| YouTube Channel

श्वयिता-त्री (zvayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“2 श्वि गतिवृद्ध्योः”@} 3 यजादिः।
श्वायकः-यिका, श्वायकः-यिका, शिश्वयिषकः-षिका, 4 शेश्वीयकः-शोशूयकः-यिका
श्वयिता-त्री, श्वाययिता-त्री, शिश्वयिषिता-त्री, शेश्वीयिता-शोशूयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककिधातुवत् 5 बोध्यानि।
6 शूनः- 7 उच्छूनः-शूनवान्, 8 उदश्वित्, 9 श्वयथुः, 10 इति निपातनात् साधुः।
मातरि = सर्वस्य परिच्छेत्तरि आकाशे श्वयति = वर्धते इति मातरिश्वा वायुः।
‘तत्पुरुषे कृति--’ 11 इति सप्तम्या अलुक्।]] श्वा-मातरिश्वा, 12 शवः, 13 श्वयीचिः, इत्यादीनि विशेषरूपाणि।
14 शेश्वीयमानः।
प्रासङ्गिक्यः
01
=>
(१८०३)
02
=>
[टु अओ]
03
=>
(१-भ्वादिः-१०१०। सक। अक। सेट्। पर।)
04
=>
[[५। यङन्ते ‘विभाषा श्वेः’ (६-१-३०) इति सम्प्रसारणविकल्पः। सम्प्रसारणपक्षे पूर्वरूपहलादिशेषादिषु शोशूयकः इत्यादीनि रूपाणि। सम्प्रसारणाभावपक्षे शेश्वीयकः इत्यादीनि रूपाणीति ज्ञेयम्।]]
05
=>
(१८९)
06
=>
[[६। निष्ठायाम् यजादित्वात् (६-१-१५) सम्प्रसारणम्, ‘श्वीदितः--’ (७-२-१४) इतीण्निषेधः। ‘ओदितश्च’ (८-२-४५) इति निष्ठातकारस्य नकारः। अत्र न्यासः “ओदितश्च’ (८-२-४५) इति ओदितोऽनन्तरस्य निष्ठातकारस्य नत्वविधानादेवेडभा- वस्य सिद्धेः श्वयतिग्रहणं (७-२-१४ सूत्रे इति शेषः) शक्यमकर्तुम्” इति। ‘वैचि- त्र्यार्थम् ग्रहणम्’ इति समाहितं च। परं तु ‘ओ लडि’ इत्यादिषु व्यवहितेऽपि निष्ठानत्वस्य कैश्चिदङ्गीकृतत्वात् तद्वदत्र मा भूदित्येवमर्थं ग्रहणमिति युक्तं समाधानम्।]]
07
=>
[पृष्ठम्१३३२+ ३०]
08
=>
[[१। उदकेन श्वयतीति उदश्वित् तक्रम्। क्विपि, तुकि रूपमेवम्। ‘उदकस्योदः संज्ञायाम्’ (६-३-५७) इति उदकशब्दस्य उदादेशः। ‘उदश्वितोऽन्यतरस्याम्’ (४-२-१९) इति निर्देशसामर्थात् यजादित्वेऽपि सम्प्रसारणं क्विब्विषये इत्यव- धेयम्।]]
09
=>
[[२। ‘ट्वितोऽथुच्’ (३-३-८९) इत्यथुच्प्रत्ययो भावे। श्वयथुः = कुष्ठरोगविशेषः। ‘रोगाख्यायाम्--’ (३-३-१०८) इति ण्वुलोऽपवादोऽप्ययमिति केचित्।]]
10
=>
[[३। श्वयति = गच्छति निरन्तरमिति श्वा = शुनकः। ‘श्वनुक्षन्--’ [द। उ। ६-५५]
11
=>
(६-३-१४)
12
=>
[[४। श्वयति सन्त्यक्तः प्राणिभिरिति शवः इति दशपाद्युणाद्याम् (९-५३) उक्तम्। ‘शवतिर्गतिकर्मा कम्बोजेषु, विकार एवैनमार्याः प्रभाषन्ते’ (पस्पशाह्निके) इति भाष्यविरोधादेतदुपेक्ष्यम्।]]
13
=>
[[५। श्वयति वर्धते इति श्वयीचिः चन्द्रमाः। औणादिके (द। उ। १-४०) ईचिप्रत्यये साधुः।]]
14
=>
[[आ। ‘आबद्धभीमभ्रुकुटिविभङ्गः शोश्वीयमानारुणरौद्रनेत्रः।’ भ। का। ३-३०।]]