| YouTube Channel

श्वेतद्वीपः (zvetadvIpaH)

 
Apte Hindi
Hindi
श्वेतद्वीपः
पुं*
श्वेतः-द्वीपः -
इस महाद्वीप के अठारह लघु प्रभागों में से एक
Wordnet
Sanskrit
Synonyms:
श्वेतद्वीपः, श्वेतद्वीपम्
noun
पौराणिकः द्वीपविशेषः।
"श्वेतद्वीपः क्षीरसागरस्य समीपे अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
श्वेतद्वीपः,
पुं,
क्ली,
(श्वेतो द्वीपः ।) चन्द्रद्वीपः ।स वैकुण्ठाख्यविष्णुधाम यथा, --“श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।तत्र हायमभूत् प्रश्नस्त्वं मां यमनुपृच्छसि
”इति श्रीभागवते १० स्कन्धे ८७ अध्यायः
अपि ।“एकदा ब्रह्मणो लोकादायान्तं नारदं मुनिम् ।पर्य्यटन् रावणो लोकान् दृष्ट्वा नत्वाब्रवीद्वचः
भगवन् ! ब्रूहि मे युद्धं कुत्र सन्ति महाबलाः ।योद्धुमिच्छामि बलिभिस्त्वं जानासि जगत्त्रयम्
मुनिर्ध्यात्वा तु सुचिरं श्वेतद्वीपनिवासिनः ।महाबला महाकायास्त त्र याहि महामते
विष्णुपूतारता ये वै विष्णुना निहताश्च ये ।त एव तत्र संजाता अजेयाश्च सूरासुरैः
श्रुत्वा तद्रावणो वेगान्मन्त्रिभिः पुष्पकेण तान् ।याद्धुकामः समागत्य श्वेतद्वीपसमीपतः
तत्प्रभाहततेजस्कं पुष्पकं नाचलत्ततः ।त्यक्त्वा विमानं प्रययौ मन्त्रिणश्च दशाननः
प्रविशन्नेव तद्द्वीपं धृतो हस्तेन योषिता ।पृष्टश्च त्वं कुतः कोऽसि प्रेषितः केन वा वद
इत्युक्तो लीलया स्त्रीभिर्हसन्तीभिः पुनः पुनः
कृच्छ्राद्धस्ताद्बिनिर्म्मुक्तस्तासां स्त्रीणां दशाननः
आश्चर्य्यमतुल लब्ध्वा चिन्तयामास दुर्म्मतिः ।विष्णुना निहतो यामि वैकुण्ठमिति निश्चितः
मयि विष्णुर्यथा कुप्येत्तथा कार्य्यं करोम्यहम्
इति निश्चित्य वैदेहीं जहार विपिनेऽसुरः
ज्ञात्वैव परमात्मानं जहारावनीसुताम्
”इति श्रीब्रह्माण्डपुराणे श्रीमदध्यात्मरामायणेउत्तरकाण्डे अध्यायः
अन्यच्च ।“श्वेतां गङ्गां नरः स्नात्वा यः पश्येत् श्वेत-माधवम् ।मत्स्याक्षं माधवञ्चैव श्वेतद्वीपं गच्छति
”इति तीर्थचिन्तामणिः