| YouTube Channel

षडाम्नायाः (SaDAmnAyAH)

 
शब्दकल्पद्रुमः
Sanskrit
षडाम्नायाः,
पुं,
(षट् आम्नायाः ।) शिवस्यषड्वक्त्रविनिर्गतषट्प्रकारतन्त्रशास्त्रम् यथा, श्रीशिव उवाच ।“अथेदानीं प्रवक्ष्यामि आम्नायकथनं पृथक् ।पूर्व्वाम्नायो यदा मन्त्रस्तदा प्राचीदिशि स्थितसदाशिवोऽहं भगवानाचारः परिकीर्त्तितः ।एवं वै दक्षिणाम्नायो दक्षिणस्यां दिशि स्थितएवं हि पश्चिमाम्नायः पश्चिमायां दिशि स्थितएवमेवोत्तराम्नाय उत्तरस्यां दिशि स्थितः
मुखमूर्द्धकृतं देवि ! यत् प्रोक्तं तव सन्निधौ ।ऊर्द्धाम्नायश्च कथितो देवानामपि दुर्ल्लभः
यदा चाधोमुखं देवि यत् प्रोक्तं गिरिजे प्रिये ।अध आम्नाय इत्युक्तः सत्यं सत्यं सुमध्यमे ।षडाम्नायाश्चं कथिताश्चोत्पत्तिक्रमनामतः
*
यस्मिन् यस्मिंश्च ये देवाः कथिताश्च वरानने ।तान्देवांश्च प्रवक्ष्यामि साधकानां हिताय बै
श्रीविद्याभेदसहिता तारा त्रिपुरा तथा ।भुवनेशी चान्नपूर्णा पूर्व्वाम्नाये प्रकीर्त्तिताः
वगलामुखी वशिनी त्वरिता धनदा तथा ।वशिनी बालभैरवोत्यर्थः ।महिषघ्नी महालक्ष्मीर्द्दक्षिणाम्नायकीर्त्तिताः
महास्वरस्वती विद्या तथा वाग्वादिनी परा ।प्रत्यङ्गिरा भवानी पश्चिमाम्नायकीर्त्तिताः
कालिका भेदसहिता ताराभेदैश्च संयुता ।मातङ्गी भैरवी च्छिन्ना तथा धूमावती परा ।उत्तराम्रायकथिताः कलौ शीघ्रफलप्रदाः
समस्तभेदसहिताः कालिकायाः प्रकीर्त्तिताः ।द्वाविंशत्यक्षरी तासां दक्षिणास्नायकीर्त्तिता
एकजटा षडाम्नाये महामोक्षप्रदायिनी ।तत्परा परमा विद्या विद्यान्तरगोपिता
परप्रसादमन्त्रश्च ऊर्द्ध्वाम्नाये प्रकीर्त्तितः ।वागीश्वरादयो देवा अध आम्नायकीर्त्तिताः
ऊर्द्ध्वाम्नायो अधश्चैव केवलं मोक्षदो भवेत् ।धर्म्मार्थकाममोक्षार्थे आम्नायान्ये प्रकीर्त्तिताः
यथोक्तविधिना भद्रे कृत्वा फलमवाप्नुयात्
*
पूर्व्वाम्नायादिसर्व्वासां विधानं शृणु सुन्दरि ।कृत्वा येनाशु लभते फलं यदुत्तमोत्तमम्
षट्कर्म्मफलदा नॄणां षडाम्नायाः प्रकीर्त्तिताः ।उत्तराम्रायो देवेशि तेषामाशु फलप्रदः
”इति समयाचारतन्त्रे पटलः
*
तत्र आम्रायभेदेनाचारभेद उक्तः यथा, --“पूर्व्वाम्नायोदितं कर्म्म पाशवं कथितं प्रिये ।यदुक्तं दक्षिणाम्राये तदेव पाशवं स्मृतम्
पश्चिमाम्नायजं कर्म्म पशुवीरसमाश्रितम् ।उत्तराम्नायजं कर्म्म दिव्यवीराश्रितं प्रिये
दिव्योऽपि वीरभावेन साधयेत् पितृकानने ।वीरासनं विना दिव्यः पूजयेत् पितृकानने ।ऊर्द्ध्वाम्नायोदितं कर्म्म दिष्यभावाश्रितं प्रिये
”इति निरुत्तरतन्त्रे पटलः