| YouTube Channel

श्रोत्रियः (zrotriyaH)

 
Apte Hindi
Hindi
श्रोत्रियः
पुं*
- -
"विद्वान् ब्राह्मण, धर्मज्ञान में सुविज्ञ "
शब्दकल्पद्रुमः
Sanskrit
श्रोत्रियः,
पुं,
(छन्दोऽधीते इति छन्दस् + श्रोत्रियं-श्छन्दोऽधीते ।” ८४ इति घन्प्रत्ययेनसाधुः ।) वेदाध्येतृव्राह्मणः तत्पर्य्यायः ।छान्दसः इत्यमरः
श्रूयते धर्म्माधर्म्मावनेनइति श्रोत्रो वेदः त्रासुसिति त्रः श्रोत्रं वेत्तिअधीते वा श्रोत्रियः धघे कादिति इयः छन्दो-ऽधीते इत्यर्थे इये छन्दःशब्दस्य श्रोत्रादेशः ।इति परे छन्दो वेत्ति अधीते वा छान्दसः ।इति पूर्वेण ष्णः इति भरतः
*
तस्य लक्षणंयथा, --“जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यतेविद्याभ्यासी भवेद्विप्रः श्रोत्रियस्त्रिभिरेव हि
”इति पाद्मे उत्तरखण्डे ११६ अध्यायः
मानवे मार्कण्डेयपुराणे चाप्येवम्
*
अपिच ।“एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य चषट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित्
इति दानकमलाकरः