| YouTube Channel

षट्त्रिंशन्मतं (SaTtriMzanmataM)

 
शब्दकल्पद्रुमः
Sanskrit
षट्त्रिंशन्मतं
क्ली,
(षट्त्रिं शतस्तत्संख्यकधर्म्म-शास्त्रकारिणां मुनीनां मतम् ।) षडधिकत्रिंश-त्सङ्ख्यकधर्म्मशास्त्रप्रयोजकमुनीनामभिप्रायः ।यथा तथा षट्त्रिंशन्मतम् इति तिथिस्वरूपकथने तिथ्यादितत्त्वम् तेषां नामानियथा, --“मनुर्विष्णुर्यमो दक्षः अङ्गिरोऽत्रिबृहस्पती ।आपस्तम्बश्चोशना कात्यायनपराशरौ
वशिष्ठव्याससंवर्त्ता हारीतगोतमावपि ।प्रचेताः शङ्खलिखितौ याज्ञवल्क्यश्च काश्यपः
शातातपो लोमशश्च जमदग्निः प्रजापतिः ।विश्वामित्रपैठीनसी बौधायनपितामहौ
छागलेयश्च जावालो मरीचिश्च्यवनो भृगुः ।ऋष्यशृङ्गो नारदश्च षट्त्रिंशत् स्मृति-कारकाः
एतेषान्तु मतं यत्तु षट्त्रिंशन्मतमुच्यते
”इति शङ्खलिखितौ