षट्कूटा (SaTkUTA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritषट्कूटा, भैरवीविशेषः । यथा, --अथ षट्कूटा भैरवी ।“डाकिनी राकिनी बीजे लाकिनी काकिनी-युगम् ।साकिनो हाकिनी बीजे आहृत्य सुरसुन्दरि ॥
आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् ।शक्रस्वरान्वितं देवि तार्त्तीयं बीजमालिखेत् ।बिन्दुनादकलाक्रान्तं त्रितयं शैलसम्भवे ॥
”तृतीयबीजं सविसर्गं इत्यपि केचित् । तन्त्रा-न्तरे ।“ऊरौ क्ष्मामादनं जीवं शिवमत्र त्रिधा लिखेत्अर्केण मायाशक्राभ्यां क्रमात्तं मण्डितं कुरु ॥
बिन्दुनादान्वितं चाद्यद्वयमन्त्यं विसर्गवत् ।ध्यानमस्याः प्रवक्ष्यामि सर्व्वभूतनिकृन्तनम् ॥
बालसूर्य्यप्रभां देवीं जवाकुसुमसन्निभाम् ।मुण्डमालावलीरम्यां बालसूर्य्यसमांशुकाम् ॥
सुवर्णकलसाकारपीनोन्नतपयोधराम् ।पाशाङ्कुशौ पुस्तकञ्च तथा च जपमालिकाम् ॥
”दधतीमिति शेषः ।“द्विरावृत्त्या षडङ्गानि विधाय परमेश्वरि ।यन्त्रमस्या वरारोहे त्रिकोणं तत्पुटं लिखेत् ॥
वहिरष्टदलं पद्मं रविपत्रं ततो लिखेत् ।चतुरस्रं चतुर्द्द्वारमेवं मण्डलमालिखेत् ॥
षडङ्गावरणं देवि ! पूजयेत् पूर्व्ववच्छिवे ।रत्यादि त्रितयं देवि त्रिकोणे परिपूजयेत् ॥
डाकिन्याद्याश्च षट्कोणे वसुपत्रे ततः परम् ।ब्राह्म्यादि युगलं पश्चाद्रविपत्रे ततः परम् ॥
बालायाः पीठशक्तीस्तु वामाद्याः पूजयेत्क्रमात् ।चतुरस्रे लोकपालान् सायुधान् परमेश्वरि ।अनेनैव विधानेन नित्याख्यां भेरवीं यजेत् ॥
”इति तन्त्रसारः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
