| YouTube Channel

श्रीविद्या (zrIvidyA)

 
Monier Williams Cologne
English
श्री—विद्या
f.
a form of Durgā,
Cat.
exalted science (also
N.
of wk.), ib.
Aufrecht Catalogus Catalogorum
English
श्रीविद्या tantr. Report XXXII. Rice 298 (and C.).
Peters. 2, 198.
श्रीविद्या Trailokyamohanakavacabhāṣya.
श्रीविद्या tantr. Gov. Or. Libr. Madras 100.
शब्दकल्पद्रुमः
Sanskrit
श्रीविद्या,
स्त्री,
(श्रिया विद्या ।) महाविद्यावि-शेषः सा तु त्रिपुरसुन्दरी तस्याः षट्त्रिंश-द्भेदाः ग्रन्थबाहुल्यभिया लिखिताः अथश्रीविद्या तत्र मेरुः ज्ञानार्णवे ।“भुमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्व-मादनौ ।अर्द्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते
महात्रिपुरसुन्दर्य्या मन्त्रा मेरुसमुद्भवाः ।सकला भुवनेशानी कामेशी बीजमुद्धृतम् ।अनेन सकला विद्याः कथयामि वरानने
शक्त्यन्तस्तुर्य्यवर्णोऽयं कलमध्ये सुलोचने ।वाग्भवं पञ्चवर्णाठ्यं कामराजमथोच्यते
मादनं शिवचन्द्राठ्यं शिवान्तं मीनलोचने ।कामराजमिदं भद्रे षड्वर्णं सर्व्वमोहनम्
शक्तिबीजं वरारोहे चन्द्राद्यं सर्व्वमोहनम् ।एतामुपास्य देवेशि कामः सर्व्वाङ्गसुन्दरः ।कामराजो भवेद्देवि विद्येयं ब्रह्मरूपिणी
”अस्यार्थः शक्तिरेकारः तूर्य्य ईकारः तेनककार एकार ईकारलकारमहामाया वाग्-भवकूटम् शिवो हकारः चन्द्रः सकारः तेनहकारमकारलकारमहामाया इति कामराज-कूटम् चन्द्रः सकारः तेन सकारककारलकार-महामाया इति शक्तिकूटम् तेन त्रिभिः कूटैःकामराजविद्येयम्
*
अस्याः ध्यानं यथा, --“बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्पाशाङ्गुशशरांश्चापं धारयन्तीं शिवां श्रये
”एवं ध्यात्वा मानसपूजादिकं कुर्य्यात् इतितन्त्रसारः
वाचस्पत्यम्
Sanskrit
श्रीविद्या स्त्री श्रियै त्रिवर्गाय विद्या त्रिपुरासुन्दर्य्यां तन्त्रसा०