| YouTube Channel

षच (Saca)

 
Yates
English
षच सचते 1.
d. To wet
to serve.
a. सचति To be connected, to
understand well.
Wilson
English
षच r. 1st cl. (सचते)
1 To wet, to moisten, to sprinkle.
2 To serve, to gratify by service. (सचति)
1 To be connected.
2 To understand thoroughly.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
सच्
मूलधातुः:
षच
धात्वर्थः:
सेवने, सेचने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
सचते
धातुप्रदीपः
Sanskrit
षचँ षच सेचने
- सचते असीषचत् सक्तवः ।। 161 ।।
षचँ षच समवाये
- सचति सचते सिसचिषति पूर्ववत्सन (1/3/62) इत्यनेन कर्त्रभिप्राये सिसचिषते सिषाचयिषति षच सेचन इत्यनुदात्तेत् प्रागुक्तः ।क्रियाफलेऽकर्त्रभिप्रायेऽप्यात्मनेपदार्थः ।। 1005 ।।
शब्दकल्पद्रुमः
Sanskrit
षच, सम्बन्धे इति कविकल्पद्रुमः
(भ्वा०-पर०सक०-सेट् ।) सचति इति दुर्गादासः
षच, सेचने इति कविकल्पद्रुमः
(भ्वा०-आत्म०-मक०-सेट् ।) ङ, सचते जलं मेघः ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
षच सेचने
भ्वा०
आत्म०
सक०
सेट् पञ्चते असचिष्ट असीः षचत्
षच सम्बन्धे
भ्वा०
पर०
सक०
सेट् सचति असचोत्--असाचीत्
क्षीरतरङ्गिणी
Sanskrit
षचँ षच सेचने
सचते, असीषिचत् सितनिगमिसचिमसि (तु0उ0169) इति तुन् - सक्तवः षच समवाये (धा0सू01284 व्याख्या) अस्मात् - सचति, सचिवः 163
धातुवृत्तिः
Sanskrit
षचँ षच (अर्थः) सेचने
अयं सेवनार्थोपि, तथा 'त्रय एनां महिमानः सचन्त' इत्यत्र क्षुरभट्टभास्करीययोः सचते सेचतइति निरुक्ते सक्तः सचित इति, सेव्यमानस्येति अस्यैतौ वाचकावित्यर्थः "प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्त' इति ( सचते सेचे सचिता सचिष्यते सचताम् असचत सचेत आशिषि सचिषीष्ट अष्टचिषत् ) "स्तौतिण्योरोव'' इतिसत्वम् ( सासच्यते सासक्ति साचयति असीषचत् ) सक्तुः "सितनिगमिमसिसचि"इति तुन् "तितुत्र''इतीण्निषेधः सक्तुलः "सिध्यादिभ्य''इति मत्वर्थे लः सचिवः बाहुलकाद्वप्रत्ययः यद्वा सचिः सेवा, इन् प्रत्ययः, तां वातीति सचिः, "आतोऽनुपसर्गे कः'' यद्वा "केशाद्वोन्यतरस्याम्'' इति वप्रत्ययः "अन्येभ्योपि दृश्यते'' इति मणिवराजीवादिवदस्मादपि अयं समवाये स्वरितेदग्रे 161
षचँ षच (अर्थः) समवाये
केचिदमुं पठन्ति ते ब्रुविशासिगुणेन यत्सचत इति भाष्यप्रयोगं नतूदरेण संख्या सचयइत्यादिप्रयोगं षच सेचनइत्यस्यानुदात्तेतो धातूनामनेकार्थत्वात्समवायार्थस्य सम्बध्यमानकर्तृके व्यापारे वर्त्तमानस्य समर्थयन्ते अन्ये तु षच समवाये षच व्यक्तायां वाचीति परस्मैपदिषु गतस्य चकारान्तस्य स्थानेऽमुं पठन्ति यदाह "अकथितं च''इत्यत्र हरदत्तः सचतिः सर्वतः सम्बध्यतइति वृत्तिमुपादाय षच समवाये स्वरितेत् केचित् परस्मैपदिषु धातुमेनं पठन्ति षच समवाये रपलप व्यक्तायां वाचीति, तआहुः सचसेवनइत्यस्यानुदात्तेतोऽनेकार्थत्वाद्धातूनां समवाये वृत्तिरिति पुरुषकारे तु हरदत्तोक्तमनुक्रम्य सचतइति भाष्यानौचित्यात्परस्मैपदिषु पाठोऽयुक्त इत्युक्तम् एवं षच सेचनइत्यस्यानुदात्तेतोऽनेकार्थत्त्वाद्धानां समवाये वृत्तिरिति हरदत्तोक्तं प्रौढिवादमात्रम् न्यासे तु सचतइत्यस्य समवायइत्येव धातुरुक्तः, एवञ्च षचेत्येव परस्मैपदिषु पाठः चान्तकाण्डं चैवमनुसृतं भवति एवमेव मैत्रेयरक्षितादयः शाकटायनक्षीरस्वामिनौ तु सप्तसप्तीश्चोदाहृत्य सचेति कश्चित्पठतीत्याहतुः ( सचति ) सचतइत्यप्याहेत्युक्तम् एवं न्यासकारादीनां बहूनामभिमतत्वादयं धातुरस्माभिः पठितः अयं पचिं पचिमित्यादौ व्याघ्रभूतिकारिकायां चकारान्तानामनिटां परिगणनात्सेट् अनिटां मध्ये पाठस्तु स्वरितेत्त्वसाम्यात् (सचति ससाच सेचतुः सेचिथ सेचिव सचिता सचिष्यति असचत् सचेत् आशिषि सच्यात् असचीत् असाचीत् ) "अतो हलादेः'' इति वा वृद्धिः (सिसचिषति) "स्तौतिण्योरेव'' इत्यषत्वम् ( सासच्यते सासक्ति साचयति असीषयत् ) सिषाचयिषतीत्यत्र णेः सनि षत्वम् सचतइत्यादि सेचनार्थवत् 978
कृदन्तरूपमाला
Sanskrit
1 {@“षच सेचने”@} 2 ‘सेवनेऽपि’ इति केचित्।
‘सेचने सचते, तच्च समवाये सचत्यपि।’ 3 इति देवः।
“केचित्तु परस्मैपदिभिः सह धातुमेनं पठन्ति… तदेतत् ‘ब्रुविशासिगुणेन यत् सचते’ 4 इति भाष्य- विरोधादयुक्तम्” इति हरदत्तः 5 ‘षप’ इति मैत्रेयशाकटाय- नादयः।
सर्वाण्यपि रूपाणि भौवादिककचतिवत् 6 बोध्यानि।
7 सचिवः, 8 सक्तुः।
प्रासङ्गिक्यः
01
=>
(१८०८)
02
=>
(१-भ्वादिः-१६३। सक। सेट्। आत्म।)
03
=>
(श्लो। ४६)
04
=>
(भाष्यम् १-४-५१)
05
=>
(१-४-५१)
06
=>
(१४४)
07
=>
[[२। सचिवः = अमात्यः। सचतीति सचिः, सहभावः, ‘केशाद् वोऽन्यतरस्याम्’ (५-२-१०९) इति मत्वर्थीयो वप्रत्ययो बाहुलकात् इत्याहुः।]]
08
=>
[[३। औणादिके (द। उ। १-१२२) तुन्प्रत्यये रूपमेवम्। ‘तितुत्र--’ (७-२-९) इती ण्नि- षेधः। सक्तुः = पिष्टविशेषः।]]
1 {@“षच समवाये”@} 2 ‘सेचने समवाये सचते, सचति क्रमात्’ 3 इति देवः।
सर्वाण्यपि रूपाणि भौवादिककचतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८०९)
02
=>
(१-भ्वादिः-९९७। अक। सेट्। उभ।)
03
=>
(श्लो। ४६)
04
=>
(१४४)