श्रीचक्र (zrIcakra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishYates
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiश्रीचक्रम्
श्री-चक्रम् -
"भूवृत्त, भूमण्डल"
श्रीचक्रम्
श्री-चक्रम् -
इन्द्र के रथ का पहिया
Aufrecht Catalogus Catalogorum
Englishशब्दकल्पद्रुमः
Sanskritश्रीचक्रं, (श्रियाश्चक्रम् ।) त्रिपुरसुन्दर्य्याःपूजायन्त्रविशेषः । यथा, --“श्रीचक्रस्योद्धृतिं वक्ष्ये तत्र पूजाप्रसिद्धये ।बिन्दुगर्भं त्रिकोणन्तु कृत्वा चाष्टारमुद्धरेत् ॥
दशारद्वयमन्वस्राष्टारषोडशकोणकम् ।त्रिरेखात्मकभूगेहवेष्टितं यन्त्रमालिखेत् ॥
”इति मन्त्रमहोदधौ ११ तरङ्गः ॥
अपिच । अथ श्रीचक्रम् । यथा बिन्दुमत् त्र्यस्रअष्टकोणं एतत्रयं संहारचक्रम् । द्विदशारंचतुर्द्दशारं स्थितिचक्रमेतत्त्रयम् । अष्टपत्रंषोडशदलं वृत्तत्रयम् । भूसदनत्रयं चतुर्द्दार-समायुक्तमेतत् सृष्ट्यात्मकम् । तदुक्तं यामले ।“बिन्दुत्रिकोणवसुकोणदशारयुग्म-मन्वस्रनागदलसङ्गतषोडशारम् ।वृत्तत्रयञ्च धरणीसदनत्रयञ्चश्रीचक्रराजमुदितं परदेवतायाः ॥
”चक्रराजं सिन्दूरकुङ्कुमादिना लिखितं सुवर्ण-रजतपञ्चरत्नस्फटिकताम्राद्युत्कीर्णं कुर्य्यात् ।तथा भूतभैरवतन्त्रे ।“अकृत्वा सुसमां रेखां नालिख्य सुसमं मुखम्योऽत्र यन्त्रे प्रवर्त्तेत तस्य सर्व्वं हराम्यहम् ॥
यस्या यत्र स्थितिर्द्देवि तत्र तां नार्च्चयेद्यदि ।तन्मांसरुधिरेणैव पारणा तस्य जायते ॥
पशोरालोकनं न स्यात्तथा कुरुत यत्नतः ।यदि दैवात् पशोरग्रे लिखितं विद्यते क्वचित् ।ममाङ्गक्षतिरेवात्र क्रियते पापबुद्धिना ॥
”तथा भूतभैरवे ।“योऽस्मिन् यन्त्रेमहेशानि केशराणि प्रकल्पयेत्योगिनीसहितास्तस्य हिंसां कुर्व्वन्ति भैरवाः ॥
”इति वचनान्नात्र केशराणि ।“न रात्रावङ्कयेत् यन्त्रं साधकस्तु कदाचन ।प्रमादादङ्किते यन्त्रे शापो भवति तत्क्षणात् ॥
तत्रापराजितापुष्पे करवीरे जवासु च ।तत्र देवी वसेन्नित्यं तद्यन्त्रे पूजनं मम ॥
”तथा सच्छन्दभैरवे ।“कुर्य्याच्च स्थण्डिले यन्त्रं हस्तमात्रं सुसुन्दरम् ।रत्नादिषु च निर्म्माणे मानमिच्छावशाद्भवेत् ॥
एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् ।इतोऽधिकं नरः कृत्वा प्रायश्चित्तीभवेत् ध्रुवम् ॥
रक्तेन रजसापूर्य्य श्रीचक्रं भुवि पूजयेत् ।नश्यन्ति सर्व्वविघ्नानि प्राप्यते च यथेप्सितम् ॥
दशभागं सुवर्णस्य ताम्रस्य द्वादशं तथा ।षड्दशं रजतस्याथ चैतल्लोहत्रयं भवेत् ॥
चक्रेऽस्मित् पूजयेद्यो हि स सौभाग्यमवाप्नुयातअणिमाद्यष्टसिद्धीनामधिपो जायतेऽचिरात् ॥
विद्रुमे रचिते यन्त्रे पद्मरागेऽथवा प्रिये ।इन्द्रनीलेऽथ वैदूर्य्ये स्फाटिके मरकतेऽपि वा ।धनं पुत्त्रं तथा दारान् यशांसि लभते ध्रुवम् ।ताम्रन्तु कान्तिदं प्रोक्तं सुवर्णं शत्रुनाशनम् ॥
राजतं क्षेमदञ्चैव स्फाटिकं सर्व्वसिद्धिदम् ॥
”एतदद्यन्त्रमात्रे ज्ञेयम् ॥
* ॥
अथ श्रीचक्रनाशेप्रायश्चित्तम् ।“दग्धं च स्फुटितं यन्त्रं हृतं चौरेण वा प्रिये ।उपवासं प्रकुर्व्वोत दिनमेकमतन्द्रितः ॥
लक्षमात्रं जपेद्विद्यां होमतर्पणपूर्व्वकम् ।सद्भक्त्या च गुरुं तोष्य ब्राह्मणानपि भोज-येत् ॥
”लक्षं जप्त्वा दशांशहोमः तद्दशांशञ्च तर्पणम् ।लक्षमयुतमित्येके ।“कदाचिल्लुप्तचिह्नं वा स्फु टितादि विदूषणम्भग्नं करोति यो मर्त्यो मृत्युस्तस्य द्रुतं भवेत्तस्माच्च तीर्थराजे वा गङ्गादिसरितां वरे ॥
समुद्रे वा क्षिपेद्देवि चान्यथा दुःखमाप्नुयात् ॥
”इदन्तु यन्त्रमात्रविषयम् ॥
* ॥
अथ श्रीचक्र-पादोदकमाहात्म्यम् ।“गङ्गापुष्करनर्म्मदासु यमुनागोदावरीगोमती-गङ्गाद्वारगयाप्रयागवदरीवाराणसीसिन्धुषु ।रेवासेतुसरस्वतीप्रभृतिषु ब्रह्माण्डभाण्डोदरेतीर्थस्नानसहस्रकोटिफलदं श्रीचक्रपादोदकम्”अथ दर्शनफलम् ।“सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात्तत् फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ॥
षोडशं वा महादानं कृत्वा यल्लभते फलम् ।तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् ॥
सार्द्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमश्नुते ।तत् फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ॥
इति तन्त्रसारः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
