| YouTube Channel

श्रिञ् (zriJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
श्रि
मूलधातुः:
श्रिञ्
धात्वर्थः:
सेवायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
श्रयति-ते
अनुबन्धादिविशेषः:
ञित्, इकारान्तः
धातुप्रदीपः
Sanskrit
श्रिञ् सेवायाम्
- श्रयति श्रयते शिश्राय शिश्रिये श्रयिता शिश्रयिषति शिश्रीषति घञ् श्रायः एरच् (3/3/59) श्रयः श्रितः श्रित्वा क्विब्वचि (3/2/178 वा) इति दीर्घः संप्रसारणञ्च श्रीः। श्रीति ङीबन्तोऽपीति केचित् ।। 901 ।।
क्षीरतरङ्गिणी
Sanskrit
श्रिञ् सेवायाम्
, उदात्तः- श्रयते, श्रयति श्रयिता णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (3148) अशिश्रियत् सनीवन्तर्ध (7248) इति नेट् शिश्रीषति शिश्रयिषति यस्य विभाषा (7215) इति वेट्-श्रितः श्र्युकः किति (72 11) श्रित्वा श्रिणीभुवोऽनुपसर्गे (3324) वा घञ्-श्रायः, श्रयः उदि श्रयतियौति (3349) इति घञ्-उच्छ्रायः बाहुलकात् पतनान्ताः समुच्छ्र्याः (रामा0 910516, महा0शान्ति0 33020) वहिश्रिश्रु (दश0 उ0 121) इति णिः-श्रेणिः क्विब् वचिप्रछि (उ0257) इति क्विब्दीर्घौ-श्रीः श्मनि श्रयतेर्डुन् (उ0 528) श्मश्रु श्रयतेः स्वाङ्गे शिर् किच्च (दश0 उ0 954 कपाठः) इत्यसुन् शिरः आङि श्रिहनिभ्यां ह्रस्वश्च (उ0 4138) इतीन् डित् अश्रिः 867
धातुवृत्तिः
Sanskrit
श्रिञ् (अर्थः) सेवायाम्
उदात्तः ( श्रयति शिश्राय शिश्रियतुः शिश्रियुः शिश्रयिथ शिश्राय शिश्रियिव ) अचि इत्यादेशः अन्यत्र वृद्धिगुणौ अत्र "असंयोगाल्लिट् कित्'' इति लिटः कित्त्वात् "श्रयुकः किति'' इति प्राप्तस्येटो निषेधस्य क्रादिनियमेन बाधः ( श्रयिता श्रयिष्ति श्रयतु अश्रयत् ) श्राशिषि ( श्रीयात् ) "अकृत्सार्वधातुकयोः'' इति दीर्घः ( अशिश्रियत् ) "णिश्रि'' इति चङ् लघूपधगुणादन्तरङ्गत्वादियङ् ( श्रयते शिश्रिये इत्यादि शिश्रयिषति शिश्रीषति) "सनीवन्तर्द्ध'' इत्यादिना इड्विकल्यः अनिट्पक्षे "अज्ज्ञन'' इति दीर्घः "इको ज्ञल'' इति कित्त्वादगुणत्वं, ( शेश्रीयते शेश्रयीति शेश्रेति श्राययति अशिंश्रयत ) वृद्ध्यायौ, णौ कृतस्य स्वानिवत्त्_वात् श्रीशब्दस्य द्विर्वचनम् ( श्रायः ) "श्रिणीभूवोनुपसर्गे'' इति घञ् कथं पतनान्ताः समुच्छ्रया इति , "कृत्यल्श्युटो बहुलम्'' इति वचनात्, एवं उदिश्रायतीति श्तिपा निर्देशात् यङ्लुगन्तात् ( उछ्राय ) इति अजेव ( विश्रयी ) "जिदृक्षिविश्रि'' इति ताच्छीलिक इनिश्H ( श्रित्वा श्रितः) "श्र्युकः किति'' इति इण्निषेधः ( कष्टश्रितः ) "द्वितीया श्रिता'' इति समासः ( श्रेणिः ) "वहिश्रिश्रुयुद्रुग्लाहात्वरिध्यो नित्'' इति निः ( श्रेणीकृताः ) ''श्रेण्यादयःकृतादिभिः'' इति तत्पुरुषः [श्रेण्यादिषु च्व्यर्थवचनम् ] इति तत्र वार्त्तिकम् [ क्किब् वचिप्रच्छ्यायतस्तुकटप्रजुश्रीणां दीर्घोऽसंप्रसारणं ] इति क्किब्दीर्घो इयङ् स्थानित्त्वात्, नदीत्वाभावात् ( हे श्रीः ) इत्यत्र "अम्बार्थनद्योर्ह्रस्वः'' इति ह्रस्वः ङिद्वचनेषु "ङिति ह्रस्वश्च'' इति पक्षे नदी त्वादाटि ङेश्चामि ( श्रियै श्रियाः श्रियामित्यादि ) अन्यदेयङि ( श्रिये, श्रियः श्रियि ) षष्ठीबहुवचने "वामि'' इति नदीत्वे नुतिट ( श्रीणां, श्रियाम् श्रिमन्यं ब्राह्मणकुलम् )भाष्यकारवचनात् श्रीशब्दस्य ह्रस्वः मुमभावश्च ( श्मश्रु ) "श्यनि श्रयतेर्हुन्'' इति श्यन्शब्दे उपपदे हुन्, टिलोपः, ( श्मश्रुणः, ) पामादित्वान्नः 881
कृदन्तरूपमाला
Sanskrit
1 {@“श्रिञ् सेवायाम्”@} 2 ‘श्रीणाति पाके श्रीणीते सेवायां श्रयते श्रयेत्।’ 3 इति देवः।
श्रायकः-यिका, श्रायकः-यिका, 4 शिश्रयिषकः-शिश्रीषकः-षिका, शेश्रीयकः-यिका
5 श्रेता-त्री, श्राययिता-त्री, शिश्रयिषिता-शिश्रीषिता-त्री, शेश्रीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककायतिवत् 6 बोध्यानि।
7 उच्छ्रायः, 8 श्रायः 9 शिश्रिवान्, 10 विश्रयी, 11 श्रित्वा, श्रितः- 12 कष्टश्रितः, 13 श्रीः, 14 श्रेणिः-श्रेणी, 15 श्मश्रु।
प्रासङ्गिक्यः
01
=>
(१७७६)
02
=>
(१-भ्वादिः-८९७। सक। सेट्। उभ।)
03
=>
(श्लो। १६)
04
=>
[[४। ‘सनीवन्तर्धभ्रस्जदम्भुश्रि--’ (७-२-४९) इत्यादिना सनि इड्विकल्पः सर्वत्र। इट्पक्षे शिश्रयिषकः इति रूपम्। इडभावपक्षे सनः कित्त्वे ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे शिश्रीषकः इत्यादीनि रूपाणि।]]
05
=>
[पृष्ठम्१३२५+ २८]
06
=>
(२६३)
07
=>
[[१। एरचोऽपवादभूतः ‘उदि श्रयति--’ (३-३-४९) इति घञ्। कथं ‘पतनान्ताः समुच्छ्रयाः’ इति अजन्तत्वम्? ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इति बहुलग्रहणात् ‘क्वचिदपवादविषयेऽपि उत्सर्गोऽभिनिविशते’ (परि। ६०) इति बोध्यम्। वक्ष्यमाणविभाषाग्रहणानुवृत्तेः समुच्छ्रयः इत्यपि साधुरिति प्रक्रि- याकौमुदीव्याख्या (३-३-४९)।]]
08
=>
[[२। ‘श्रिणीभुवोऽनुपसर्गे’ (३-३-२४) इति घञ्।]]
09
=>
[[३। लिटः क्वसौ द्विर्वचनादिकेषु कृतेषु रूपमेवम्। काशिकायाम् (७-२-६७) उदाहृतम्।]]
10
=>
[[४। विपूर्बकादस्मात् ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यादिना इनिप्रत्ययस्ता- च्छीलिकः।]]
11
=>
[[५। ‘श्र्युकः क्किति’ (७-२-११) इतीण्निषेधः। एवं निष्ठाक्तिन्नादिष्वपि ज्ञेयम्।]]
12
=>
[[६। कष्टं श्रितः कष्टश्रितः। ‘द्वितीया श्रित--’ (२-१-२४) इत्यादिना समासः।]]
13
=>
[[७। ‘क्विब् वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च’ (वा। ३-२-१७८) इति ताच्छीलिकः क्विप्प्रत्ययः, तत्सन्नियोगेन धातोदीर्घः, सम्प्रसारणाभावश्च। श्रयते भगवन्तं नित्यमिति श्रीः लक्ष्मीः।]]
14
=>
[[८। ‘वहिश्रि--’ (द। उ। १-२१) इत्यादिना निप्रत्ययः। श्रेणः = आलिः। श्रेणी
\n\n अत्र ‘कृदिकारात् अक्तिनः’ (ग। सू। ४-१-४) इति ङीष्।]]
15
=>
[[९। ‘श्मनि श्रयते ड्रुन्’ (द। उ। १-१६१) इति ड्रुन्प्रत्यये टिलोपे रूपमेवम्।]]