षट्कर्म्म (SaTkarmma)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritषट्कर्म्म, [न्] (षट्प्रकारं कर्म्म ।) षट्-प्रकारशान्त्यादिकर्म्म । यथा, शारदायाम् ।“अथाभिधास्ये तन्त्रेऽस्मिन् सम्यक् षट्कर्म्म-लक्षणम् ।सर्व्वतन्त्रानुसारेण प्रयोगः फलसिद्धिदः ॥
शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः ।मारणान्तानि शंसन्ति षट्कर्म्माणि मनीषिणः ॥
रोगकृत्या ग्रहादीनां निराशः शान्तिरीरिता ।वश्यं जनानां सर्व्वेषां विधेयत्वमुदीरितम् ॥
प्रवृत्तिरोधः सर्व्वेषां स्तम्भनं तदुदाहृतम् ।स्निंग्धानां क्लेशजननं मिथोविद्वेषणं मतम् ॥
उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम् ।प्राणिनां प्राणहरणं मारणं तदुदाहृतम् ॥
स्वदेवतादिक्कालादोन् ज्ञात्वा कर्म्माणि साधयेत्रतिर्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमम् ।षट्कर्म्मदेवताः प्रोक्ताः कर्म्मादौ ताः प्रपूजयेत् ॥
ईशचन्द्रेन्द्रनिरृतिवाय्वग्नीनान्दिशो मताः ।सूर्य्योदयं समारभ्य घटिकादशकं क्रमात् ॥
ऋतवः स्युर्व्वसन्ताद्याः अहोरात्रं दिने दिने ।वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः ॥
”यद्वा, --“अर्द्धरात्रं शरत्कालो हेमन्तश्च प्रभातकः ।पूर्व्वाह्णश्च वसन्तः स्यात् मध्याह्नो ग्रीष्म एव च ॥
प्रावृडरूपोऽपराह्णः स्यात् प्रदोषः शिशिरःस्मृतः ॥
”अथवा, --“ऊषोयोगे च हेमन्तः प्रभाते शिशिरागमः ।प्रहरार्द्धे वसन्तः स्यात् ग्रीष्मो मध्यन्दिनागमे ।तुर्य्ययामे च वर्षाख्यः शरदस्तं गते रवौ ॥
” * ॥
अथ कालनियमः ।“हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्म्मणि ।शिशिरं स्तम्भने प्रोक्तो विद्वेषे ग्रीष्म एव च ।प्रावृडुच्चाटने ज्ञेया शरन्मारणकर्म्मणि ॥
” * ॥
अथ तिथिनियमः ।“ग्रञ्चमो च द्वितीया च तृतीया सप्तमी तथा ।बुधेज्यबारसंयुक्ता विज्ञेया द्वेषकर्म्मणि ॥
कृष्णा चतुर्द्दशी तद्वदष्टमी मन्दवारकाः ।उच्चाटने तिथिः शस्ता प्रदोषे च विशेषतः ॥
चतुर्द्दश्यष्टमी कृष्णा अमावास्या तथैव च ।मन्दभौमदिनोपेता शस्ता मारणकर्म्मणि ॥
बुधचन्द्रदिनोपेता पञ्चमी दशमी तथा ।पौर्णमासी तु विज्ञेया तिथिः स्तम्भनकर्म्मणि ॥
शुभग्रहोदये कुर्य्यात् शुभानि च शुभोदये ।रौद्रकर्म्माणि रिक्तार्के मृत्युयोगे च मारणम् ॥
*जपेत् पूर्व्वमुखो वश्ये दक्षिणञ्चाभिचारके ।पश्चिमे स्तम्मनं विद्यात् उत्तरे शान्तिकं भवेत् ॥
आकर्षणमथाग्नेये नैरृते मारणं तथा ।उच्चाटनन्तु वायव्ये ऐशान्यां मोक्षदायकम् ॥
* ॥
अथाभिचारे कार्य्या च दक्षिणाप्लवना मही ।वसनं लोहितं प्रोक्तं उष्णीषं लोहितं स्मृतम् ॥
भूषणं लौहद्रव्येण वामेन पूजनादिकम् ।नरस्नायुविशेषेण मारणे रज्जुरीरितामृतस्य युद्धशून्यस्य दन्तस्य गर्द्दभस्य वा ।कृत्वाक्षमालां जप्तव्यं शत्रूणां वधमिच्छता ॥
भग्नेभदन्तमणिभिर्जपेदाकर्षकर्म्मणि ।साध्यकेशसूत्रप्रोतस्तुरङ्गदशदनोद्भवैः ।अक्षमालां समालोक्य विद्वेषोच्चाटने जपेत् ॥
*पद्माक्षं स्वस्तिकं भूयो विकटं कुक्कुटं पुनः ।वज्रं भद्रकमित्याहुरासनानि मनीषिणः ॥
पद्मासनन्तु संयोज्य जानूर्वोरन्तरे करौ ।निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥
अन्यानि वक्तव्यानि ॥
* ॥
“षण्मुद्राः क्रमतो ज्ञेयाः पद्मपाशगदाह्वयाः ।मुषलाशनिखङ्गाख्याः शान्तिकादिषु कर्म्मसु ॥
जलं शान्तिविधौ शस्तं वश्ये वह्निरुदीरितः ।स्तम्भने पृथिवी शस्ता विद्वेषे व्योम कोर्त्तितम् ॥
उच्चाटने स्मृतो वायुर्भूयोऽग्निर्न्मारणे स्मृतः ।तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुतम् ।तत्तत् कर्म्म विधातव्यं मन्त्रिणा निश्चितात्मना ॥
*शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम् ।वर्णः स्युर्म्मन्त्रबीजानि षट्कर्म्मसु यथाक्रमम् ॥
ग्रन्थनञ्च विदर्भश्च संपुटो रोधनं तथा ।योगः पल्लव इत्येते विन्यास्याः षट्सु कर्म्मसु ॥
मन्त्रार्णान्तरितान् कुर्य्यात् साध्यवर्णान् यथा-व्रिधि ।ग्रन्थतं तद्विजानीयात् प्रशस्तं शान्तिकर्म्मणि ॥
मन्त्राणद्वयमध्यस्तं साध्यानामाक्षरं लिखेत् ॥
विदर्भ एष विज्ञेयो मन्त्रिभिर्व्वश्यकर्म्मणि ॥
आदायन्ते च मन्त्रः स्यान्नाम्नासौ संपुटः स्मृतः ।एष स्यात् स्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः ॥
नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं मतम् ।विद्वेषणविधानेषु प्रशस्तमिदमीरितम् ॥
मन्त्रस्यान्ते भवेन्नामयोगः प्रोच्चाटने मतः ।अन्ते नाम्नो भवेन्मन्त्रः पल्लवो मारणे मतः ॥
सितरक्तपोतमिश्रकृष्णधूम्राः प्रकीर्त्तिताः ।वर्णतो मन्त्रसंप्रोक्ता देवताः षट्सु कर्म्मसु ॥
* ॥
मन्त्राणां लिखनद्रव्यं चन्दनं रोचनं निशा ।गृहधूमचिताङ्गारौ मारणेऽष्ट विषाणि च ॥
श्येनाग्निलोलपित्तानि धुस्तूरकरसस्ततः ।गृहधूमस्त्रिकटुकं विषाष्टकमितीरितम् ॥
देवताकालमुद्रादीन् सम्यक् ज्ञात्वा विचक्षणः ।षट्कर्म्माणि प्रयुञ्जीत यथोक्तफलसिद्धये ॥
* ॥
उच्चाटने वषट् प्रोक्तं हूँ फडन्तश्च मारणे ।स्तन्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके ॥
होमतर्पणयोः स्वाहा न्यासपूजनयोर्न्नमः ।मन्त्रान्ते योजयेन्मन्त्री जपकाले यथास्थिति ॥
”अस्यार्थः एतानि तत्तत्कर्म्मणि जपकालेमन्त्रान्ते योजयित्वा मन्त्रं जपेत् । होमादिषुनायं नियमः । होम इति कश्चित् तन्न ।“अग्निकार्य्ये जपेत् स्वाहा नमः सर्व्वत्र चार्च्चनेशान्तिपुष्टिवशद्वेषाकर्षोच्चाटनमारणे ॥
स्वाहा-स्वधा-वषट्-हूञ्च वौषट् फट् योजयेत्क्रमात् ।वश्याकर्षणसन्तापज्वरे स्वाहा प्रकीर्त्तिता ॥
क्रोधोपशमने शान्तौ प्रीतौ योज्यं नमो बुधैः ।वौषट् सम्मोहनोद्दीपपुष्टिमृत्युञ्जयेषु च ॥
हूङ्कारं प्रीतिनाशे च मारणे च्छेदने तथा ।उच्चाटने च विद्वेषे वषट् पङ्गुकृतौ वषट् ।मन्त्रोद्दीपनकार्य्येषु लाभालाभे वषट् स्मृतः ॥
”इति विशेषवचनाद्धोमे नायं विधिः ॥
* ॥
शान्तिकादौ मन्त्रलिखनपत्रादिनियमस्तत्र एव“शान्तिके राजतं ताम्रं भूर्ज्जपत्रञ्च वश्यके ।सर्व्वकार्य्यैषु सौवर्णं क्रूरे स्यात् प्रेतकर्पटम् ॥
त्रिगन्धं शान्तिके प्रोक्तं पञ्चगन्धन्तु वश्यके ।सर्व्वकार्य्येऽष्टगन्धः स्यात् क्रूरे चाष्टविषाणि चशान्तिके लेखनी दूर्व्वा वश्यादौ शिखि-पुच्छिका ॥
हेम्रा सर्व्वाणि कार्य्याणि क्रूरे स्यात् काक-पुच्छिका ॥
गृहेषु शान्तिकर्म्म स्यात् वश्यञ्च चण्डिकागृहेदेवालये च सर्व्वाणि श्मशाने क्रूरकर्म्म च ॥
” * ॥
अथ भूतानामुदयः ।“दण्डाकारा गतिर्भूमेः पुटयोरुभयोरपि ।तोयस्य पावकस्योर्द्धे गतिस्तिर्य्यक् नभस्वतः ॥
गतिर्व्योम्नो भवेन्मध्ये मूतानामुदयः स्मृतः ।धरणेरुदये कुर्य्यात् स्तम्भनं वश्यमात्मवित् ॥
शान्तिकं पौष्टिकं कर्म्म तोयस्य समये वसोः ।मारणादीनि मरुतो विपक्षोच्चाटनादिके ।क्ष्वेडादिनाशने शस्तमुदये च विहायसः ॥
” * ॥
अथ भूतानां मण्डलानि ।“वृत्तंदिवस्तत् षड्बिन्दुलाञ्छितं मातरिश्वनःत्रिकोणं स्वस्तिकोपेतं वह्नेरर्द्धेन्दुसंयुतम् ॥
अम्भोजसन्भसो भूमेश्चतुरस्रं सवज्रकम् ।तत्तद्भूतसमाभानि मण्डलानि विदुर्बुधाः ॥
वर्णैः स्वे रञ्जितान्याहुः स्वस्वनामावृतान्यपि ।स्वयं वियत् मरुत् कृष्णो रक्तोऽग्निविषदं पयः ॥
”पीडाभूतादिप्रयोगानन्तरं कुलार्णवे ।“एकलक्षं जपेन्मन्त्रं ध्यानन्याससमन्वितम् ।प्रयोगदोषशान्त्यर्थमात्मरक्षार्थकारणम्न चेत् फलञ्च नाप्नोति देवताशापमाप्नुयात् ॥
”यत्तु ।“न शस्तं मारणं कर्म्म कुर्य्याच्चेदयुतं जपेत् ।”तत् प्रायश्चित्तपरम् । इति तन्त्रसारः ॥
* ॥
योगाङ्गषट्प्रकारक्रिया । तद्यथा, --“धौतिर्वस्तिस्तथा नेतिर्नौलिकी त्राटकस्तथा ।कपालभातिश्चैतानि षटकर्म्माणि समाचरेत् ॥
अन्तधौतिर्द्दन्तर्धौतिहृ द्धौतिर्मलशोधनम् ।धौत्यश्चतुर्विधाः प्रोक्ता घटं कुर्व्वन्ति निर्म्म-लम् ॥
वातसारं वारिसारं वह्रिसारं बहिष्कृतम् ।घटस्य निर्म्मलार्थाय अन्तर्धौतिश्चतुर्विधा ॥
” * ॥
प्रयोगः ।“काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः ।चालयेदुदरं पश्चाद्वर्त्मना रेचयेत् शनैः ॥
वातसारं परं गोप्यं देहनिर्म्मलकारकम् ।सर्व्वरोगक्षयकरं देहानलविवर्द्धकम् ॥
१ ॥
आकण्ठं पुरयेद्वारि वक्त्रेण च पिबेत् शनैः ।चालयेदुदरेणैव चोदराद्रेचयेदधः ॥
वारिसारं परं धौतं देहनिर्म्मलकारकम् ।साधयेद्यः प्रयत्नेन देवदेहं प्रपद्यते ॥
२ ॥
नाभिग्रन्थिं मेरुपृष्ठं शतवारञ्च कारयेत् ।उदरामयजां त्यक्त्वा जठराग्निं विवर्द्धयेत् ।वह्निसारमिदं धौतं योगिनां योगसिद्धिदम् ॥
३ ॥
काकीमुद्रां साधयित्वा पुरयेदुदरं मरुत् ।धारयेदर्द्धयामन्तु चालयेदधवर्त्मना ॥
इदं धौतं परं गोप्यं न प्रकाश्यं कदाचन ।नाभिमग्नजले स्थित्वा शक्तिनाडीं विसर्ज्जयेत् ॥
कराभ्यां क्षालयेन्नाडीं यावन्मलविसर्ज्जनम् ।तावत् प्रक्षाल्य नाडीञ्च उदरे वेशयेत् पुनः ॥
इदं प्रक्षालनं गोप्यं देवानामपि दुर्ल्लभम् ।केवलं धौतिमात्रेण देवदेहो भवेत् ध्रुवम् ॥
यामार्द्धधारणात् शक्तिं यावन्न साधयेन्नरः ।वहिष्कृतमहद्धौतिस्तावन्नैव न जायते ॥
४ ॥
दन्तमूलं जिह्वामूलं रन्ध्रे च कर्णयुग्भयोः ।कपालरन्ध्रं पञ्चैते दन्तधौतिर्विधीयते । ॥
*” ॥
प्रयोगः“खादिरेण रसेनाथ मृत्तिकाभिश्च शुद्धिभिः ।मार्ज्जयेद्दन्तमूलञ्च यावत् किल्विषमाहरेत् ॥
दन्तमूलं परं धौतिर्योगिनां योगसाधने ।नित्यं कुर्य्यात् प्रभाते च दन्तरक्षाय योगवित् ॥
दन्तमूलं धारणादिकार्य्येषु योगिनां यतः । १ ।अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम् ॥
जरामरणरोगादि नाशयेत् दीर्घलम्बिका ।तर्ज्जनी मध्यमानामा अङ्गुलित्रययोगतः ॥
वेशयेद्गलमध्ये तु मार्ज्जयेल्लम्बिकामलम् ।शनैः शनैर्म्मार्ज्जयित्वा कफदोषं निवारयेत् ॥
मार्ज्जयेन्नवनीतेन दोहयेच्च पुनः पुनः ।तदग्रं लोहयन्त्रेण घर्षयित्वा पुनः पुनः ॥
नित्यं कुर्य्यात् प्रयत्नेन रवेरुदयकेऽस्तके ।एवं कृते तु नित्ये च लम्बिका दीर्घतां गता ॥
२तर्ज्जन्यङ्गुल्यकाग्रेण मार्ज्जयेत् कर्णरन्ध्रयोः ।नित्यमभ्यासयोगेन नादान्तरप्रकाशनम् ॥
३ ॥
४ ॥
वृद्धाङ्गुष्ठेन दक्षेण मार्ज्जयेद्भालरन्ध्रकम् ।एवमभ्यासयोगेन कफदोषं निवारयेत् ॥
नाडीनिर्म्मलतां याति दिव्यदृष्टिः प्रजायते ।निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने ॥
५हृद्धौतिं त्रिविधां कुर्य्यात् दण्डवज्जलवाससा ।रम्भादण्डं हरिद्दण्डं वेत्रदण्डन्तथैव च ॥
हृमध्ये चालयित्वा तु पुनः प्रत्याहरेत् शनैः ।कफपित्तं तथा क्लेदं रेचयेदूर्द्धवर्त्मना ।दण्डधौतिविधानेन हृद्रोगं नाशयेत् ध्रुवम् ॥
”हरिद्दण्डं वटझुरि ॥
१ ॥
“भोजनान्ते पिबेद्वारि आकण्ठं पूर्णितं सुधीः ।ऊर्द्ध्वदृष्टिं क्षणं कृत्वा तज्जलं वमयेत् पुनः ।नित्यमभ्यासयोगोऽयं कफपित्तं निवारयेत् ॥
२चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रसेत् ।पुनः प्रत्याहरेदेतत् प्रोच्यते धौतकर्म्मकम् ॥
गुल्मज्वरप्लीहकुष्ठं कफपित्तं विनश्यति ।आरोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने ॥
३ ॥
अपानक्रूरतां तावन्मलं यावन्न शोधयेत् ।तस्मात् सर्व्वप्रयत्नेन मलशोधनमाचरेत् ॥
पीतमूलस्य दण्डेन मध्यमाङ्गुलिनापि वा ।यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुनः ॥
वारयेत् कोष्ठकाठिन्यमामाजीर्णं निवारयेत् ।कारणं कान्तिपुष्ट्योश्च दीपनं वह्निमण्डलम् ॥
* ॥
जलवस्तिः शुष्कवस्तिर्वस्ती च द्विविधौ स्मृतौ ।जलवस्तिं जले कुर्य्यात् शुष्कवस्तिं क्षितौ सदा ॥
नाभिमग्नजले पायुं न्यस्तनालोत्कटासनम् ।आकुञ्चनं प्रकाशञ्च जलवस्तिं समाचरेत् ॥
प्रमेहञ्च गुदावर्त्तं क्रूरवायुं निवारयेत् ।भवेत् स्वच्छन्ददेहश्च कामदेवसमो भवेत् ॥
”न्यस्तनालोत्कटासनं ऊरुद्वये हस्त दत्त्वाशारङ्गवदुदरं कुर्य्यादित्यर्थः । १ ।“वस्तिं पश्चिमतानेन चालयित्वा शनैः शनैः ।अश्विनीमुद्रया पायुं आकुञ्चयेत् प्रकाशयेत् ॥
एवमभ्यासयोगेन कोष्ठदोषो न विद्यते ।विवर्द्धयेत् जाठराग्निं आमवातं विनाशयेत् ॥
२वितस्तिमानं सूक्ष्मसूत्रं नाशानाले प्रवेशयेत् ।मुखान्निर्ममयेत् पश्चात् प्रोच्यते नेतिकर्म्मकम् ॥
साधनान्नेतिकर्म्मापि खेचरीसिद्धिमाप्नुयात् ।कफदोषा विनश्यन्ति दिव्यदृष्टिश्च जायते ॥
* ॥
अमन्दवेगे तुन्दञ्च भ्रामयेदुभपार्श्वयोः ।सर्व्वरोगान्निहन्तीह देहानलविवर्द्धनम् ॥
”इति नौलिकी ॥
* ॥
“निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् ।यावदश्रु निपतति त्राटकं प्रोच्यते बुधैः ॥
एवमभ्यासयोगेन शाम्भवी जायते ध्रुवम् ।न जायते नेत्ररोगो दिव्यदृष्टिप्रदायकम् ॥
* ॥
सीत्कृत्य पीत्वा वक्त्रेण नासानालैर्विरेचयेत् ।व्युत्क्रमेण व्युत्क्रमेण सीत्क्रमेण विशेषतः ॥
भालभातिं त्रिधा कुर्य्यात् कफदोषं निवारयेत् ॥
ईडया पूरयेद्वायुं रेचयेत् पिङ्गलया पुनः ।पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत् ॥
पूरकं रेचकं कृत्वा वेगेन न तु धारयेत् ।एवमभ्यासयोगेन कफदोषं निवारयेत् ॥
* ॥
नासाभ्यां जलमाकृष्य वक्त्रेण रेचयेत् पुनः ।पायं पायं प्रकुर्व्वंश्चेत् श्लेष्मदोषं निवारयेत् ॥
न जायते वार्द्धकञ्च ज्वरी नैव प्रजायते ॥
”इति घेरण्डसंहितायां षट्कर्म्मशोधनं प्रथमो-ऽध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
