| YouTube Channel

श्रुतिधरः (zrutidharaH)

 
शब्दकल्पद्रुमः
Sanskrit
श्रुतिधरः, त्रि, (श्रुत्या श्रवणमात्रेण धरतीति ।धृ + अच् श्रुतिमात्रधारकः श्रवणमात्रे-णाभ्यासकर्त्ता (यथा, गीतगोविन्दे ।“स्पर्द्धी कोऽपि विश्रुतः श्रुतिधरो धोयी कविःक्ष्मापतिः
”)तदौषधं यथा, --हरिरुवाच ।“हस्तिकर्णस्य वै मूलं गृहीत्वा चूर्णयेद्धर ।सर्वरोगविनिर्मुक्तं चूर्णं पलशतं शिव
सक्षीरं भक्षितं कुर्य्यात् सप्ताहेन वृषध्वज ।नरं श्रुतिधरं शूरं मृगेन्द्रगतिविक्रमम्
पद्मगौरप्रतीकाशं युक्तं दशशतायुषा ।षोडशाब्दाकृतिं विप्र सततं दुग्धभोजितम्
मधुसर्पिःसमायुक्तं जग्धमायुष्करं भवेत् ।तज्जग्धं मधुना सार्द्धं दशवर्षसहस्रिणम् ।कुर्य्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम्
”इति गारुडे १९१ अध्यायः