| YouTube Channel

श्रीभागवतं (zrIbhAgavataM)

 
शब्दकल्पद्रुमः
Sanskrit
श्रीभागवतं,
क्ली,
(श्रीमत् भागवतमिति मध्यपद-लोपिसमासः ।) अष्टादशमहापुराणान्तर्गता-ष्टादशसहस्रश्लोकयुक्तपुराणविशेषः ! (तत्तु मत-भेदेन विष्णुभागवतदेवीभागवतभेदात् द्विवि-धम् ।) यथा, --“अष्टादशं भागवतं सारमाकृष्य सर्व्वतः ।कृतवान् भगवान् व्यासः शुकञ्चाध्यापत् सुतम्
स्कन्धेर्द्वादशभिर्युक्तं ब्रह्मविद्यासमन्वितम् ।वेदवेदान्तसारं तत् पुराणानाञ्च सत्तम
यत्र संकीर्त्तितः कृष्णो भगवान् वै पदे पदे ।श्रीभागवतमित्येव ये स्मरन्ति नराः क्वचित् ।मुच्यन्ते सर्व्वपापेभ्यो यथा नाम्ना गदाभृतः
महीभृतां यथा मेरुर्देवानां केशवो यथा ।सुरभिः कामधेनूनामप्सरस्सु यथोर्व्वशी
कार्ष्णानां पार्व्वतीनाथो राज्ञां दाशरथिर्यथा ।सप्तीनाञ्चेव गन्धर्व्वा नदीनां जाह्नवी यथा ।पुराणानां तथा राजन् श्रीभागवतमुत्तमम्
अम्बरीश उवाच ।पुराणं तं भागवतं पठ मे पुरतो हरेः ।चरितं दैत्यराजस्य प्रह्लादस्य मत्पतेः
गौतम उवाच ।अम्बरीश शुकप्रोक्तं नित्यं भागवतं शृणु ।पठस्व स्वमुखेनापि यदीच्छति भवक्षयम्
स्कन्धे स्कन्धेऽश्वमेधस्य फलमाप्नोति मानवः ।प्रत्यध्यायं राजसूयफलेन परियुज्यते
प्रतिश्लोकं वाजपेयफलं तस्योपजायते ।पदे पदे महाराज तीर्थस्नानफलं लभेत्
एतद्भागवतं देवि पुराणं मुक्तिसाधकम् ।तत्रापि दशमस्कन्धः सर्व्वभक्तमनोहरः ।तत्रापि रासलीलाढ्या पञ्चाध्यायी महाफला
श्रीपार्व्वत्युवाच ।सर्व्वञ्च हरिलीलाढ्यं श्रीमद्भागवतं यदि ।स्कन्धस्य दशमस्यायं महिभा केन हेतुना
रासलीलेति तत्रापि कथ्यते सर्वतोऽधिका ।तत्र मे कारणं श्रोतुमुत्कण्ठा वर्द्धते भृशम्
श्रीसदाशिव उवाच ।स्वयं भगवतो जन्म तस्य लीला वर्ण्यते ।श्रुतीनाञ्च स्तुतिर्यत्र सर्व्ववेदार्थसम्मिता
स्वयं भगवतो लीला सर्वशक्तिश्च दर्शिता ।दशमस्कन्धमाहात्म्यं एतद्वै कारणं मतम्
तत्रापि रासलीलाया यन्माहात्म्यमुदीरितम् ।तत्रापि कारणं वच्मि शृणु पर्वतनन्दिनि
यः स्वयं भगवान् कृष्णः पूर्णैश्वर्य्य इतीर्य्यते ।स सर्व्वशक्तिसम्पूर्णः सर्वलीलाप्रकाशकः
तस्यैव शक्तयो गोप्यः प्रोक्ताः सर्व्वोत्तमा यतः ।शक्तीनाञ्च शक्तिमतो लीला यत्रैकतः स्थिता ।सा लीला सर्वतः श्रष्ठा कीर्त्तिता परम-र्षिभिः
”इति पाद्मे पातालखण्डे ७१ अध्यायः
(तथाच शिवपुराणे ।“भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।तत्तु भागवतं प्रोक्तं नतु देवीपुराणकम्
”अस्य विशेषविवृतिस्तु पुराणशब्द-भागवत-शब्दयोर्द्रष्टव्यम्
)