| YouTube Channel

श्लाघृ (zlAghR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
श्लाघ्
मूलधातुः:
श्लाघृ
धात्वर्थः:
कत्थने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
श्लाघते
धातुप्रदीपः
Sanskrit
श्लाघृँ श्लाघृ कत्थने
- श्लाघते श्लाघा ।।113।।
क्षीरतरङ्गिणी
Sanskrit
श्लाघृँ श्लाघृ कत्थने
(अर्थविवरणम्) कत्थनमुत्कर्षाख्यानम्
श्लाघह्नुङ्स्था (1434) इति सम्प्रदानम् - चैत्राय श्लाघते अशश्लाघत् 114
धातुवृत्तिः
Sanskrit
श्लाघृँ श्लाघृ (अर्थः) कत्थने
(अर्थविवरणम्) कत्थनं श्लाघनम्
(देवदत्ताय श्लाघते ) देवदत्तं स्तुवँस्तमेव बोधयितुमिच्छतीत्यर्थः ( सूत्रम्) श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः (इति सूत्रम्) श्लाघ्यादीनां प्रयोगे ज्ञीप्स्यमानो ज्ञापयितुमिष्यमाणः संप्रदानमिति देवदत्ताच्चतुर्थी, केचिदाहुः आत्मानं परं वा स्तुवन् तां स्तुतिं बोधयितुमिच्छतीत्यर्थ इति तथा भट्टिः, श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसेश्वर इति देवदत्तं श्लाघत इति ज्ञीप्स्यमानत्वाविवक्षायां कर्मत्वम् शीकादय उदात्ता अनुदात्तेतो गताः112
कृदन्तरूपमाला
Sanskrit
1 {@“श्लाघृ कत्थने”@} 2 ‘कत्थनम् = उत्कर्षाख्यानम्’ इति स्वामी।
शानचि 3 श्लाघमानः।
‘श्लाघमानः परस्त्रीभ्यस्तत्रागाद् राक्षसेश्वरः’ 4।
इतराणि समस्तान्यपि रूपाणि भौवादिकद्राखतिवत् 5 बोध्यानि।
6
प्रासङ्गिक्यः
01
=>
(१७८५)
02
=>
(१-भ्वादिः-११५। अक। सेट्। आत्म।)
03
=>
[[५। अत्र ‘श्लाघह्नुङ्--’ (१-४-३४) इत्यादिना ज्ञीप्स्यमानस्य = ज्ञापयितुमिष्यमाणस्य सम्प्रदानत्वात् चतुर्थी। आत्मानं स्तुतिबोध्यं प्रकाशयन् राक्षसस्तत्र गत इत्यर्थः।]]
04
=>
(भट्टिः ८-७३)
05
=>
(८७९)
06
=>
[पृष्ठम्१३२८+ २७]