| YouTube Channel

श्रीरामनवमी (zrIrAmanavamI)

 
Monier Williams Cologne
English
श्री—राम—नवमी
f.
the ninth of the light half of the month Caitra (observed as a festival in honour of the birthday of Rāma-candra),
MW.
(-निर्णय
m.
N.
of wk.)
शब्दकल्पद्रुमः
Sanskrit
श्रीरामनवमी,
स्त्री,
(श्रीरामस्य नवमी तज्जन्मदिनत्वात् ।) चैत्रशुक्लनवमी सा श्रीरामस्यजन्मतिथिः
तद्व्रतकथा यथा, --“पुरैकदा सुखासीन ब्रह्माणं जगतां पतिम् ।उवाच सहसागत्य सनकः संजितेन्द्रियः
सनक उवाच ।राज्ञा दशरथेनैव राज्ञ्या कोशल्ययापि वा ।कस्मात् कर्म्मवशाल्लब्धः पुत्त्रोऽसौ जगतीपतिः ।दूर्व्वादलश्यामरामो विस्तार्य्य कथयस्व मे
ब्रह्मोवाच ।साधु पृष्टं त्वया वत्म जगतां हितकारकम् ।पुरा राजा दशरथः कौशल्या समाहितौ
जजाप मन्त्रं दुर्गायाः शिवस्य विशेषतः ।तयोर्जपेन तुष्टः सन् शिवः प्रत्यक्षतां गतः
दशरथ उवाच ।अद्य मे सफलं जन्म अद्य मे सफलं तपः ।अद्य मे सफलं चक्षुर्यतस्त्वमवलोकितः
श्रीशिव उवाच ।किन्ते काम्यं महाराज कथयस्व ददामि तत्
दशरथ उवाच ।देवदेवाप्यपुत्त्रोऽहमिति दुःखेन दुःखितः ।चिरं विचार्य्य मनसा शिवाराधनतत्परः
इति श्रुत्वा महादेवस्तमुवाच दयापरः ।कुरु राजन् वंशयज्ञं ततस्ते जगतीपतिः
श्रीरामनामा पुत्त्रोऽसौ कौशल्यायां भविष्यति ।इत्युक्त्वा तं महादेवस्तयोरन्तर्हितोऽभवत्
*
इति रुद्रमुखात् श्रुत्वा राजा दशरथः सुखी ।ततश्चक्रे वशयज्ञं देव्या सह तत्परः
ततः काले महाराज्ञी गर्भं धत्ते मनोहरम्चैत्रे मासि सिते पक्षे नवम्यां शोभने दिने ।अतिपुण्यसुसंलग्ने जातो रामः स्वयं हरिः ।पुनव्वस्वक्षसंयुक्ता सा तिथिः सर्व्वकामदा ।श्रीरामनवमी प्रोक्ता कोटिसूर्य्यग्रहाधिका
अस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः ।यत्किञ्चित् क्रियते कर्म्म तदक्षयकरं स्मृतम्
उपोषणं जागरणं पितॄनुद्दिश्य तर्पणम् ।तस्मिन् दिने तु कत्तव्यब्रह्मप्राप्तिमभीपसुभिः ।तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितःजपेदेकान्त आसीनो यावत् स्याद्दशमौदिनम्
तेनैव स्यात् पुरश्चर्य्या दशम्यां भोजयेद्धिजान् ।भक्ष्यभोज्यैर्बहुविधैर्भक्त्या दद्याच्च दक्षिणाम् ।कृतकृत्यो भवेत्तेन सद्यो रामः प्रसीदति
यस्तु रामनवम्यान्तु भुङ्क्ते मर्त्यो विमूढधीः ।कुम्भोपाकेषु घोरेषु पच्यते नात्र संशयः
कुर्य्याद्रामनवम्यां उपोषणमतन्द्रितः ।न शेते मातृजठरे स्वयं रामो भवेत्तु सः
श्रीरामनवमी नाम पुण्यात् पुण्यतमय्रतम् ।इति श्रुत्वा सुसंतुष्टः सनकः पुनरब्रवीत् ।विधिना केन कर्त्तव्यं वद मे कमलोद्भव
*
ब्रह्मोवाच ।व्रतपूर्व्वदिने स्नात्वा सकृद्भुक्त्वा निरामिषम् ।त्यक्त्वा योषिच्छयनं शयीत स्थण्डिले कुशे
ब्राह्मे मुहूर्त्ते चोत्थाय कृत्वा प्रातः क्रियां ततः ।प्रातः स्नात्वा शुचिर्भूत्वा सङ्कल्पं विधिनाचरेत्प्रतिमायां घटे वापि पटे वा यन्त्रतोऽपि वा ।शालग्रामशिलायान्तु तुलसीदलकल्पिता
पूजा श्रीरामचन्द्रस्य कोटिकोटिगुणाधिका ।कौशल्या पूजनीयादौ राजा चैव ततः परम्
षडङ्गं पूजयेत्तत्र लक्ष्मणादीन् विशेषतः ।पूजयेत् परया भक्त्या परिवारं ततः परम्
ततो ग्रहांश्च दिक्पालांस्तदस्त्राणि पूजयेत् ।उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौलग्ने कर्क्कटके पुनर्व्वसुदिने मेषं गते पूषणि ।निर्द्दग्धुं निखिलाः पलाशसमिधो मध्यादयो-ध्यारणे-राविर्भूतमभूदपूर्व्वविभवं यत्किञ्चिदेकं महः
ततो वाद्यादिकं कृत्वा दद्यादर्घ्यं विशेषतः ।मूलमन्त्रेण दद्याद्वै भक्त्या पुष्पाञ्जलित्रयम्
एवमष्टसु यामेषु अष्टधा जपेद्व्रती ।इतिहासकथां श्रुत्वा गीतनृत्यैर्निशां नयेत्
ततः परदिने प्रातः स्नानं कृत्वा विधानतः ।रामं दूर्व्वादलश्यामं भक्त्या भक्त्या प्रपूजयेत् ।दक्षिणां विधिवद्दत्त्वा ततोऽच्छिद्रावधारयेत् ।भोजयित्वा ततो विप्रान् स्वयं पारणमाचरेत् ।य इदं शृणुयान्नित्यं पुण्याहे विशेषतः ।बहुपुत्त्रो धनाढ्यश्च अन्ते ब्रह्मत्वमाप्नुयात्
संग्रामे वैरिणो हन्ता सर्वत्र विजयी भवेत्राजद्वारे महाघोरे संग्रामे शत्रुसङ्क ले
दूर्व्वादलश्यामरामस्तस्य रक्षाकरो भवेत्
भक्त्या यः शृणुयाद्रोगी उल्लाषः भवेत् सदाबन्ध्या पुत्त्रवती सा पतिचित्तानुवर्त्तिनी ।सपत्नीदर्पदलनी सा भवेन्नात्र संशयः
दरिद्रो लभते वित्तं भीतो भवति निर्भयः ।यज्ञदानतपांस्यस्य तीर्थस्नानादिकाः क्रियाः
रामनवमी-नाम-व्रतस्यैककला-समाः ।यस्मै कस्मै दातव्यं प्रकाश्यं कदाचन
शिष्याय भक्तियुक्ताय शुचयेऽपि प्रदापयेत् ।शठाय परतन्त्राय विकत्थनरताय
भ्रमादपि वक्तव्यं यदीच्छेदात्मनो हितम् ।मयैतत् कथितं वत्स तव स्नेहाद्व्रतोत्तमम्
इदं कुरुते भक्त्या श्रीरामनवमीव्रतम् ।सर्व्वपापप्रमुक्तश्च अन्ते ब्रह्मत्वमाप्नुयात्
”इति श्रीरामभक्तितरङ्गिण्यां ब्रह्मसनकसंवादेश्रीरामनवमीव्रतकथा समाप्ता