| YouTube Channel

षडशीतिचक्र (SaDazIticakra)

 
Spoken Sanskrit
English
षडशीतिचक्र - SaDazIticakra -
n.
- mystical circle
Monier Williams Cologne
English
षड्—अशीति—चक्र
n.
a mystical circle (shaped like a man [whose limbs are formed of the Nakṣatras] for telling good or bad luck at the Ṣaḍ-aśīti-mukha),
L.
शब्दकल्पद्रुमः
Sanskrit
षडशीतिचक्रं,
क्ली,
(षडशीतेश्चक्रम् ।) मिथुनकन्याधनुर्म्मीनराशिस्थरवेः शुभाशुभफलज्ञानार्थंनक्षत्राङ्गनराकारचक्रम् यथा, --“मुखे चैकं करे वेदाः पादयुग्मे द्वयं द्वयम् ।क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि
द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा ।द्वयञ्चैय तथा गुह्ये षडशीत्यां स्वभे स्थिते
मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि ।कान्ता स्याद्बन्धनं वामे हस्ते स्यात् स्वीयभेनृणाम्
सम्मानं नेत्रयोश्चैव अपमानञ्च मस्तके ।गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः
”इति ज्योतिस्तत्त्वम्
वाचस्पत्यम्
Sanskrit
षडशीतिचक्र
न०
मिथुनकन्थाधनुर्भीनराशिस्थरवे संक्रमे शु-भाशुभफलज्ञानाथं नक्षत्राङ्गनराकारे चक्रे यथा “मुखेचैकं करे वेदाः पादयुम्मे द्वयं द्वयम् क्रोडे वाणस्तथावेदाः करे सव्येतरेऽपि द्वयं द्वयं तथा नेत्रेमस्तके त्रितयं तथा द्वयञ्चैव तथा गुह्ये षडशीत्यांस्वभे स्थिते मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि ।कान्ता स्याद् बन्धनं बामे हस्ते स्यात् खोयभे नृणाम् ।सम्मानो नेत्रयोश्चैव अपमानश्च मस्तके गुह्ये चैव भवे-न्मृत्युः षडशीतिफलश्रुतिः” ज्यो० त०