| YouTube Channel

षकार (SakAra)

 
Monier Williams Cologne
English
ष—कार
m.
the letter or sound ष,
Prāt.
वाचस्पत्यम्
Sanskrit
षकारः मूर्द्धन्यः ऊष्मवर्णभेदः अस्कोच्चारणस्थानं मूर्द्धाअस्योच्चारणे आभ्यन्तरप्रयत्र विवृतथर्द्धस्पृष्टता “येम-स्पृष्टाः शलस्तधा” शिक्षाक्तेः बाह्यप्रवत्याञ्च विवाराश्वासा-धोषा महाप्राणश्च ऊष्मरूपवायप्रधानत्वादस्य ऊद्मव-र्णता अस्य ध्येयस्वरूपं यथा “षकारं शृणु चार्वङ्गिअष्टकोणमयं सदा रक्तचन्द्रप्रतीकाशं स्वयंपरमकुण्डली ।चतुर्वर्गमयं वर्णं सुधानिर्मितविग्रहम् पञ्चदेवषयंवर्णं पञ्चप्राणमयं सदा रस्तःसत्त्वतमोयुक्तं त्रिशक्ति-सहितं सदा त्रिबिन्दुसाहतं वर्णमात्मादितत्त्वसंयुतम् ।सर्वदेवमयं वर्णं हृदि भावय पार्वति!” कामधेनुतन्त्रम् ।एताधष्ठानदेवताध्यानं यथा “चतुर्भुजां चकोराक्षींचारुचन्दनचर्चिताम् शुक्लवर्णां त्रिनयनां वरदाञ्चशुचिस्मिताम् रत्नालङ्कारमूषाढ्यां श्वेतमाल्योपशो-भिताम् देववृन्दैरभिबन्द्यां सेवितां मोक्षकाङ्क्षिभिः ।एव ध्यात्वा षकारन्तु तन्मन्त्रं दशधा जपेत् वर्णोद्धा-रतन्त्रम् अस्य वाचकशब्दा यथा “षः श्वेतो वासुदेवश्चपिता प्रज्ञा विनायकः परमेष्ठो वामबाहुः श्रेष्ठोगर्भविमोचनः लम्बोदरो यमोऽजेशः कामधुक् काम-चूमकः सुश्रीरूष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियःशिवः सूर्य्यात्मा जठरः कोषो माता रक्षोविदारिणी ।कलकण्ठो मध्यभिन्ना युद्धात्मा मलपूः शिवाः” वर्णाभि-धानम् “मकारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञरुः ।पित्तं शक्तिश्च माया महायानिः स्वबिन्दुमत्” भन्त्रा-निषनम् मातृकान्यासेऽस्य जठरे न्यास्यता काव्यादौप्रयोगेऽण फलम् स्वेदः “शः मुखं षस्तु स्वेटम्” वृ० र० टी०अत्र षादिशब्देषु षादितया ये धातवः पठितास्तेषांप्रयोगकाले दन्त्यसादित्वं सति निमित्तं पुनः षत्वम्यथा षिध सेधति निधेधति “पट्टवर्गस्तवर्गस्वः” इत्युक्तेःयस्य प्रयोगकाले सत्वे तन्निमित्तटवर्गल तवर्गाविर्भवः यथाष्टु स्तु स्तौति ष्ठास्था वस्थौ ष्णा स्ना स्नाति निमित्तेसति षत्वे टुत्वे प्रतिष्टौति प्रतिष्ठा निष्ठा निष्णाति ।तत्र ष्ट्यैष्वक्कष्ठिवान्तु सादेशस्तेन ष्ट्यायति ष्वक्कति ष्ठीव-तीत्येवेतेत्ति भेदः ष्ठिवपर्युदासे ष्ठीवधातोरपि पर्युदासः
षकार
पु०
+ स्वरूपे कार षस्वरूपवर्णे कामधेनुतन्त्रे उदा०