिः सन्ति 2
क्षीरतरङ्गिणी
Sanskrit
षणुँ षणु दाने
- सनोति, सनुते सात्वा सनित्वा सायते सन्यते असनीत्, असानीत् असात असनिष्ट
असाथाः असनिष्ठाः सनीवन्तर्ध (7249) इति सिसनिषति सिषासति सनोतेरनुनासिकलोप आत्वं (द्र0 6442)-सातः क्तिचि दीर्घश्च (6439)-सन्तिः लोपश्चास्यान्यतरस्याम् (6445)-सतिः ऊतियूति (3397) सातिर्दानम् ञुण् (द्र0 उ0 13)-सानुः 2
धातुवृत्तिः
Sanskrit
षणुँ षणु (अर्थः) दाने
( सनोति सनुते ) इत्यादि तनोतिवत् "धात्वादेः षः सः'' णत्वन्तु निमित्ताद्यपायादपैति विशेषस्तु "जनसनखनां सन्झलोः'' इति झलादौ सनि किङ्ति नित्यमात्वम् "ये विभाषा'' इति यकारादौ क्डिति वात्वं ( सिषासति ) "सनीवन्त'' इत्यादिनेड्विकल्पः इट्पक्षे-( सिसनिषति ) अत्र षण्परत्वात् "स्तौतिण्योरेव'' इति नयिमात् प्रकृतेस्सस्य षत्वम् ( सात्वा ) उदित्त्वादिड्विकल्पः इटि ( सनित्वा सातः सातवान् ) "यस्य विभाषा'' इत्यनिट्त्वं, तादावनुनासिकलोपं बाधित्वा "जनसनखन'' इत्यात्वं भवति ( असात असाथाः ) इत्यत्र "तनादिभ्यस्तथासोः'' इति सिचो लुकि तथासोर्ङित्त्वमाश्रित्य आत्वं भवति ( सायते सन्यते संसन्यते सासायते) इति यकि यङि "ये विभाषा''इत्यात्वं वा भवति ( सन्यात् )इत्यत्र तु "ये विभाषा''इत्यात्वंये इत्यत्वतो निर्द्देशशन्न भवतीति धातुपारायणे ( सातिः, सतिः सन्तिः ) "सनः क्तिचि लोपश्चास्यान्यतरस्याम्'' इत्याकारः, पक्षे तदभावे वा नलोपश्च ( सातिः ) "ऊतियूति'' इत्यादिना क्तिनि निपात्यते 2
कृदन्तरूपमाला
Sanskrit
1 {@“षणु दाने”@} 2 ‘दाने सनोति सनुते, सम्भक्तौ तु सनेदिति।।’ 3 इति देवः।
4 5 पशुषाः-पशुषौ-पशुषः, गोषाः-नृषाः, 6 सातिः, सन्तिः, सतिः, सनिंससनिवांसम्, सेनिवान्, सन्यम्-सायम्, 7 प्रसत्य, 8 सनिः, 9 सानसिः इति विशेषरूपाणि।
इतराणि समस्तान्यपि रूपाणि तानादिकक्षणोतिवत् 10 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८१३)
02
=>
(८-तनादिः-१४६४। सक। सेट्। उभ।)
03
=>
(श्लो। १२८)
04
=>
[पृष्ठम्१३३५+ २९]
05
=>
[[१। पशुं सनोति इति वृत्तौ ‘जनसनखन--’ (३-२-६७) इति विट्। ‘विड्वनोरनुना- सिकस्य--’ (६-४-४१) इत्याकारः। ‘सनोतेरनः’ (८-३-१०८) इति षत्वम्। एवं गोषाः, नृषाः इत्यादिष्वपि बोध्यम्।]]
06
=>
[[२। ‘ऊतियूतिजूतिसाति--’ (३-३-९७) इति निपातनात् साधुः। सातिः = दानम्। ‘सान्तिः, सतिः’ इति तु क्तिचि, ‘सनः क्तिचि--’ (६-४-४५) इति आकार- विकल्प-नलोपविकल्पयो रूपम्। ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति दीर्घविकल्पः।]]
07
=>
[[३। ‘वा ल्यपि’ (६-४-३८) इत्यस्य व्यवस्थितविभाषात्वात् नान्तानां नित्यमनुनासि- कलोपः। तेनैवं रूपम्।]]
08
=>
[[४। औणादिके (द। उ। १-६८) इप्रत्यये रूपम्। सनिः = भक्तिः, दानं च।]]
09
=>
[[५। औणादिके (द। उ। १०-१७) असिप्रत्यये, उपधादीर्घे रूपम्। सानसिः = स्नेहः।]]
10
=>
(२९६)