| YouTube Channel

श्वेतकेतुः (zvetaketuH)

 
Apte Hindi
Hindi
श्वेतकेतुः
पुं*
श्वेतः-केतुः -
बौद्ध श्रमण या जैनसाधु
Wordnet
Sanskrit
Synonyms:
श्वेतकेतुः
noun
ऋषिविशेषः यः उद्दालकस्य पुत्रः आसीत्।
"श्वेतकेतुः अष्टावक्रस्य मातुलः आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
श्वेतकेतुः,
पुं,
(श्वेतः केतुर्यस्य ।) बुद्धः इतित्रिकाण्डशेषः
केतुग्रहविशेषः यथा, --“केतवो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते ।ऊर्म्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः
श्वेतकेतुर्यदा दृश्येत् श्वेतास्थि कुरुते महीम् ।तदा मानुषमांसानि भक्षयन्तीह मानुषाः
क्षुद्भयार्त्तं जगत् कृतस्वं चक्रवद्भ्रमते तदा
”अपि ।“श्वेतः शस्त्राकुलं कुर्य्यात्लोहितस्त्वग्निजं भयम्क्षुद्भयं पीतकः कुर्य्यात् कृष्णो रोगमथोल्वणम्
”अन्यच्च ।“अवन्ती पुष्करारण्यं यावद्धन्यात्तथापरान् ।देशान् कचित् कृचिद्रोगदुर्भिक्षैः परिपीडितान्श्वेताख्यस्तु जटाकारी श्यामो व्योमत्रिभा-गगः ।निवर्त्ततेऽपसव्येन त्रिभागीकुरुते प्रजाः
”इति समयामृतम्
(मुनिविशेषः यथा, महाभारते ।“उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः
”स तु उद्दालकमुनेः पुत्त्रः पुरा किल नार्य्यःप्रायशः पूर्वपतिं परित्यज्य पत्यन्तरं जगृहुः ।अनेन तु तद्दोषमपाकृष्य समाजमर्य्यादास्थापिता यथा, महाभारते १२२ -- २०“बमूवोद्दालको नाम महषिरिति नः श्रुतम् ।श्वेतकेतुरितिख्यातः पुत्त्रस्तस्याभवन्मुनिः
मर्य्यातेयं कृता तेन धर्म्या वै श्वेतकेतुना ।कोपात्कमसपत्राक्षि ! यदर्थं तं निबोध मे
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ।जग्राहं ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत्
ऋषिपुत्त्रस्ततः कोपं चकारामर्षचोदितः ।मातरं तां तथा दृष्ट्वा नीयमानां बलादिव
क्रूद्धं तन्तु पिता दृष्ट्वा श्वेतकेतुमुवाच ।मा तात कोप कार्षीस्त्वमेष धर्म्मः सनातनः
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ।यथा गावः स्थितास्तात स्वे स्वे वर्णे तथाप्रजाः
ऋषिपुत्त्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे ।चकार चैव मर्य्यादामिमां स्त्रीपुंसयोर्भुवि
मानुषेषु महाभागे त्वेवान्येषु जन्तुषु ।तदाप्रभृति मर्य्यादा स्थितेयमिति नः श्रुतम्
व्युच्चरन्त्याः पतिं नार्य्या अद्यप्रभुति पातकम् ।भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम्
भाय्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ।पतित्रतामेतदेव भविता पातकं भुवि
पत्या नियुक्ता या चैव पत्नी पुत्त्रार्थमेव ।न करिष्यति तस्याश्च भविष्यति तदेव हि
इति तेन पुरा भीरु मर्य्यादा स्थापिता बलात्उद्दालकस्य पुत्त्रेण धर्म्म्या वै श्वेतकेतुना
”)