| YouTube Channel

श्राद्धिकः (zrAddhikaH)

 
शब्दकल्पद्रुमः
Sanskrit
श्राद्धिकः, त्रि, (श्राद्धमनेन भुक्तमिति श्राद्ध +“श्राद्धमनेन भुक्तमिनिठनौ ।” ८५ ।इति ठन् ।) श्राद्धभोक्ता इति सिद्धान्त-कौमुदी
श्राद्धसम्बन्धिद्रव्यादि यथा, याज्ञ-वल्क्यः ।“सन्ध्यागर्ज्जितनिर्घाते भूकम्पोल्कानिपातने ।समाप्य वेदं द्युनिशमारण्यकमधीत्य
पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके ।ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य
”इति तिथ्यादितत्त्वम्