| YouTube Channel

श्विदि (zvidi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
श्विन्द्
मूलधातुः:
श्विदि
धात्वर्थः:
श्वैत्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
श्विन्दते
धातुप्रदीपः
Sanskrit
श्विदिँ श्विदि श्वैत्ये
- शैत्य इत्येके श्विन्दते शिश्विन्दे ।। 10 ।।
क्षीरतरङ्गिणी
Sanskrit
श्विदिँ श्विदि श्वैत्ये
(अर्थविवरणम्) श्वेतगुणक्रियायाम्
श्विन्दते प्रासादः श्वेतगुणः सिद्धोऽपि आख्यातेन साध्यैकरूप उच्यते, कृता तु साध्योऽपि धात्वर्थः सिद्धतया पाकादिवत्, शब्दशक्तिस्वाभाव्यात् 10
धातुवृत्तिः
Sanskrit
श्विदिँ श्विदि (अर्थः) श्वैत्ये
अकर्मकः श्वेतस्य गुणस्यापि धातुना साध्यतया क्रमिकतया वाभिधानात् क्रियात्वम् यदाह
श्वेततेः श्वेत इत्येतत् श्वेतत्वेन प्रकाश्यते आश्रितक्रमरूपत्वादभिधानं प्रवर्त्तते
इति पूर्ववन्नुमागमः ( श्विन्दते ) इत्यादि स्कुन्दिवत् 10
कृदन्तरूपमाला
Sanskrit
1 {@“श्विदि श्वैत्ये”@} 2 ‘-- शैत्ये’ इति जैन-कातन्त्रौ।
‘श्वेतस्य गुणस्यापि धातुना साध्यतया क्रमिकतया चाभिधानात् क्रियात्वम्।
यदाह-- ‘श्वेततेः श्वेत इत्येकं श्वेतत्वेन प्रकाश्यते।
आश्रितक्रमरूपत्वादभिधानं प्रवर्तते।।’ 3 इति’ इति माधवः।
शिवन्दकः-न्दिका, शिश्विन्दिषकः-षिका, इत्यादिकानि रूपाणि सर्वाण्यपि क्लिन्दतिवत् 4 ज्ञेयानि।
5
प्रासङ्गिक्यः
01
=>
(१८०५)
02
=>
(१-भ्वादिः-१०। अक। सेट्। आत्म।)
03
=>
(वाक्यपदीयम् ३-३)
04
=>
(२८४)
05
=>
[पृष्ठम्१३३३+ २५]