| YouTube Channel

षड्जः (SaDjaH)

 
Apte Hindi
Hindi
षड्जः
पुं*
षष्-जः -
भारतीय स्वरग्राम के सात प्राथमिक स्वरों में से चौथा स्वर (कुछ के अनुसार पहला) क्योंकि यह स्वर छः अंगों से व्युत्पन्न है
Wordnet
Sanskrit
Synonyms:
षड्जः
noun
सङ्गीते सप्तस्वरान्तर्गतः प्रथमः स्वरः यस्य सङ्केतः इति भवति।
"षड्जः सङ्गीतस्य प्रथमः स्वरः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
षड्जः,
पुं,
(षड्भ्यः स्थानेभ्यः जायते इति ।जन + डः ।) तन्त्रीकण्ठोत्थितस्वरविशेषः ।इत्यमरः
अस्य व्युत्पत्तिर्यथा, --“नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः ।षड्भ्यः संजायते यस्मात् तस्मात् षड्ज इतिस्मृतः
”स मयूरस्वरतुल्यस्वरः यथा, --“षड्जं रौति मयूरो हि गावो नर्द्दन्तिचर्षभम् ।अजा विरौतिगान्धारं क्लौञ्चो नदति मध्यमम्
”इति भरतः
(अस्मिन् चतस्रः श्रुतयो वसन्ति यथा, सङ्गीत-दपणे ५३ ।‘तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः
’)तानसेनमते सप्तस्वराणां मध्ये प्रथमस्वरोऽयम् ।स्वरज् इति लोके ख्यातः अस्योच्चारणस्थानंकण्ठः अयं विप्रवर्णः अस्यार्च्चिकं नाम ।अर्थात् एकस्वरमिलितः सर्व्वस्वरापेक्षयाक्षुद्रस्वरोऽयम् अस्य ताल एकः अस्याष्टौभेदा भवन्ति इति सङ्गीतशास्त्रम्