| YouTube Channel

श्रावयिता-त्री (zrAvayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“श्रु श्रवणे”@} 2 श्रावकः-विका, श्रावकः-विका, शुश्रूषकः-षिका, शोश्रूयकः-यिका
3 श्रोता-त्री, श्रावयिता-त्री, शुश्रूषिता-त्री, शोश्रूयिता-त्री
इत्यादीनि रूपाणि भौवादिकद्रवतिवत् 4 बोध्यानि।
5 शृण्वन्-ती, 6 संशृण्वानः, 7 शुश्रूषमाणः, 8 प्रतिशुश्रूषन्-आशुश्रूषन्, 9 देवदत्तं प्रतिशुश्रूषमाणः-भाष्यात् आशुश्रूषमाणः, 10 शुश्रुवान्, 11 देवदत्ताय गां प्रतिशृण्वन्- आशृण्वन् वा, 12 निश्रावी, 13 विश्रावः, 14 श्रवणम्, 15 प्रतिश्रुत्, 16 श्रुतिः, 17 सुश्रुतः, 18 शिश्रावयिषुः-शुश्रावयिषुः, 19 20 श्रवणः, 21 श्रोत्रम्, 22 श्रवः-विश्रवः-वैश्रवणः-रावणः, 23 श्रोणिः इतीमानि धातोरस्य विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१७७९)
02
=>
(१-भ्वादिः-९४२। सक। अनि। पर।)
03
=>
[पृष्ठम्१३२६+ ३२]
04
=>
(८८३)
05
=>
[[१। शतरि, ‘श्रुवः शृ च’ (३-१-७४) इति श्नुप्रत्ययः, तत्सन्नियोगेन ‘शृ’ इति प्रकृतेरादेशश्च। ‘सार्वधातुकमपित्’ (१-२-४) इति श्नुप्रत्ययस्य ङिद्वद्भावात् ‘क्ङिति च’ (१-१-५) इति गुणनिषेधः। अत्र वदन्ति--भ्वादिषु पठितत्वादस्य धातोः, श्रवति इत्यनेकत्र ऋग्वेदादिषु प्रयोगश्रवणात् पूर्वं श्रुधातुः श्रवति इत्याद्याकारेण भौवादिकरूपेणापि युक्त इत्यूह्यते, इति। विद्वांसः प्रमाणमत्र।]]
06
=>
[[२। ‘अर्तिश्रुदृशिभ्यश्च’ (वा। १-३-२९) इत्यनेन समुपसृष्टादस्मात् आत्मनेपदम्।]]
07
=>
[[३। ‘ज्ञाश्रुस्मृदृशां सनः’ (१-३-५७) इति सन्नन्तात् नित्यमात्मनेपदम्।]]
08
=>
[[४। ‘प्रत्याङ्भ्यां श्रुवः--’ (१-३-५९) इति आत्मनेपदनिषेधात् यथासम्भवं परस्मैपदमत्रेति बोध्यम्।]]
09
=>
[[५। ‘प्रत्याङ्भ्यां--’ (१-३-५९) इत्यत्र उपसर्गयोरेव ग्रहणम्
\n\n प्रकरणात्। अतश्च कर्मप्रवचनीययोः प्रत्याङोर्ग्रहणे तु आत्मनेपदमपि भवति।]]
10
=>
[[६। ‘भाषायां सदवसश्रुवः’ (३-२-१०८) इति लिटः क्वसुः। द्विर्वचनादिकम्।]]
11
=>
[[७। ‘प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता’ (१-३-५९) इति प्रत्याङ्भ्यामुपसृष्टस्य शृणोतेः प्रयोगे देवदत्तस्य सम्प्रदानत्वात् चतुर्थी इति बोध्यम्।]]
12
=>
[[८। ‘रक्षश्रुवसवपशां नौ’ (ग। सू। ३-१-१३४) इति ग्रह्यादिपाठात् णिनिप्रत्ययः। क्षीरस्वामी तु अत्र ‘नि’ इत्युपसर्गं प्रत्ययस्य णित्त्वं अप्रयोजकं मत्वा श्रावी श्रवी इति वृद्धिपक्षं वृद्ध्यभावपक्षं चाह।]]
13
=>
[[९। ‘वौ क्षुश्रुवः’ (३-३-२५) इति घञ्। उवर्णान्तत्वलक्षणापोऽपवादः।]]
14
=>
[[१०। श्रूयतेऽनेनेति संज्ञायां ल्युटि श्रवणम् = श्रोत्रम्, वेदो वा।]]
15
=>
[[११। प्रतिश्रूयते इति प्रतिश्रुत् = प्रतिध्वनिः। स्त्रियां भावे सम्पदादित्वात् (वा। ३-३-१०८) क्विप्। तुक्।]]
16
=>
[[१२। श्रूयतेऽनया इति श्रुतिः = वेदः, श्रोत्रं वा। ‘श्रुयजीषिस्तुभ्यः करणे’ (वा। ३-३-९४) इति स्त्रियां ल्युडपवादः क्तिन्।]]
17
=>
[[१३। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां कर्तरि क्तः। सुश्रुतः = वैद्यशास्त्र- प्रवर्तकः ऋषिविशेषः।]]
18
=>
[[१४। ण्यन्तात् सनि ‘सनाशंसभिक्ष उः’ (३-२-१६८) इति ताच्छीलिके उप्रत्यये, ‘स्रवतिशृणोति--’ (७-४-८१) इत्यादिना अवर्णपरकत्वात् अभ्यासस्येकार- विक्ल्पः।]]
19
=>
[पृष्ठम्१३२७+ २७]
20
=>
[[१। नन्द्यादित्वात् (ग। सू। ३-१-१३४) कर्तरि ल्युः। श्रवणः = नक्षत्रविशेषः। बहुश्रुतः, अश्वत्थवृक्षो वा।]]
21
=>
[[२। औणादिके (द। उ। ८-८४) ष्ट्रन्प्रत्यये रूपमेवम्। श्रूयतेऽनेनेति श्रोत्रम् = श्रवणम्।]]
22
=>
[[३। औणादिके (द। उ। ९-४९) असुन्प्रत्यये रूपमेवम्। विपूर्वकादस्मात् अपत्यार्थे ‘विश्रवसो विश्रवणरवणौ’ (ग। सू। ४-१-११२) इति शिवादिपाठात् प्रकृतेर्विश्रवण- रवणादेशौ। तौ यक्षराजे, रक्षोविशेषे व्यवस्थितौ। तेन वैश्रवणः कुबेरः। रावणः = रक्षोविशेषो लङ्काधिपतिः।]]
23
=>
[[४। ‘वहिश्रियुश्रु…’ (द। उ। १-२१) इत्यादिना निप्रत्ययः। श्रोणिः कटिपश्चाद्भागः।]]