| YouTube Channel

श्रिषु (zriSu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
श्रिष्
मूलधातुः:
श्रिषु
धात्वर्थः:
दाहे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
श्रेषति
धातुप्रदीपः
Sanskrit
श्रिषुँ श्रिषु
मानकरूपान्तरम् - श्लिषुँ
श्लिषु
मानकरूपान्तरम् - प्रुषुँ
प्रुषु
मानकरूपान्तरम् - प्लुषुँ
प्लुषु दाहे
- श्रेषति श्रेषित्वा श्रिषित्वा श्रिष्ट्वा प्रश्लेषति प्राश्लेषीत् प्रोषति प्लोषति ।। 701-704 ।।
क्षीरतरङ्गिणी
Sanskrit
श्रिषुँ श्रिषु
मानकरूपान्तरम् - श्लिषुँ
श्लिषु
मानकरूपान्तरम् - प्रुषुँ
प्रुषु
मानकरूपान्तरम् - प्लुषुँ
प्लुषु दाहे
- श्रेषति श्लेषति अश्रेषीत् अश्लेषीति श्रिष्ट्वा श्लिष्ट्वा, श्रेषित्वा, श्लेषित्वा श्लिष आलिङ्गने दिवादौ (477) श्लिष्यति श्लेष्मा चुरादौ शिलष श्लेषणे (1033) श्लेषयति [ प्रोषति ] प्लोषति दिवादौ (47) प्लुष्यति प्लुष्टवा, प्लोषित्वा प्लुष्टः क्र्य्यादौ प्रुष प्लुष स्नेहसेचनपूरणेषु (969) प्रुष्णाति प्लुष्णाति 680-683
धातुवृत्तिः
Sanskrit
श्रिषुँ श्रिषु
मानकरूपान्तरम् - श्लिषुँ
श्लिषु
मानकरूपान्तरम् - प्रुषुँ
प्रुषु (अर्थः) दाहे
( श्रेषति शिश्रेष शिश्लेषिथ श्लेषिता ) शिषि पिपिं शुष्यतिशिष्यती त्विषिं श्लिषिमित्यनिट्कारिकायां दैवादिकस्य श्लिषेर्ग्रहणं तेनास्येतीह् उदातः उक्तं कैयटे श्लिष आलिङ्गन इति क्सविघावनिट इत्यनवर्त्तनाद् दाह्मार्थस्य सेटो ग्रहणाभाव इति एवं तत्र न्यासपदमञ्जर्योरपि यस्त्वनिट्कारिकाव्याख्यानन्यासे द्वयोर्ग्रहणमिति पाठः सस्वोक्तिविरोधाद् ग्रन्थान्तरविरोधाच्च प्रमादलिखितः तथा वर्द्धमानस्वामिसंमताकारादयश्चामुं सेटमाहुः श्लेषयतीति (श्लेषः)"श्याद्व्यधास्त्रुसंस्त्रतीणवसावहृलिहश्लिषश्वसश्च'' इति कर्त्तारि, णः ( श्लेष्मा श्लेष्मलः मत्वर्थे श्लष्मणः) पामादित्वान्नः, अयमपि मत्वर्थे श्लेष्मणःशमनं कोपनं वा (श्लेष्मिकम् ) तस्य निमित्तप्रकरणे "वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम्''इति ठक्(श्लक्ष्णः)"श्लिषेरच्चोपधाया'' इति क्नप्रत्ययः उपधायाश्चकारः श्लिष्यतेर्वा (श्लक्ष्णः आचारश्लक्ष्णः) "पूर्वस दृश'' इत्यादिना समासः आलिङ्गने दिवादिः श्लेषणे चुरादिः ( प्रोषति प्लोषतीत्यादि ) प्लुष्यतीति दिवादिपाठात् सेट् प्रुषिप्लुषी द्वौ स्त्रैहने क्र्यादौ 691
कृदन्तरूपमाला
Sanskrit
1 {@“श्रिषु दाहे”@} 2 सर्वाण्यपि रूपाणि भौवादिककेपतिवत् 3 बोध्यानि।
उदित्त्वात् क्त्वाया- मिड्विकल्पः।
प्रासङ्गिक्यः
01
=>
(१७७७)
02
=>
(१-भ्वादिः-७०१। सक। सेट्। पर।)
03
=>
(२६१)