| YouTube Channel

श्रावणः (zrAvaNaH)

 
Apte Hindi
Hindi
श्रावणः
पुं*
- -
"सावन का महीना, (जूलाई-अगस्त में आने वाला)"
श्रावणः
पुं*
- -
पाखण्डी
श्रावणः
पुं*
- -
छद्मवेशी
श्रावणः
पुं*
- -
एक वैश्य संन्यासी
Wordnet
Sanskrit
Synonyms:
श्रावणः, नभाः, नभः, श्रावणिकः
noun
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतपञ्चमः मासः।
"श्रावणे स्त्रीवर्गः दोलाक्रीडायाम् अनुनन्दति।"
वैजयन्तीकोषः
Sanskrit
Word: श्रावणः
Root: श्रावण
Gender: पुं
Number: all
अर्थः श्रावणो नाम चान्द्रमासः
Meaning(s):
First month of the rainy season
Shloka(s):
2|1|84|2 ते शुक्रे स्युरथाषाढे शुचिः श्रावणिको नभाः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|85|1 श्रावणश्च नभस्ये तु भाद्रो भाद्रपदोऽपि च। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|84|2 श्रावणिकः (श्रावणिक) (पुं) Epithet of Śravaṇa श्रावणो नाम चान्द्रमासः
2|1|84|2 नभः (नभस्) (नपुं) Epithet of Śravaṇa श्रावणो नाम चान्द्रमासः
2|1|85|1 श्रावणः (श्रावण) (पुं) First month of the rainy season श्रावणो नाम चान्द्रमासः
Related word(s):
अवयव_अवयवीसंबन्धः श्रावणी
परा_अपरासंबन्धः मासः
जातिः कालः
शब्दकल्पद्रुमः
Sanskrit
श्रावणः,
पुं,
(श्रवणेनाचरति तु कार्य्येणेति ।श्रवण + अण् पाषण्डः इति मेदिनी
(श्रवणेन गृह्यते इति श्रवण + “शेषे ।” ।२ ९२ इत्यण् शब्दः इति काशिका
)वैगाखादि-द्वादशमासान्तर्गत-चतुर्थ-मासः ।श्रवणानक्षत्रयुक्ता पौर्णमासी श्रावणी सा यत्रमासे सः (श्रवणा + अण् ।) तत्पर्य्यायः ।नभाः श्रावणिकः इत्यमरः
नभः ।इति शब्दरत्नावली द्विविधः सौर-श्चान्द्रश्च कर्क्कटस्थरविको मामः सौर-श्रावणः कर्कटस्थरविप्रारब्धशुक्लप्रतिपदादि-दर्शान्तो मासश्चान्द्रश्रावणः चान्द्रोऽपिद्विविधो मुख्यो गौणश्च तत्र मुख्यचान्द्रश्राव-णोयकृष्णप्रतिपदादिपौर्णमास्यन्तो मासो गौण-चान्द्रः श्रावणः मुख्यलक्षर्ण प्रागेवोक्तम् ।इति मलमासतत्त्वम्
*
तत्र जातफलम् ।“लोकप्रमिद्धो धनवान् वदान्यःसुहृत्कलत्रात्मजदासयुक्तः ।आज्ञाकरा यस्य जनस्य सर्व्वेस श्रावणाख्ये सुतरां प्रसूतः
”अथ श्रावणकृत्यम् तत्र देवीपुराणम् ।“सुप्ते जनार्द्दने कृष्णे पञ्चम्यां भवनाङ्गने ।पूजयेन्मनसा देवीं स्नुहीविटपसंस्थिताम्
”स्नु ही सिजवृक्षः ।“देवीं संपूज्य नत्वा सर्पभयमाप्नुयात् ।पञ्चम्यां पूजयेन्नागाननन्ताद्यान् महोरगान् ।क्षीरं सर्पिश्च नैवेद्यं देयं सर्पविषापहम्
”गारुडे ।“अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव ।तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकम्
कालीयं तक्षकञ्चापि पिङ्गलं मणिभद्रकम् ।यजेत्तानसितान्नागान दष्टमुक्तो दिवं ब्रजेत्
”पुराणान्तरेऽपि ।अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः ।कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकी-र्त्तिताः
”पाद्मे ।शेषः पद्मो महापद्मः कुलीरः शङ्खपालकः ।वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ।ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ
”रत्नाकरे ।“पिचुमर्द्दस्य पत्राणि स्थापयेद्भवनोदरे ।स्वयञ्चापि तदश्नीयात् ब्राह्लणानपि भोजयेत्
”पिचुमर्द्दस्य निम्बस्य
*
तत्र प्रयोगः ।हरिशयनानन्तरं गौणचान्द्रेण श्रावणकृष्ण-नवम्यां कृतस्नानादिरुदङ्मुखः अद्य श्रावणेमासि कृष्णे पक्षे पञ्चम्यां तिथौ अमुकगोत्रःश्रीअमुकदेवशर्म्मा सर्पभयाभावकामो मनसा-देवीपूजामहं करिष्ये इति सङ्कल्प्य स्नुही-वृक्षे पूजयेत् तदभावे घटे जले वा न्यासा-दिकं कृत्वा देवीमम्बेति ध्यात्वा मनसादेविइहागच्छ इहावाह्य एतत् पाद्यं ओँ मनसा-देव्यै नमः इत्यनेन यथाशक्ति गन्धपुष्पधूप-दीपनैवेद्यानि दद्यात् ततोऽनन्तादीन्नागान् पूजयेत् तत्र क्षीरसर्पिर्नैवेद्यं प्रधानम् ।अनन्तादिकं पाद्यादिभिः संपूज्य ।ओँ योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् ।पुष्पवद्धारयेन्मूध्नि तस्मै नित्यं नमो नमः
”इत्यनेन त्रिः पूजयेत् एवं प्रणवादिनमोऽन्तेनस्वस्वनाम्ना पूजयेत् ओँ वासुकय नमः ओँशङ्णाय नमः ओँ कम्बलाय नमः ओँ कर्को-टकाय नमः ओँ शङ्खकाय नमः ओँ काली-याय नमः ओँ तक्षकाय नमः ओँ पिङ्गलायनमः ओँ महापद्माय नमः ओँ कुलिकायनमः ओँ मणिभद्राय नमः ओँ धनञ्जयायनमः ओँ शेषाय नमः ओँ ऐरावतायनमः अशक्तौ गन्धपुष्पाभ्यां पूजयेत् निम्ब-पत्राणि गृहे स्थापयेत् ब्राह्मणेभ्यो दद्यात्स्वयं भक्षयेच्च उभयदिने पूर्व्वाह्णे मुहूर्त्तान्यून-पञ्चमीलाभे पूर्व्वदिने पूजा युग्मात् श्रावण्यांपौर्णमास्यां श्राद्धमावश्यकम् इति कृत्यतत्त्वम्
श्रवणानक्षत्रसम्बन्धिनि, त्रि