| YouTube Channel

श्रीमूर्ति (zrImUrti)

 
Spoken Sanskrit
English
श्रीमूर्ति zrImUrti
f.
any idol
श्रीमूर्ति zrImUrti
f.
any divine image
श्रीमूर्ति zrImUrti
f.
image or personification of viSNu or of the Supreme Being
Monier Williams Cologne
English
श्री—मूर्ति
f.
‘any divine image’, an image or personification of Viṣṇu or of the Supreme Being
any idol,
MW.
Apte Hindi
Hindi
श्रीमूर्तिः
स्त्री*
श्री-मूर्तिः -
विष्णु या लक्ष्मी की प्रतिमा
श्रीमूर्तिः
स्त्री*
श्री-मूर्तिः -
कोई भी प्रतिमा
L R Vaidya
English
SrI-mUrti {% f. %} an idol.
शब्दकल्पद्रुमः
Sanskrit
श्रीमूर्त्तिः,
स्त्री,
(श्रीयुक्ता मूर्त्तिः ।) देवविग्रहः ।विष्णुप्रतिमा यथा अथ श्रीमूर्त्तयः एका-दशस्कन्धे ।“शैली दारुमयी लौही लेप्या लेख्या मैकतामनोमयी मणिमयी प्रतिमाष्टविधा मता
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।उद्वासावाहने स्तः स्थिरायामुद्धवार्च्चने
अस्थिरायां विकल्यः स्यात् स्थण्डिले तु भवेत्द्वयम् ।स्नपनं त्वविलेप्यायामन्यत्र परिमार्ज्जनम्
गोपालमन्त्रोद्दिष्टत्वात् तच्छ्रीमूर्त्तिरपेक्षिता ।तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्त्तयोऽखिलाः
”अथ श्रीमूर्त्तिलक्षणानि हयशीर्षपञ्चरात्रे ।भगवच्छ्रीहयशीर्षब्रह्मसंवादे ।“आदिमूर्त्तिर्वासुदेवः सङ्कर्षणमथासृजत् ।चतुर्मुर्त्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा
केशवादिप्रभेदेन मूर्त्तिद्वादशकं स्मृतम् ।पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि
वामोपरि गदा यस्य चक्रं चाधोव्यवस्थितम् ।आदिमूर्त्तेस्तु भेदोऽयं केशवेति प्रकीर्त्त्यते
अधरोत्तरभावेन कृतमेतत्तु यत्र वै ।नारायणाख्या सा मूर्त्तिः स्थापिता भुक्ति-मुक्तिदा
सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि ।दक्षिणोर्द्धे गदा यस्य चक्रं चाधोव्यवस्थितम्
आदिमूर्त्तेस्तु भेदोऽयं माधवेति प्रकीर्त्त्यते
दक्षिणाधःस्थितं चक्रं गदा यस्योपरिस्थिता
वामोर्द्ध्वसंस्थितं पद्मं शङ्खं चाधोव्यवस्थितम् ।सङ्कर्षणस्य भेदोऽयं गोविन्देति प्रकीर्त्त्यते
दक्षिणोपरि पद्मं तु गदा चाधोव्यवस्थिता ।सङ्कर्षणस्य भेदोऽयं विष्णुरित्यभिशब्द्यते
दक्षिणोपरि शङ्खञ्च चक्रं चाधः प्रदृश्यते ।वामोपरि तथा पद्मं गदा चाधः प्रदृश्यते ।मधुसूदननामायं भेदः सङ्कर्षणस्य
त्रिविक्रममूर्त्तिमाह ।दक्षिणोर्द्धे गदा यस्य पङ्कजं चाप्यधः स्थितम् ।वामोर्द्धे संस्थितं चक्रमधः शङ्खं प्रदृश्यते ।ब्रह्माण्डगं वामपादं दक्षिणं शेषपृष्ठगम्
श्रोवामनमूर्त्तिमाह ।बलिवञ्चनसयुक्त वामनं चाप्यधःस्थितम् ।वामोर्द्धे कौमोदी यस्य पुण्डरीकमधास्थितम्
दक्षिणोर्द्धं सहस्रारं पाञ्चजन्यमधः स्थितम् ।सप्ततालप्रमाणेन वामनं कारयेत् सदा
ऊर्द्धं दक्षिणतश्चक्रमधः पद्मं व्यवस्थितम् ।वामोर्द्धे कौमोदी यस्य पाञ्चजन्यमधःस्थितम्
पद्मा पद्मकरा वामे पार्श्वे तस्य व्यवस्थिता ।स्थितो वाप्युपविष्टो वा सानुरागविलासवान्
प्रद्युम्नस्य हि भेदोऽयं श्रीधरेति प्रकीर्त्त्यते
दक्षिणोर्द्धं महाचक्रं कौमोदी तदधःस्थिता
वामोर्द्ध नलिनं यस्य अधः शङ्खं विराजते ।हृषीकेशेति विज्ञेयः स्थापितः सर्व्वकामदः
१०दक्षिणोर्द्धे पुण्डरीकं पाञ्चजन्यमधस्तथा ।वामोर्द्धे संस्थितं चक्रं कौमोदी तदधःस्थिता
पद्मनाभेति सा मूर्त्तिःस्थापिता मोक्षदायिनी ११दक्षिणोर्द्धे पाञ्चजन्यमधस्तात्तु कुशेशयम्
सव्योर्द्धं कौमोदी देवी हेतिराजमधःस्थितम् ।अनिरुद्धस्य भेदोऽयं दामोदर इति स्थितः
१२
एतेषान्तु स्त्रियौ कार्य्ये पद्मवीणाधरे शुभे ।इति क्रमेण मार्गादिमासाधिपाः केशवादयोद्वादश
*
अथ सिद्धार्थसंहितायां चतु-र्व्विशतिमूर्त्तयः ।“वामुदेवो गदाशङ्खचक्रपद्मधरो मतः ।पद्मं शङ्खं तथा चक्रं गदां वहति केशवः
शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा ।गदां चक्रं तथा शङ्खं पद्मं वहति माधवः
चक्रं पद्मं तथा शङ्खं गदाञ्च पुरुषोत्तमः ।पद्मं कौमदकीं शङ्खं चक्रं धत्तेऽप्यधोक्षजः
सङ्कर्षणो गदाशङ्खपद्मचक्रधरः स्मृतः ।चक्रं गदां पद्मशङ्खौ गोविन्दो धरते भुजे
गदां पद्मं तथा शङ्खं चक्रं विष्णुर्विभर्त्तियः ।चक्रं शङ्खं तथा पद्मं गदाञ्च मधुसूदनः
१०
गदां सरोजं चक्रञ्च शङ्खं धत्तेऽच्युतः सदा ११ ।शङ्खं कौमोदकीं चक्रमुपेन्द्रः पद्ममुद्वहेत्
१२
शङ्खचक्रगदापद्मधरः प्रद्युम्न उच्यते १३ ।पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः
१४
शङ्खं चक्रं गदां पद्मं वामनो वहते सदा १५ ।पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजे
१६
चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्त्ति यः १७ ।पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्द्दनः
१८
अनिरुद्धश्चक्रगदाशङ्खपद्मलसद्भुजः १९ ।हृशीकेशो गदां चक्रं पद्मं शङ्खञ्च धारयेत्
२०
पद्मनाभो वहेत् शङ्खं पद्मं चक्रं गदां तथा २१ ।पद्मं चक्रं गदाशङ्खं धत्ते दामोदरः सदा
२२
शङ्खं चक्रं सरोजञ्च गदां वहति यो हरिः २३ ।शङ्ख कौमोदकीं पद्मं चक्रं कृष्णो विभर्त्तियः
२४
एताश्च मूर्त्तयो ज्ञेया दक्षिणाधःकरक्रमात्
”मत्स्यपुराणे ।“एतदुद्देशतः प्रोक्तं प्रतिमालक्षणं तथा ।विस्तरेण शक्नोति बृहस्पतिरपि द्विजाः
”इति ।सेवानिष्ठा हरेः श्रीमद्वैष्णवाः पाञ्चरात्रिकाः ।प्राकट्यादखिलाङ्गानां श्रीमूर्त्तिं बहु मन्यते
सेव्या निजनिजैरेव मन्त्रैः स्वस्वेऽष्ट मूर्त्तयः ।शालग्रामात्मके रूपे नियमो नैष विद्यते
द्विभुजा जलदश्यामा त्रिभङ्को मधुराकृतिः
सेव्या ध्यानानुरूपैव श्रीमूर्त्तिः कृष्णदैवतैः
अन्याश्च विविधाः श्रीमदवतारादिमूर्त्तयः ।प्रादुर्भावविधावग्रे लेख्यास्तत्तद्विशेषतः
नित्यकर्म्मप्रसङ्गेऽत्र मूर्त्तिजन्मप्रतिष्ठयोः ।विधिर्न्न लेखितुं योग्यः तु लेखिष्यतेऽग्रतः
”इति श्रीहरिभक्तिविलासे १८१ विलासः
वाचस्पत्यम्
Sanskrit
श्रीमूर्त्ति स्मी श्रीपूर्वककथयोग्या मूर्त्तिः देवताप्रतिमायांराजनि० विष्णोर्मूर्चिभेदाश्चतुर्विंशति मूर्त्तिशब्देदृश्या श्रीमूर्त्तयश्चाष्टविधाः भाग० ११ स्कन्दे दर्शिता यथा“शैली दारुमयी लौ ही लेप्या लेख्या सैकती मनो-मयी मणिमयी प्रतिमाष्टबिधा मता चलाचलेति द्वि-विधा प्रतिष्ठा जीवमन्दिरम् उद्वासावाहने स्तःस्थिरायामुद्धवार्चने अस्थिरायां विकल्पः स्यात् स्यण्डिले तु भवेत् द्वयम् स्वपनं त्वविलेप्यायामन्यत्र परि-मार्जनम् गोपालमन्त्राद्दिष्टत्वात् तच्छ्रीमूर्त्तिरपेक्षिता ।तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्त्तयोऽखिलाः”