| YouTube Channel

षडङ्गं (SaDaGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
षडङ्गं,
क्ली,
(षणां अङ्गानां समाहारः शरी-रस्य षडवयवम् यथा, --“जङ्घे बाहू शिरो मध्यं षडङ्गमिदमुच्यते
”इति शब्दचन्द्रिका
वेदाङ्गषट्शास्त्राणि यथा, --“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथाछन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः
”इति शब्दरत्नावली
*
अपि अङ्गान्याह शिक्षापद्यम् ।“छन्दःपादौ तु वेदस्य हस्तौ कल्पोऽथ कथ्यते ।ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते
शिक्षाघ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम् ।तस्मात् साङ्गमधीत्यैव ब्रह्ललोके महीयते
”इति तिथ्यादितत्त्वम्
*
आद्यश्राद्धीयदानाङ्गपीठादिकम् इति लोक-प्रसिद्धम्
*
षट्प्रकारगव्यविशेषः यथा, --“गोमूत्रं गोमयं क्षीरं सर्पिर्दधि रोचना ।षडङ्गमेतन्माङ्गल्यं पवित्रं सर्व्वदा गवाम्
इति स्मृतिः
*
हृदयादिषडवयवम् तत्प्रमाणं न्यासशब्देद्रष्टव्यम्