| YouTube Channel

श्लोकृ (zlokR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
श्लोक्
मूलधातुः:
श्लोकृ
धात्वर्थः:
सङ्घाते (स चेह ग्रथ्यमानस्य व्यापारो ग्रन्थितुर्वा)
गणः:
भ्वादिः
कर्मकत्वं:
ग्रन्थ्यमाने अकर्मकः, ग्रन्थितुः सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
श्लोकते
धातुप्रदीपः
Sanskrit
श्लोकृँ श्लोकृ संघाते
- श्लोकते अशुश्लोकत् श्लोकः ।। 75 ।।
क्षीरतरङ्गिणी
Sanskrit
श्लोकृँ श्लोकृ संघाते
संहनने, संहन्यमाने श्लोकते श्लोकः श्लोकः पद्ये यशसि 74
धातुवृत्तिः
Sanskrit
श्लोकृँ श्लोकृ (अर्थः) संघाते
( श्लोकते )(अर्थविवरणम्) संघातो ग्रन्थः
, चेदं पठ्यमानव्यापार इति स्वाम्यादयः काश्यपादयस्तु ग्रन्थितृव्यापार इति मथ्नातिवत्सकर्मक इति, श्लोकैरुपस्तौति, उपश्लोकयति "सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्'' इति णिच् 77
कृदन्तरूपमाला
Sanskrit
1 {@“श्लोकृ सङ्घाते”@} 2 ‘संघातः = ग्रन्थः’ इति सायणः।
‘--संघाते वर्जने सर्जने’ इति वोपदेवः।
‘-- संघाते--संहनने, संहन्यमाने च’ इति क्षीरस्वामी।
‘संघातो--ग्रन्थः।
चेह ग्रथ्यमानव्यापार इति स्वाम्यादयः।
काश्यपादयस्तु ग्रन्थितृव्यापारः इति ग्रथ्नातिवत् सकर्मकः इति’ धातुवृत्तावुक्तम्।
सर्वाण्यपि रूपाणि केपतिवत् 3 ज्ञेयानि।
‘स चेह ग्रथ्यमानस्य व्यापारो ग्रन्थितुर्वा।
आद्येऽकर्मको द्वितीये सकर्मकः’ इति सिद्धान्तकौमुदी।
प्रासङ्गिक्यः
01
=>
(१७८९)
02
=>
(१-भ्वादिः-७७। सक। सेट्। पर।)
03
=>
(२६१)