| YouTube Channel

श्वेतगुञ्जा (zvetaguJjA)

 
Monier Williams Cologne
English
श्वेत—गुञ्जा
f.
a white variety of Abrus Precatorius,
L.
शब्दकल्पद्रुमः
Sanskrit
श्वेतगुञ्जा,
स्त्री,
(श्वेता गुञ्जा ।) शुक्लगुञ्जा ।सादा कुँच इति भाषा तत्पर्य्यायः श्वेत-काम्बोजी भृण्टिका काकादनी काक-पीलुः चक्रशल्या चूडाला अस्यागुणाः तीक्ष्णत्यम् उष्णत्वम् तस्या बीजंवान्तिकरम् तस्याः शिफा शूलविषनाशिनी ।तस्याः पत्रं वश्ये शस्तम् इति राजनिर्घण्टः
अपि ।“श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सास्मृता ।रक्ता सा काकचिञ्ची स्यात् काकनन्ती चरक्तिका
काकादनी काकपीलुः सा स्मृताङ्गारवल्लरी ।गुञ्जाद्वयन्तु कश्यं स्यात् वातपित्तज्वरापहम्
मुखशोषभ्रमश्वासतृष्णामदविनाशनम् ।नेत्रामयहरं वृष्यं बल्यं कण्डूं व्रणं हरेत् ।कृमीन्द्रलुप्तकुष्ठानि रक्ता धवलापि
”इति भावप्रकाशः
अन्य्यच्च ।“गुञ्जा शिखण्डिका ताम्रा रक्तिका काक-शान्तिका ।श्वेतान्या चक्रिका चूडा दुमाषा काकपीलुका
युञ्जा केश्या बलकरा रुच्या पित्तकफापहा ।नेत्रामयहरा वृष्या हन्ति कण्डुग्रहव्रणान् ।कृमीन्द्रलुप्तकुष्ठानि तद्वच्छ्वेतापि शस्यते
”इति मदनपालनिर्घण्टः
वाचस्पत्यम्
Sanskrit
श्वेतगुञ्जा स्त्री कर्म० शुभ्रगुञ्जायां राजनि० गुञ्जाशब्दे २५९ पृ० दृश्यम्