| YouTube Channel

श्लेष्मा (zleSmA)

 
Wordnet
Sanskrit
Synonyms:
कफः, श्लेष्मा, श्लेष्मकः, क्लेदनः, क्लेदकः, बलहा, खटः, निद्रासञ्जननम्, स्येदुः
noun
उद्कासनादिकाले मुखे आगतः उपलेपः।
"यदा सः उद्कासते तदा तस्य मुखात् कफः आगच्छति।"
शब्दकल्पद्रुमः
Sanskrit
श्लेष्मा, [न्]
पुं,
श्लिष + “सर्व्वधातुभ्यो मणिन् ।”उणा० १४४ इति मणिन् ।) कफः ।इत्यमरः
तस्य प्रकोपहेतुर्यथा, --“गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्य-द्रवदधिदिननिद्रापूपमर्पिःप्रपूरैः ।तुहिनपतनकाले श्लेष्मणः संप्रकोपःप्रभवति दिवसादौ भुक्तमात्रे वसन्ते
*
तस्य लक्षणं यथा, “स्तैमित्यं मधुरास्यता शिशिरता शौक्ल्यंप्रसेको मल-प्राचुर्य्यं स्थिरता रसश्च लवणः कण्डूरतिस्वल्पताआलस्यं चिरकारिता कठिनता शोथारुचिःस्निग्धतातन्द्रा तृप्त्युपदेहकासगुरुता एताः कफोक्तारुजः
*
अस्य प्रशमताकारणं यथा, --“गुरुशीतमृदुस्निग्धं मधुरस्थिरपिच्छिलाः ।श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः
रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन-स्त्रीसेवाध्वनियुद्धजागररतिक्रीडापदाघातनम्धूमात्युष्णशिरीविरेकवमनस्वे दोपनाहादिकंपानाहारविहारभेषजमिदं श्लेष्माणमुग्रंजयेत्
*
पञ्चविधो यथा, --“अवलम्बक इत्येकः क्लेदकः श्लेष्मकोऽपरः ।बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः
*एतेषां लक्षणानि यथा, --“कफधाम्नान्तु शेषाणां यत् करोत्यवलम्बनम् ।ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नोत्युरःस्थितः
आमाशयाश्रितः सोऽन्नक्ले दनात् क्लेदकःस्मृतः
श्लेष्मकः श्लेषणात् सन्धेः सन्ध्यां व्यव-स्थितः
रसनावस्थितस्त्वेष बोधको रसबोधनात् ।शिरसि प्रस्थितश्चासौ तर्पको नेत्रतर्पणात्
अस्य स्थानानि ।“उरःकण्ठशिरःक्लोमपर्व्वाण्यामाशयो रसः ।मेदो घ्राणञ्च जिह्वा कफस्थानमुरः परम्
”तत्प्रकृतिकलक्षणम् यथा, --“गम्भीरबुद्धिः स्थूलाङ्गः स्निग्धकेशो महाबलः ।स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः
*
स्नेहो बन्धः स्थिरत्वञ्च गौरवं वृष्यता बलम् ।”क्षमा धृतिरलोभश्च कफकर्म्माविकारजम्
”इति सुखबोधः
*
श्लेष्मकरद्रव्याणि यथा, --“भोजनानन्तरं स्नानं जलपानं विना तृषा ।तिलतैलं स्निग्धतैलं स्निग्धमामलकीद्रवम्
पर्य्युषितान्नं तक्रञ्च पक्वरम्भाफलं दधि ।मायाम्बुशर्करातोयं सुस्निग्धस्थलसेवनम्
नारिकेलोदकं रूक्षस्नानं पर्य्युषितं जलम् ।तरुमुञ्जापक्वफलं सुपक्वकर्कटीफलम्
खातस्नानञ्च वर्षाषु मूलकं श्लेष्मकारणम् ।तज्जलत्वं ब्रह्मरन्ध्रे महद्वीर्य्यविनाशनम्
*
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः
अपिच एरण्डतैलम् अनूपदेशवारि २वार्षिकपानीयम् पाल्वलजलम् सामान्य-शालिधान्यम् माषः अतसी नूतनधान्यम् ८मधुरनारीचशाकम् कञ्चटशाकम् १०कलम्बीशाकम् ११ उत्पदिकाशाकम् १२मध्यमकुष्माण्डफलम् १३ अलावुफलम् १४शीर्णवृन्तफलम् १५ चेलानम् १६ दीर्घपटो-लिका १७ अलावुनाडिका १८ पिण्डालुकम् १९करीषपलालक्षितिवेणुभ्यो जातं छत्रिका-शाकम् २० विशेषतः पलालजातसंस्वेदज-शाकम् २१ मधुकुक्कुटिका २२ बहुवार-फलम् २३ बालाम्लिकाफलम् २४ चीरुकम् २५पक्वकण्टाफलम् २६ कण्टाफलास्थि २७ पक्व-कदलम् २८ तावन्मत्स्यः २९ पाण्डरमत्स्यः ३०क्वथितमत्स्यः ३१ लवणभावितमत्स्यः ३२ भाकुट-मत्स्यः ३३ पाठीनमत्स्यः ३४ शिलिन्दमत्स्यः ३५मेकलिमत्स्यः ३६ गरमत्स्यः ३७ कर्णफलमत्स्यः ३८इल्लिशमत्स्यः ३९ शृङ्गीमत्स्यः ४० चिङ्गट-मत्स्यः ४१ वाचमत्स्यः ४२ चिङ्गटीमत्स्यः ४३गवाचीमत्स्यः अर्थात्पाँकालमत्स्यः ४४ कुलिङ्गपक्षिमासम् ४५ तावत्क्षीरम् ४६ आम-दुग्धम् ४७ आविकदधि ४८ माहिषदधि ४९स्वादुदधि ५० अत्यम्लदधि ५१ तावद्घृतम् ५२माहिषघृतम् ५३ तावदिक्षुः ५४ विशेषतोभीरुनामकेक्षुः ५५ कान्तारीक्षुः ५६ इक्षुः-फाणितम् ५७ इक्षुखण्डः ५८ नवान्नम् ५९चिपिटः ६० घृतपूरः ६१ पायसः ६२ शस्कुली ६३सरसगुवाकफलम् ६४ मधुररसः ६५ अति-शयाम्लभोजनम् ६६ लवणरसः ६७ शीतवीर्य्य-द्रव्यम् ६८ कुन्दुकपुष्पम् ६९ यूथिकापुष्पम् ७०वन्धूकपुष्पम् ७१ तावज्जन्तुरसः ७२ तावज्जन्तु-मज्जा ७३ इति द्रव्यगुणात् संगृहीतम्
श्लेष्मनाशकद्रव्याणि यथा, --“वह्निस्वेदं भृष्टभङ्गं पक्वतैलं विशोषकम् ।भ्रमणं शुष्कभक्ष्यञ्च शुष्कपक्वहरीतकी
पिण्डारकमपक्वञ्च रम्भाफलमपक्वकम् ।वेशवारसिन्धुवारमनाहारमपानकम्
सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम् ।मरीचं पिप्पलीं शुष्कमार्द्रकं जीरकं मधु ।द्रव्याण्येतानि गन्धर्व्वि ! सद्यःश्लेष्महराणि
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः
*
अपि सार्षपतैलम् तैलाभ्यङ्गः उद्व-र्त्तनम् शैशिरजलम् वाप्यजलम् कौप-जलम् नैर्झरजलम् नादेयजलम् ८सामान्योष्णोदकम् विशेषतः पादशेषोष्णो-दकम् १० पेषितवचामुस्तकसंयुक्तजलस्नानम् ११अगुरु १२ कुङ्कु मम् १३ पत्रकम् १४ कक्को-लम् १५ शटी १६ दग्धभूमिजातशालि-धान्यम् १७ अतिरोप्यधान्यम् १८ यवः १९श्यामाकधान्यम् २० कोद्रवधान्यम् २१ कङ्गु-धान्यम् २२ हस्तिश्यामाकधान्यम् २३ चीनक-धान्यम् २४ मुद्गः २५ मुकुष्टम् २६ राजमाषः २७मसूरः २८ चणकः २९ कुलत्थः ३० तुवरी ३१नानाशिम्बा ३२ जलसंयोगिसामान्यशुष्क-नारीचपत्रशाकम् ३३ हिलमोचीशाकत् ३४शालञ्चीशाकम् ३५ ग्रीष्मसुन्दरशाकम् ३६पूनर्नवाशाकम् ३७ कलायशाकम् ३८ ब्रह्मी-शाकम् ३९ चाङ्गेरीशाकम् ४० पृक्काशाकम् ४१पालङ्कीशाकम् ४२ चणकपत्रशाकम् ४३कौसुम्भशाकम् ४४ ओषणीशाकम् ४५ महा-राष्ट्रीशाकम् ४६ कदलीमोचकम् ४७ क्षुद्र-वार्त्ताकुफलम् ४८ अङ्गारपक्ववार्त्ताकुः ४९पाण्डुरङ्गफलम् ५० कारवेल्लफलम् ५१ कर्क्को-टकफलम् ५२ पटोलनाडी ५३ कुष्माण्ड-नाडिका ५४ वेत्राग्रम् ५५ शूरणः ५६ केचुक-मूलम् ५७ घृततैलाभ्यां सिद्धं मूलम् ५८मूलकपुष्पम् ५९ खण्डकर्णः ६० मूलकफलम् ६१वाराहीकन्दमूलम् ६२ आम्रपेषी ६३ अम्लरस-दाडिमम् ६४ मातुलुङ्गत्वक् ६५ लिम्पाकम् ६६जम्बीरम् ६७ कर्कन्धुः ६८ शुष्कसमस्तकोल-फलम् ६९ अञ्जीरम् ७० जवनालम् ७१लवलीफलम् ७२ जाम्बवम् ७३ पक्वाम्लिका-फलम् ७४ पक्वतिन्दुकम् ७५ अम्लवेतसम् ७६महार्द्रम् ७७ करुणम् ७८ कोचाम्रफलम् ७९तालास्थिमज्जा ८० बालविल्वम् ८१ विल्व-पेषिका ८२ धात्री ८३ विभीतकम् ८४ विभीत-मज्जा ८५ धात्रीमज्जा ८६ नन्द्यावर्त्तमत्स्यः ८७कवयीमत्स्यः ८८ एलङ्गमत्स्यः ८९ दण्डिक-मत्स्यः ९० त्रिकण्टमत्स्यः ९१ प्रोष्ठीमत्स्यः ९२मत्स्याण्डम् ९३ कूर्म्माण्डम् ९४ खगाण्डम् ९५एणमांसम् ९६ खङ्गिमांसम् ९७ कूर्म्मपादः ९८कपिञ्जलमांसम् ९९ वर्त्तिकापक्षिमांसम् १००प्रसन्नामद्यम् १०१ अरिष्टमद्यम् १०२ अर्घ्य-मध् १०३ पुराणमधु १०४ नूतनमधु १०५मेषोक्षीरम् १०६ उष्ट्रीक्षीरम् १०७ शृतोष्ण-दुग्धम् १०८ छागदधि १०९ हास्तिनदधि ११०दधिमस्तुः १११ दधिसरः ११२ मथिततक्रम ११३आविकघृतम् ११४ औष्ट्रकघृतम् ११५ पक्वेक्षु-रसः ११६ हिङ्गु ११७ जीरकम् ११८वास्पिका ११९ शुष्कधन्याकम् १२० कासुन्दी-वटिका १२१ हरिद्रा १२२ यमानी १२३शुष्कपिप्पली १२४ आर्द्रपिप्पली १२५ शुण्ठी१२६ आर्द्रकम १२७ सर्षपः १२८ सिद्धार्थः १२९पलाण्डुः १३० गुडत्वक् १३१ पत्रम् १३२ यव-क्षारः १३३ सर्ज्जिकाक्षारः १३४ टङ्कण-क्षारः १३५ मण्डः १३६ भृष्टतण्डुलः १३७लाजाः १३८ लाजमण्डः १३९ अपक्वयव-शक्तुः १४० वाट्यमण्डः तु भृष्टयवमण्डः १४१मुद्गयूषः १४२ रागयूषः दाडिमद्राक्षा-युक्तमु द्गयूषः १४३ मसूरयूषः १४४ कुलत्थ-यूषः १४५ खडयूषः १४६ काम्बलिकयूषः तुलवणघृतादितिलमाषमिश्रितपक्वदधि १४७पलालवेष्टित-कर्दम-लेपिताङ्गार-दग्धलवणवेशवारपुरस्कृतसार्द्रककटुतैलसन्तोलितमत्स्यः १४८प्रदिग्धम् १४९ शालिपिष्टकम् १५० ताम्बू-लम् १५१ चूर्णम् १५२ खदिरः १५३ एला १५४जातीफलम् १५५ कर्पूरम् १५६ कटुरसः १५७तिक्तरसः १५८ कषायरसः १५९ उष्णस्वभाव-द्रव्यम् १६० मालतीपुष्पम् १६१ मल्लिका-पुष्पम् १६२ पद्मपुष्पम् १६३ वकुलपुष्पम् १६४पुन्नागपुष्पम् १६५ कह्लारपुष्पम् १६६ उत्पेल-पुष्पम् १६७ पाटलपुष्पम् १६८ चम्पकपुष्पम् १६९रात्रिजागरणम् १७० विल्वमूलम् १७१पाटला १७२ शालपर्णी १७३ पृश्निपर्णी १७४एरण्डमूलम् १७५ कण्टकारिका १७६विशाला १७७ लोध्रः १७८ भृङ्गराजः १७९केशराजः १८० द्रोणपुष्पी १८१ झिण्डी १८२वचा १८३ शक्राशनम् १८४ हरिद्रा १८५दार्व्वो १८६ अवल्गुजः १८७ एडगजः १८८रेणुका १८९ भूर्जः १९० आसना १९१ निम्ब-पत्रम् १९२ भूनिम्बः १९३ कुटजः १९४यासः १९५ दुरालमा १९६ कटुकी १९७त्रायन्ती १९८ शृङ्गी १९९ कट्फलम् २००कुष्ठम् २०१ पारिभद्रः २०२ वासकः २०३मधुयुक्तगुडूची २०४ पिप्पलीमुलम् २०५चविका २०६ गजपिप्पली २०७ अर्कः २०८धुस्तूरः २०९ सामान्यगुल्गुलुः २१० नूतन-पुरातनगुग्गुलुः २११ अरुणा त्रिवृता २१२सिता त्रिवृता २१३ सिन्धुवारः २१४ मनो-ऽङ्गा २१५ सौराष्ट्री २१६ ताम्रम् २१७कांस्यम् २१८
इति द्रव्यगुणात् सगृहीतम्