| YouTube Channel

षट्चक्रं (SaTcakraM)

 
शब्दकल्पद्रुमः
Sanskrit
षट्चक्रं,
क्ली,
(षण्णां चक्राणां समाहारः ।)शरीरस्थपद्माकारषट्प्रकारचक्रम् यथा, --“सप्तपद्मानि तत्रैव सन्ति लोका इव प्रभो ।गुदे पृथ्वीसमं चक्रं हरिद्वर्णं चतुर्द्दलम्
लिङ्गेतु षड्दलं चक्रं स्वाधिष्ठानमिति स्मृतम् ।त्रिलोकवह्निनिलयं तप्तचामीकरप्रभम्
नाभौ दशदलं चक्रं कुण्डलिन्या समन्वितम् ।नीलाञ्जननिभं ब्रह्मस्थानं पूर्व्वकमन्दिरम्
मणिपूराभिधं स्वच्छं जलस्थानं प्रकीर्त्तितम् ।उद्यदादित्यसंकाशं हृदि चक्रमनाहतम्
कुम्भकाख्यं द्बादशारं वैष्णवं वायुमन्दिरम् ।कण्ठे विशुद्धशरणं षोडशारं पुरोदयम्
शाम्भवीवरचक्राख्यं चन्द्रबिन्दुविभूषितम् ।षष्ठमाज्ञालयं चक्रं द्विदलं श्वेतमुत्तमम्
राधाचक्रंमिति ख्यातं मनःस्थानं प्रकीर्त्तितम् ।सहस्रदलमेकार्णं परमात्मप्रकाशकम्
नित्यज्ञानमयं सत्यं सहस्रादित्यसन्निभम् ।षट् चक्राणीह भेद्यानि नैतद्भेद्यं कथञ्चन
”इति पाद्मे स्वर्गखण्डे २७ अध्यायः
*
अन्यच्च ।“तत्त्वस्वरूपमेकं तत् षट्चक्रं प्रतिलक्षयेत् ।षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः
लम्बयेन्मूलमन्त्रेण आदिषोडशचक्रकम् ।आदिषोडशचक्रस्थां साधकानन्दकारिणीम्
चिन्तयन् साधको देवीं जपकर्म्म सभारभेत् ।भ्रुवोरुपरि नाडीनां त्रयाणां प्रान्त उच्यते ।तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम्
रक्तवर्णन्तु योगज्ञैराज्ञाचक्रमितीरितम्
कण्ठे त्रयाणां नाडीनां वेष्टनं विद्यते नृणाम् ।सुषुम्नेडापिङ्गलानां षट्कोणं तत् षडङ्ग्रुलम्
तत् षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मध्य-गम् ।त्रयाणामथ नाडीनां हृदये चैकता भवेत्
तत्स्थानं षोडशास्रं स्यात् सप्ताङ्गुलप्रमाणतः ।तत् पीतमुक्तं योगज्ञैरादिषोडशचक्रकम्
ध्यानानामथ मन्त्राणां चिन्तनस्य जपस्य ।यस्मादाद्यञ्च हृदयं तस्मादादीति गद्यते
”इति कालिकापुराणे ५४ अध्यायः
*
अपरञ्च ।“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मकेमध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम्
तदूर्द्धे कामबीजन्तु क-ल-शान्तीन्दूनादकम् ।तदूर्द्धे तु शिखाकारा कुण्डली ब्रह्मविग्रहा
तद्धाह्ये हेमवर्णाभं व-स-वर्णचतुर्द्दलम् ।द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत्
तदूर्द्धेऽग्निसमप्रख्य षड्दलं हीरकप्रभम् ।वादिलान्तषडर्णेन युक्ताधिष्ठानसंज्ञकम्
मूलमाधारषट्कानां मूलाधारं ततो विदुः !स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः
तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महत्प्रभम् ।मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ।मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ।शिवेनाधिष्ठितं पद्मं विश्वलोकैककारणम्
तदूर्द्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ।कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम्
तन्मध्ये वाणलिङ्गन्तु सूर्य्यायुतसमप्रभम् ।शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते
तेनाहताख्यं पद्मं तत् मुनिभिः परिकीर्त्त्यते ।आनन्दसदनं तक्षु पुरुषाधिष्ठितं परम्
तदूर्द्ध्वन्तु विशुद्धाख्यं दलषोडशपङ्कजम् ।स्वरैः षोडशकैर्युक्तं धूम्रवर्णं महत्प्रभम्
विशुद्धिं तनुते यस्मात् जीवस्य हंसलोकनात् ।विशुद्धं पद्ममाख्यातं आकाशाख्यं महत् परम्आज्ञाचक्रं तदूर्द्ध्वे तु आत्मनाधिष्ठितं परम् ।आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीर्त्तितम्
कैलासाख्यं तदूर्द्धे तु बोधनीन्तु तदूर्द्धतः ।एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत
सहस्राराम्बुजं बिन्दुस्थानं तदूर्द्ध्वमीरितम् ।इत्येतत् कथितं सर्वं योगमार्गमनुत्तमम्
”इति तन्त्रसारः