श्राद्धं (zrAddhaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritश्राद्धं, (श्रद्धा प्रयोजनमस्य । श्रद्धा + “चूडा-दिभ्य उपसंख्यानम् ।” ५ । १ । ११० । इत्यस्यवार्त्तिकोक्त्या अण् ।) शास्त्रोक्तविधानेन पितृ-कर्म्म । इत्यमरः ॥
पित्रु द्देश्यकश्रद्धयान्नादि-दानम् । तस्य लक्षणम् । यथा, --“संस्कृतव्यञ्जनाढ्यञ्च पयोदधिघृतान्वितम् ।श्रद्धया दीयते यस्मात् श्राद्धं तेन निगद्यते ॥
”इति पुलस्त्यवचनात् श्रद्धया अन्नादेर्दानं श्राद्धंइति वैदिकप्रयोगाधीनयौगिकम् । इति श्राद्ध-तत्त्वम् ॥
अपि च । सम्बोधनपदोपनीतान्पित्रादीन् चतुर्थ्य न्तपदेनोद्दिश्य हविस्त्यागःश्राद्धम् । तत्तु द्वादशविधं यथा । विश्वामित्रः ।“नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनग्पार्व्वणञ्चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम् ॥
कर्म्माङ्गं नवमं प्रोक्तं दैविकं दशमं स्मृतम् ।यात्रार्थैकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम् ॥
”एतद्भविष्यपुरांणे विवृतम् । यथा, भविष्ये ।“अहन्यहनि यच्छ्राद्धं तन्नित्यमभिधीयते ।वैश्वदेवविहीनं तदशक्तावुदकेन तु ॥
एकोद्दिष्टन्तु यच्छ्राद्धं तन्नैमित्तकमुच्यते ।तदप्यदैवं कर्त्तव्यमयुग्मानासयेद्द्विजान् ॥
काम्याय तु हितं काम्यमभिप्रेतार्थसिद्धये ।पार्व्वणेन विधानेन तदप्युक्तं खगाधिप ॥
वृद्धौ यत् क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते ।सर्व्वं प्रदक्षिणं कार्य्यं पूर्व्वाह्णे तूपवीतिना ॥
गन्धोदकतिलैयुक्तं कुर्य्यात् पात्रचतुष्टयम् ।अघ्यार्थं पितृपात्रेषु प्रे तपात्रं प्रसेचयेत् ॥
ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिण्डनम् ।नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि ॥
श्रमावास्यां यत् क्रियते तत् पार्व्वणमुदाहृतम्क्रियते वा पर्वणि यत् तत् पार्वणमिति स्थितिःगोष्ट्यां यत् क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यतेबहूनां विदुषां सम्पत्सुखार्थं पितृतृप्तये ॥
क्रियते शुद्धये यत्तु ब्राह्मणानान्तु भोजनम् ।शुद्ध्यथमिति तत् प्रोक्तं वेनतेय मनीषिभिः ॥
निषेककाले सोमे च सीमन्तोन्नयने तथा ।ज्ञेयं पुंसवने चैव श्राद्धं कर्म्माङ्गमेव च ॥
देवानुद्दिश्य यच्छ्राद्धं तद्दैविकमिहोच्यते ।हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः ॥
गच्छन् देशान्तरं यत्तु श्राद्धं कुर्य्याच्च सर्पिषायात्रार्थमिति तत् प्रोक्तं प्रवेशे च न संशयः ॥
शरीरोपचये श्राद्धमर्थोपचय एव च ।पुष्ट्यर्थमेतद्विज्ञे यमीपचायिकमुच्यते ॥
” * ॥
तस्य पञ्चविधत्वं यथा । बृहस्पतिः ।“नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव चपार्व्वणञ्चेति मनुना श्राद्धं पञ्चविधं स्मृतम् ॥
”कूर्म्मपुराणे ।“अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकंपुनःएकोद्दिष्टन्तु विज्ञेयं बृद्धिश्राद्धञ्च पार्वणम् ॥
एत त् पञ्चविधं श्राद्धं मनुना परिकीर्त्तितम् ॥
”मत्स्यपुराणे त्रैविध्यमुक्तं यथा, --“नित्य नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते ॥
”तस्य द्वैविध्यम् । विष्णुना नित्यकाम्यरूपतयाद्वैविध्यं वक्ष्यते । तत्र नित्यपदमावश्यकरूपतयापार्व्वणैकोद्दिष्टयोरपि परिग्रहार्थम् । काम्य-पदमनावश्यकत्वार्थम् । इति श्राद्धविवेकः ॥
* ॥
आदावात्रेयमुनिपुत्त्रेण निमिना तत्पुत्त्रस्यश्राद्धं कृतम् । यथा, --धरण्युवाच ।“को गुणः पितृयज्ञस्य कथमेव प्रपूज्यते ।केन चोत्पादितं श्राद्धं कस्मिन्नर्थे किमात्मकम्एतदिच्छाम्यहं श्रोतुं विस्तरेण ववेस्व मे ॥
वाराह उवाच ।मनोस्तु वंशसम्भूत आत्रेय इति विश्रुतः ।आत्रेयस्यात्मजो विप्रो निमिनामा तपोधनः ॥
निमिपुत्त्रस्तु धर्मात्मा त्रिषु लोकेषु विश्रुतः ।वर्षाणाञ्च सहस्राणि तपस्तप्त्वा वसुन्धरे ॥
मृत्युकालमनुप्राप्तस्ततः पञ्चत्वमागतः ।नष्टञ्च तं सुतं दृष्ट्वा निमेः शोक उपाविशत् ।पुत्त्रशोकाभिसंयुक्तो दिवा रात्रौ च चिन्तयन् ॥
निमिः कृत्वा ततः शोकं विधिना तत्र माधवितमेव गतसङ्कल्पस्त्रिरात्रे प्रत्यपद्यत ॥
तस्य प्रतिविशुद्धस्य माघमासे तु द्वादशीम् ।मनः संसृज्य विषयं बुद्धिर्विस्तारगामिनी ॥
स निमिश्चिन्तयामास श्राद्धकल्पं समाहितः ।यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥
यानि कानि च भक्ष्याणि नवञ्च रससम्भवम् ।यानि तस्यैव चेष्टानि सर्व्वमेतदुदाहरत् ॥
आमन्त्र्य ब्राह्मणं पूर्व्वं शुचिर्भूत्वा समाहितः ।दक्षिणावर्त्ततः सर्वं ऋषिः स्वयमकुर्व्वत ।सप्त कृत्वा ततस्तत्र युगपत् समुपाविशत् ॥
दत्त्वा तु मांसशाकानि मूलानि च फलानि चपूजयित्वा तु विप्रान् स सप्तकृत्वस्तु सुन्दरि ॥
कृत्वा तु दक्षिणाग्रांश्च कुशांश्च प्रयतः शुचिः ।प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥
एतस्मिन्नन्तरे देवि नारदो द्विजसत्तमः ।जगाम तापसारण्यं ऋष्याश्रमविभूषितम् ॥
तं दृष्ट्वा पूजयामास स्वागतेनाथ माधवि ।भीतो गद्गदया वाचा निश्वसंश्च मुहुर्मुहुः ॥
सव्रीडो भाषते विप्रः कारुण्ये न समन्वितः ।कृतः स्नेहश्च पुत्त्रार्थे मया संकल्प्य यत् कृतम् ॥
तर्पयित्वा द्विजान् सप्त अन्नाद्येन फलेन च ।पश्चाद्विसर्ज्जितं पिण्डं दर्भानास्तीर्य्य भूतले ॥
उदकानयनञ्चैव त्वपसव्येन पायितम् ।शोकस्ने हप्रभावेण एतत् कर्म्म मया कृतम् ॥
न च श्रुतं मया पूर्वं न देवैरृ षिभिः कृतम् ।भयं तीव्रं प्रपश्यामि मुनिशापात् सुदारुणात्नारद उवाच ।न भेतव्यं द्विजश्रेष्ठ पितरं शरणं व्रज ।अधर्म्मं न च पश्यामि धर्मेणैवात्र संशयः ॥
नारदेनैवमुक्तस्तु निमिर्ध्यानमुपाविशत् ।कर्म्मणा मनसा वाचा पितरं शरणं गतः ॥
ततोऽतिचिन्तयामास वंशकर्त्तारमात्मनः ।ध्यायमानस्ततोऽप्याशु आजगाम तपोधनः ॥
पुत्त्रशोकेन सन्तप्तं पुत्त्रं दृष्ट्वा तपोधनः ।पुत्त्रमाश्वासयामास वाग्भिरिष्टाभिरव्ययैः ॥
निमे सङ्कल्पितश्रेयान् पितृयज्ञस्तपोधन ।पितृयज्ञेति निर्द्दिष्टो धर्म्मोऽयं ब्रह्मणा स्वयम् ॥
ततो ह्यतितरो धर्म्मः क्रतुरेकः प्रतिष्ठितः ।कृतः स्वयम्भुवा पूर्वंश्राद्धे यो विधिरुत्तमः ॥
”इति वाराहे श्राद्धोत्पत्तिनामाध्यायः ॥
* ॥
अपि च ।“अपसव्येन दातव्यं मासि मासि तिलोदकम् ।प्रणम्य शिरसा देवीर्निर्व्वापस्य च धारिणीः ।वष्णवी काश्यपी चेति अजया चेति नामतः ॥
एवं दत्तेन प्रीयन्ते पितरश्च न संशयः ।परमात्मा शरीरस्थो देवतानां मया कृतः ॥
त्रयस्तत्र वरारोहे देवगात्राद्विनिस्मृताः ।पितृदेवा भविष्यन्ति भोक्तारः पितृपिण्डकान् ।देवतासुरगन्धर्व्वा यक्षराक्षसपन्नगाः ।पिण्डं श्राद्धस्य पश्यन्ति वायुभूता न संशयः ॥
पितृयज्ञं विशालाक्षि ये कुर्व्वन्ति विदो जनाः ।आयुः कीर्त्तिर्बलं तेजो धनं पुत्त्रपशुस्त्रियः ॥
ददन्ति पितरस्तस्य आरोग्यं नात्र संशयः ।आत्मकर्म्मवशाल्लोकान् प्राप्नु वन्तीह शोभनान् ।तिर्य्यक्ष च विमुच्यन्ते प्रेतभावाच्च मानवाः ।नरके पच्यमानानां त्राता भवति मानवः ॥
पूजकः पितृदेवानां सर्व्वकालं गृहाश्रमे ।द्विजातींस्तर्पयित्वां तु पूर्णेन विधिना नरः ॥
अक्षयं तस्य मन्यन्ते पितरः श्राद्धतर्पिताः ।नरा ये पितृभक्तास्ते प्राप्नु वन्ति परां गतिम् ॥
*पक्वान्नं तत्र वै कार्य्यं सुविसृष्टञ्च शुद्धितः ।वृत्ते तु तत्र मध्याह्ने श्राद्धारम्भन्तु कारयेत् ॥
स्वागतञ्च तथा कृत्वा पाद्यार्थं मण्डलं शुचिः ।पाद्यं दत्त्वा तु विप्राय गृहस्याभ्यन्तरं नयेत् ॥
आसनं कल्पयित्वा तु आवाह्य तदनन्तरम् ।अर्घ्यं दद्याद्विधानेन गन्धमाल्यैः प्रपूज्य च ॥
धूपं दीपं तथा वस्त्रं तिलोदकमथापि वा ।पात्रञ्च भोजनस्यार्थे विप्राग्रे धारयेत्तथा ॥
भस्मना मण्डलं कार्य्यं पंक्तिदोषनिवारकम् ।अग्निकार्य्यं ततः कृत्वा अन्नञ्च परिवेशयेत् ॥
तत्र कार्य्यस्तु सङ्कल्पः पितॄनुद्दिश्य सुन्दरि ।ययासुखेन भोक्तव्यमिति ब्रूयाद्द्विजं प्रति ॥
रक्षोघ्नमन्त्रपाठांश्च आचमेत विचक्षणः ।तृप्तांस्तु ब्राह्मणान् ज्ञात्वा दद्याद्वै विकिरंततः ॥
उत्तरापोशनं दत्त्वा पिण्डप्रश्नन्तु कारयेत् ।दक्षिणाभिमुखो भूत्वा दर्भानास्तीर्य्य भूतले ॥
पिण्डदानं प्रकुर्व्वीत पित्रादित्रितये तथा ।पिण्डानां पूजनं कार्य्यं तन्तुवृद्ध्यै यथाविधि ॥
ब्राह्मणस्य च हस्ते तु दद्यादक्षय्यमात्मवान् ।पिण्डास्त्रयस्तु वसुधे यावत्तिष्ठन्ति भूतले ॥
आप्यायमानाः पितरस्तावत्तिष्ठन्ति वै गृहे ।उपस्पृश्य शुचिर्भूत्वा दद्यात् शान्त्युदकानि च ॥
प्रणम्य शिरसा भूमौ निर्वापस्य च धारिणीः ।वैष्णवी काश्यपी चेति अक्षय्या चेति नामतः ॥
भक्षयेत् प्रथमं पिण्डं पत्न्यै देयञ्च मध्यमम् ।तृतीयमुदके दद्यात् श्राद्धे एवं विधिः स्मृतः ॥
पितृदेवं विसृज्याथ भक्त्या तु प्रणमेत्तु तान् ।एवं दत्तेन तुष्यन्ति पितृदेवा न संशयः ॥
दीर्घायुष्यं प्रयच्छन्ति पुत्त्रपौत्त्रधनानि च ।तेनोत्तमेषु विप्रेषु दद्यात् श्राद्धं विधानतः ॥
अन्यथा तत्तु वै श्राद्धं निष्फलं नास्ति संशयः ।मन्त्रहीनं क्रियाहीनं यत् श्राद्धं कुरुते द्विजः ।मद्भक्तस्यासुरेन्द्रस्य फलं भवति भागतः ॥
”इति वाराहे पितृयज्ञनिर्णयनामाध्यायः ॥
* ॥
तस्याधिकारिक्रमो यथा, --“पुत्त्रः पौत्त्रः प्रपौत्त्रो वा भ्राता वा भ्रातृ-सन्ततिः ।सपिण्डसन्ततिर्बापि क्रियार्हा नृप जायते ॥
तेषामभावे सर्व्वेषां समानोदकसन्ततिः ।मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा ॥
कुलद्वयेऽपि चोत्सन्ने स्त्रीभिः कार्य्या क्रिया नृप ।संघातान्तर्गतैर्व्वापि कार्य्याः प्रेतस्य याःक्रियाः ॥
उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः ।पूर्व्वाः क्रिया मध्यमाश्च तथा चैवोत्तराःक्रियाः ॥
त्रिप्रकाराः क्रियास्त्वेतास्तासां भेदं शृणुष्व मे ।आदाहवार्य्यायुधादिस्पर्शाद्यन्तास्तु याः क्रियाः ॥
ताःपूर्व्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ।प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु ॥
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्तेता नृपो-त्तराः ।पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ॥
संघातान्तर्गतैश्चैव राज्ञा वा धनहारिणा ।पूर्व्वाः क्रियास्तु कर्त्तव्याः पुत्त्राद्यैरेव चोत्तराः ।दौहित्रैर्व्वा नरश्रेष्ठ कार्य्यास्तत्तनयैस्तथा ।मृताहनि च कर्त्तव्याः स्त्रीणामप्युत्तराः क्रियाः ॥
प्रतिसंवत्सरं राजन्ने कोद्दिष्टं विधानतः ॥
”इति विष्णुपुराणे ३ अंशे १३ अध्यायः ॥
* ॥
याज्ञवल्क्य उवाच ।“अथ श्राद्धविधिं वक्ष्ये सर्व्वपापप्रणाशनम् ।अमावास्याष्टकावृद्धिः कृष्णपक्षोऽयनद्वयम् ॥
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत् सूर्य्यसंक्रमः ।व्यतीपातो मजच्छाया ग्रहणं चन्द्रसूर्य्ययोः ॥
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीत्तिताः ॥
* ॥
अग्रो यः सर्व्ववेदेषु श्रोत्रियो वेदविद्युवा ।वेदार्थविज्ज्येष्ठसामास्त्रिमधुस्त्रिसुपर्णिकः ॥
स्वस्रीयऋत्विग् जामातृयाज्यश्वशुरमातुलाः ।त्रिणाचिकेतदीहित्रशिष्यसम्बन्धिबान्धवाः ॥
कर्म्मनिष्ठास्तपोनिष्ठाः पाञ्चाग्निर्ब्रह्यचारिणः ।पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः ॥
* ॥
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ॥
अवकीर्ण्यादयो ये च ये चाचारविवर्ज्जिताः ।अवैष्णवाश्च ये सर्व्वे न श्राद्धार्हाः कदाचन ॥
* ॥
निमन्त्रयेच्च पूर्व्वेद्युर्द्विजैर्भाव्यञ्च संयतैः ।आचान्तश्चैव पूर्व्वाह्णे ह्यासने सूपवेशयेत् ॥
युग्मान्दैवे तथा पित्रे सुप्रदेशे स्वशक्तितः ।द्वौ दैवे प्रागुदक्पित्र्ये त्रीण्येकं चोभयोः पृथक् ॥
मातामहानामप्येवं तन्त्रं वा वैश्यदेविकम् ।हस्तप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥
आवाह्य तदनुज्ञातो विश्वेदेवास इत्यृचा ।यवैरन्ववकीर्य्याथ भाजने सपवित्रके ॥
शन्नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ।या इति मन्त्रेण हस्तेष्वे व विनिक्षिपेत् ॥
नन्धोदके तथा धूपमाल्यदानप्रदीपकम् ।अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥
द्विगुणांस्तु कुशान् दत्त्वा उषन्तस्त्वेत्यृचापितॄन् ।आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ॥
यवार्थस्तु तिलैः कार्य्यः कुर्य्यादर्घ्यादि पूर्ववत् ।दत्त्वा तु संश्रवांस्तेषां पात्रे कृत्वा विधानतः ॥
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ।अग्नौ करिष्येत्यादाय पृच्छत्यन्नं घृतप्लु तम् ॥
कुरुष्वेति तथोक्तोऽग्नौ हुत्वासौ पितृयज्ञतः ।हुतशेषं प्रदद्याच्च भाजनेषु समाहितः ॥
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ।दत्त्वान्नं पृ थवी ते पात्रमिति पात्राभिमन्त्रणम् ॥
कृत्वेदं विष्णुरित्यन्ने निजाङ्गुष्ठं निवेशयेत् ।सव्याहृतिकां गायत्त्रीं मधुवातेत्यृचं तथा ॥
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।अन्नमिष्टं हविष्यञ्च दद्यादक्रोधनोऽत्वरः ॥
आतृप्तेश्च पवित्राणि जप्त्वा पूर्व्वजपन्तथा ।अन्नमादाय तृप्ताः स्थ शेषञ्चैवानुमन्य ह ॥
तदन्नं प्रकिरेद्भूमौ दद्याच्चापः सकृत् सकृत् ।सर्व्व मन्नमुपादाय सतिलं दक्षिणामुखः ॥
उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् ।मातामहानामप्येवं दद्याच्चाचमनं ततः ॥
स्वस्ति प्रीयन्तामिति चाहैवं विश्वेदेवान् जलंददत् ।स्वस्तिवाच्य ततो दद्यादक्षय्योदकमेव च ॥
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदीरयेत् ।वाच्यतामित्युनुज्ञातः पितृभ्यश्च स्वधोच्यताम् ॥
विप्रैरस्तु स्वधेत्युक्तो भूमौ सिञ्चेत्ततो जलम् ।दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च ॥
श्रद्धा च नो मा व्यगमत् । बहु देयञ्च नोऽस्त्वितिइत्युक्त्वापि प्रियं वाचं प्रणिपत्य विसर्ज्जयेत् ॥
वाजे वाजे इति प्रीत्या पितृपूर्व्वं विसर्ज्जनम् ।यस्मि स्ते संश्रवाः पूर्व्व मर्घ्यपात्रे निपातिताः ॥
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत् ।प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ॥
ब्रह्मचारी भवेत्तान्तु रजनीं भार्य्यया सह ।एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दिमुखानपि ॥
यजेत यवकर्क्कन्धुमिश्राः पिण्डा यवैः श्रिताः ।एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ।आवाहनाग्नौ करणरहितं अपसव्यवत् ।उपतिष्ठतामित्यक्षय्यस्थाने विप्रान् विसर्ज्जयेत् ॥
अभिरम्यतां प्रब्रूयात् ब्रूयुस्तेऽभिरताः स्म ह ।गन्धोदकतिलैमिश्रं कुर्य्यात् पात्रचतुष्टयम् ॥
अर्घ्याथं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ।ये समाना इति द्वाभ्यां शेषं पूर्व्ववदाचरेत् ॥
एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।अर्व्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत् ॥
तस्याप्यन्नं सोदकुम्भं दद्यात् संवत्सरं द्विज ।पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ॥
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् ।मासवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः ॥
दद्याद्वर्षा त्रयोदश्यां मघासु च न संशयः ।प्रतिपत्प्रभृतिष्वेवं कन्यादीन् श्राद्वदो भवेत् ॥
शस्त्रेण निहतानान्तु चतुर्द्दश्यां प्रदीयते ॥
* ॥
स्वर्गं ह्यपत्यमोजश्च शौर्य्यं क्षेत्रं बलं तथा ॥
पुत्त्रश्रेष्ठान् ससौभ्याम्यानपत्यं मुख्यतां शुभम् ।प्रवृत्तचक्रतां पुत्त्रान् बाणिज्यप्रभृतींस्तथा ॥
अरोगित्वं यशो वीतशोकतां परमां गतिम् ।धनं विद्यां भिषक्सिद्धिं कुप्यं गोऽजाविकं तथा ॥
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ।कृत्तिकादिभरण्यन्तं सकामानाप्नुयादिमान् ॥
वस्त्राद्याः प्रीणयन्त्येव नवं श्राद्धं कृतं द्विजाः ।आयुष्प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥
प्रयच्छति तथा राज्यं प्रीतो नित्यं पितामहः ॥
”इति गारुडे ९९ अध्यायः ॥
* ॥
अपिच ।“व्याशश्राद्धमहं वक्ष्ये भुक्तिमुक्तिप्रदं नृणाम् ।पूर्व्वं निमन्त्रयेद्विप्रान् निशि स्युर्ब्रह्मचारिणः ॥
प्रदक्षिणोपवीतेन देवान् वामोपवीतिना ।पितॄन्निमन्त्रयेत् पादौ क्षालयेद्वाक्यमन्त्रतः ॥
ओँ स्वागतं भवद्भिरिति प्रश्नः । ओँ सुस्वागतमितितैरुक्ते ओँ विश्वेभ्यो देवेभ्य एतत् पादोकमर्घ्यंस्वाहा पितृभ्यः स्वधा इति देवब्राह्मणपादयो-र्देवतीर्थेनाभुग्नकुशजलकुसुमदानम् । ततोदक्षिणामुखस्य वामोपवीतेन अमुकगोत्रेभ्यःअस्मत्पितृपितामहप्रपितामहेभ्यो यथानाम-शर्म्मभ्यः सपत्नीकेभ्य एतत् पादादकमर्घ्यं स्वधाइति पित्रादिब्राह्मणपादयोः पितृतीर्थेन भुग्न-कुशतिलकुसुमजलदानम् । एवं मातामहादिषु । एतद्व आचमनीयं स्वाहा स्वधेतिब्राह्मणहस्ते । एष वो अर्घ्यः इति ब्राह्मणहस्त-ऽर्ध्यदानम् । एतद्वः पुष्पं इति ब्राह्मणहस्ते-पुष्पदानम् । ओँ सिद्धमिदमासनं इहासध्व-मित्यभिधाय ओँ भूः ओँ भुवः ओँ स्वः ओँ महःओँ जनः ओँ तपः ओँ सत्यं सप्तव्याहृतिभिःपूर्व्व मुखदेवव्राह्मणोपवेशनम् । उत्तराभिमुखाःपितरः ओँ देवताभ्यः पितृभ्यश्च महायोगिभ्यएवच । नमः स्वधायै स्वाहायै नित्यमेव नमोनमः इति त्रिर्ज्जपेत् । ओँ अद्यास्मिन्देशेअमुकमासे अमुकराशिगते सवितरि अमुकस्यांतिथौ अमुकगोत्राणामस्मत्पितृपितामह-प्रपितामहानां यथानामशर्म्मणां विश्वेदेवपूर्व्वकंश्राद्धमहं करिष्ये ओँ विश्वेभ्यो देवेभ्य इदमासनंस्वाहा । ओँ विश्वान् देवानावाहयिष्ये ओँआवाहय इत्युक्ते ओँ विश्वेदेवास आगत शृणु-ताम इमं हवं एदं वर्हिर्निषीदत । ओँ विश्व-देवाः शृणुतेमं हवं ये मे अन्तरीक्षे य उप-द्यविष्ट येऽग्निजिह्वा उत वा यजत्रा आस-द्यास्मिन् वर्हिषि मादयध्वम् । ओँ ओषधयःसमवदन्त सोमेन सह राज्ञा यस्मै कृणोतिब्राह्मणस्त्वं राजन् पारयामसि ।ओँ आगच्छन्तु महाभागा विश्वेदेवा महाबलाःये यत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥
ओँ अपहतासुरारक्षांसि वेदिसदः । इतित्रिभिर्यवविकिरणम् । ओँ पवित्रमहं करिष्येओँ कुरुष्वेति तेनोक्ते साग्रकुशपत्रद्धयं प्रादेश-प्रमाणं कृत्वा ओँ पवित्रे स्थो वैष्णव्यौ अनेनंकुशान्तरेण छित्त्वा ओँ विष्णुर्मनसा पूते स्थःइत्युभ्य क्ष्य कुशान्तरेण त्रिवृतं कृत्वा पात्रेपवित्रनिवेशनम् । शन्नो देवीरभीष्टये आपोभवन्तु पीतये शंयोरभिस्रवन्तु नः । इति पात्रेजलदानम् । ओँ यवोऽसि यवयास्मद्दे शो यवया-राती इति यवदानम् ।ओँ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।ईखरीं सर्व्वभूतानां त्वामिहोपह्वये श्रियम् ॥
इति गन्धदानम् ॥
ओँ श्रीश्च ते लक्ष्मीश्च पत्न्या इति पुष्पदानम् ।ओँ या दिव्या आपः पयसा सम्बभूवुर्य्या अन्त-रीक्षा उतपार्थ वीर्य्या हिरण्यवर्णा यज्ञियास्तान आपः शिवाः संश्योनाः सुहवा भवन्तु ओँधुरिलोचनसंज्ञकेभ्यो विश्वे भ्यो देवेभ्य एषोऽर्घ्योनमः । इति हस्तेऽर्घ्यं दत्त्वा अनेनैव पात्रेणसप्लवपवित्रग्रहणं प्रथमपात्रेण संप्लवं पवित्रञ्चगृहीत्वा ब्राह्मणदक्षिणपार्श्वे कुशोपरि उर्द्ध्व-मुखपात्रे स्थापनं तदुपरि कुशदानम् । ततःओँ धुरिलोचनसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य एतानिगन्धपुष्पधूपदीपवासोयुगसोत्तरीययज्ञोपवीतानिनमः । गन्धादिदानमच्छ्रिद्रमस्तु संकल्पसिद्धि-रस्तु । ब्राह्मणवाचनम् । ततः पितृपितामह-प्रपितामहमातामहप्रमातामहवृद्धप्रमाता-महानां सपत्नीकानां श्राद्धमहं करिष्ये । अनु-ज्ञापनम् । ओँ कुरुष्वेति ब्राह्मणैरुक्ते । ओँ देव-ताभ्यः तृइभ्यश्च महायोगिभ्य एव च । इतित्रिर्जपेत् । तत ओँ अमुकसगोत्राणां अस्मत्-पितृपितामहप्रपितामहानां यथानामशर्म्मणांसपत्नीकानां श्राद्धं युष्मास्वहं करिष्ये । ओँकुरुष्व श्राद्धकरणानुज्ञानम् । ओँ अमुक-सगोत्रेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्योयथानामशर्म्मभ्यः सपत्नीकेभ्य इदमासनं स्वधा ।ब्राह्माणवामपार्श्वे आसनम् । ओँ पितॄनावाह-यिष्ये ओँ आवाहयेत्युक्ते ओँ उशन्तस्त्वानिधीमह्यु-शन्तः समिधीमही । उशन्नु शत आवह पितॄन्हविषे अत्तवे । ओँ आयान्तु नः पितरःसौम्यासो अग्निष्वात्ताः पथिभिर्देवयानैः ।अस्मिन् यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्व-स्मान् । इत्यावाहनम् । ओँ अपहतासुरारक्षांसि वेदिसदः । त्रिस्तिलविकिरणम् । ओँतिलोऽपि सोमदैवत्यो गोसवो देवनिर्म्मितः ।प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहिनः स्वाहा । तिलदानम् । गन्धपुष्पं हस्ताभ्यांदत्त्वा पितृपात्रमुत्थाप्य या दिष्येति पठित्वाअमुकगोत्र अस्मत्पितः अमुकशर्म्मन् सपत्रीकएष ते अर्घ्यः स्वधा । एवं पितामहादौ ।सपवित्रं पात्रं गृहीत्वा ब्राह्मणवामपार्श्वेटक्षिणाग्रकुशोपरि ओँ पितृभ्यः स्थानमसीतिअधोमुस्वपात्रस्थापनम् । ओँ शुन्धन्तां लोकाःपित्मदनाः पितृसदनमसि । अधोमुखपात्र-स्पर्शनम् । ततः अमुकसगोत्रेभ्यः अस्मत्पितृ-पितामहप्रपितामहेभ्यः मपत्नीकेभ्यः एतानिगवपुप्पध पदीपवासोयुगसोत्तरीययज्ञोपवीतानिस्वधा । पितृतीर्थेन गन्धादिदानम् । गन्धादि-दानमच्छिद्रमस्तु सङ्कल्पसिद्धिरस्तु । ब्राह्मण-वाचनम् । एवं मातामहादीनामनुज्ञापनादिकर्म्म । ओँ या दिव्येति भूमिसम्मार्ज्जनम् । ततोघृताक्तमन्नं गृहीत्वा दक्षिणोपवीतं पितृ-ब्राह्मणम् । ओँ अग्नौ करणमहं करिष्ये ओँ कुरु-ष्वेति तेनोक्ते ओँ अग्नये कव्यवाहनाय स्वाहाओँ सोमाय पितृमते स्वाहा । आहुतिद्वयं देव-ब्राह्मणहस्ते दत्त्वा अवशिष्टार्द्धंपिण्डार्थं स्थाप-यित्वा अपरमर्द्धं पित्रादिपात्रे मातामहादिपात्रेच निःक्षिपेत् । पात्रे अन्नादिनिधाय कु शंदत्त्वअधोमुखाभ्यां पाणिभ्यां पात्रं गृहीत्वा । ओँपृथिवी ते पात्रं द्यौः पिधानं ब्राह्मणस्य मुखेअमृते अमृतं जुहोमि स्वाहा । पात्राभि-मन्त्रणम् । इदं विष्णुर्व्विचक्रमे त्रेधा निदधेपदम् । समूढमस्य पांशुले विष्णो हव्यं रक्षस्व ।इत्यन्नोपर्य्यधोमुखद्विजाङ्गष्ठनिवेशनम् । ओँ अप-हतेति त्रिर्य्यवविकरणम् ।ओँ निहन्मि सर्व्वं यदमेध्यवद्भवेत्हताश्च सर्व्वेऽसुरदानवा मया ।रक्षांसि यक्षाः सपिशाचसंघाहता मया यातुधानाश्च सर्व्वे ॥
इति सिद्धार्थविकिरणम् ॥
ततः ओँ धुरिलोचनसंज्ञकेभ्यो विश्वे भ्यो देवेभ्यएतदन्नं सघृतं सपानीयं सव्यञ्जनं स्वाहा इतिवारिकुशाद्यैरन्नसङ्कल्पनम् । ओँ श्राद्धमिद-मच्छिद्रमस्तु सङ्कल्पसिद्धिरस्तु । ततो वामोप-वीतेन सव्यञ्जनं सघृतमन्नं पित्रादिपात्रे निधायतदुपरि भूमिसंलग्नकुशं दत्त्वा ओँ पृथिवी तेपात्रं अभिमन्त्रणम् । उत्तानाभ्यां पाणिभ्यांपात्रं गृहीत्वा ओँ इदं विष्णुरित्यन्नोपरि उत्ता-नाङ्गुष्ठं निवेशयेत् ओँ अपहता इति तिलविकि-रणम् । भूमिपातितवामजानुः । अमुकगो-त्रेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्य अमु-कामुकशर्म्मभ्यः सपत्नीकेभ्य एतदन्नं सघृतंसपानीयं सव्यञ्जनं प्रतिषिद्धवर्ज्जितं स्वधा ।अन्नसङ्कल्पः । ओँ ऊर्ज्जं वहन्तीरमृतं घृतंपयः कीलालं परिस्रु तं स्वधास्त तर्पयत मेपितॄन् । दक्षिणामुखवारित्यागः । ओँअन्नमिदमच्छिद्रमस्तु सङ्कल्पसिद्धिरस्तु । ततःसव्याहृतिकया गायत्त्र्या विसर्ज्जयित्वा मधु-वाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नःसन्त्वोषधीः । मधुनक्तमुतोषसो मधुमत् पार्थिवंरजः मधु द्यौरस्तु नः पिता । मधुमान्नो वन-स्पतिर्मधुमानस्तु सूर्य्यो माध्वीर्गावो भवन्तु नः ॥
मधु मधु मधु इति जपः । यथा सुखं बाग्यताजुषध्वमिति ब्रूयात् । भुक्तवत्सु सप्तव्याधादिकंपितृस्तोत्रं जपत् ।ओँ सप्तव्याधा दशार्णेषु मृगाः कालाञ्जरे गिरौ ।चक्रवाकाः सरद्वीपे हंसाः सरसि मानसे ॥
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।प्रस्थिता दूरमध्वानं यूयं तेभ्योऽवसीदत ॥
ततस्तृप्तेषु । दक्षिणामुखो वामोपवीतीउच्छिष्ठाग्रतः ।ओँ अग्निदग्धाश्च ये जीवाः येऽप्यदन्धाः कुलेमम ।भूमौ दत्तन तृप्यन्तु तृप्ता यास्तु परां गतिम् ॥
इति भूमौ कुशोपरि सघृमन्नं जलप्लुतं विकि-रेत् । ततो देवब्राह्मणक्रमेण जलगण्डूष दत्त्वापूर्व्ववत् पुनः सव्याहृतिकां सावित्रीं मधुवाते-त्यृचं मधु मध्विति च जप्त्वा ओँ रुचितं भव-द्भिरिति देवब्राह्मणप्रश्नः । सुरुचितमितितेनोक्ते ओँ शेषमन्नमप्यस्तीति प्रश्नः । इष्टैः सहभुङ्क्ष्वेति तेनोक्ते पित्रादिब्राह्मणे वामोप-वीतेन ओँ तृप्तास्थ इति प्रश्नः । ओँ तृप्तास्मइत्यक्त शेषमन्नेति प्रश्नः । ओँ इष्टैः सहभुङ्क्ष्वेति तेनोक्ते मातामहादिब्राह्मणे तथैवप्रश्नः । ततः पित्रादिब्राह्मणे पिण्डानहं पात-यिष्ये पातयेत्युक्ते । तदुच्छिष्टाग्रतोऽभ्युक्षणंमण्डलञ्च चतुष्कोणं तिलविकिरणं ओँ अमुक-गोत्र अस्मत्पितः अमुकशर्म्मन् सपत्नीकएतत्ते पिण्डासनं स्वधा इत्थं रेखामध्ये पिता-महाय प्रपितामहाय च । सव्याहृतिकांगायत्त्रीं मधुवातेति त्रिर्ज्जपन् अन्नं साज्यं पिण्डकृत्वा कुशोपरि अमुकगोत्रास्मत्पितः अमुक-शर्म्मन् सपत्नीक एष ते पिण्डः ये चात्र त्वामनुयांश्च त्वमनु तस्मै ते स्वधा । एवं पितामह-प्रपितामहमातामहप्रमातामहवृद्धप्रमाताम-हेभ्यः । पिण्डशेषविकिरणं पिण्डान्तिके । ओँलेपभुजः प्रीयन्तां इति स्तरणकुशेषु हस्त-मार्ज्जनम् । प्रक्षालितेन पिण्डपात्रोदकेन अमुकगोत्र अस्मत्पितः अमुकशर्म्मन् सपत्नीकएतत्ते जलमवनेनिक्ष्व ओँ ये चात्र त्वामनु यांश्चत्वमनु तस्मै ते स्वधेति पितृपिण्डसेचनम् ।पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलि ओँ अत्रपितरो मादयध्वं यथाभागमावृषायध्वमितिजपः । अपः स्पृष्ट्वा वामेन परावृत्य उदङ्मुखश्चप्राणास्त्रिः संयम्य ।ओँ वसन्ताय नमस्तुभ्यं ग्रीस्माय च नमो नमः ।वर्षाभ्यश्च शरत्संज्ञ ऋतवे च नमः सदा ॥
हेमन्ताय नमस्तुभ्यं नमस्ते शिशिराय च ।माससंवत्सरभ्यश्च दिवसेभ्यो नमो नमः ॥
ओँ षड्भ्य ऋतुभ्यो नमः पितृभ्यो नमः । इतिजपः । वामेनेव परावृत्य दक्षिणामुखः अमीमदन्त पितरो यथाभागमावृषायिषत । इतिजपः । वासः शिथिलीकृत्याञ्जलिं कृत्वा ओँनमो वः पितरः पितरो नमो वः । इति जपः ।गृहान्नः पितरो दत्त । इति गृहवीक्षणम् ॥
ओँ सदो वः पितरो देष्मः । इति पिण्डवीक्ष-णम् । ओँ एतद्वः पितरो वासः इत्युच्चार्य्यअमुकगोत्र इत्यादिना एतत्ते वासः ओँ येचात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा ।दशाभवसूत्रदानम् । वामेन पाणिना उदकपात्रं गृहीत्वा । ओँ ऊर्ज्जं वहन्तीरमृतं घृतं पयःकीलालं इत्यादिना पिण्डोपरि बारिधारा-त्यागः । पूर्वस्थापितपात्रशेषोदकैः प्रत्येकं पिण्ड-सेचनम् । पिण्डवाह्येन गन्धादिदानम् । पिण्डो-परि कुशं हस्तञ्च दत्त्वा ओँ अक्षन्नमी मदन्त-ह्यवप्रिया अधूषत अस्तोषत स्वभानवो विप्रा नविष्टया मतीयो यान्न्विन्द्र ते हरीति जपः ।इत्थं मातामहादेर्ब्राह्मणानामाचमनं सुसुप्रो-क्षितमस्त्विति भूम्यभ्युक्षणं कृत्वा ।अपां मध्ये स्थिता देवा सर्व्वमप्सु प्रतिष्ठितम् ।ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तुनः ॥
शिवा आपः सन्त्विति हस्ते ब्राह्मणस्य जल-दानम् ।लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ।लक्ष्मीर्वस्ते सदा गोष्ठे सौमनस्यं सदास्तु मे ॥
मीमनस्यमस्तु पुष्पदानम् ।ओँ अक्षतञ्चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिश्चमे ।यद्यत् श्रेयस्करं लोके तत्तदस्तु सदा मम ॥
ओँ अक्षतञ्चारिष्टञ्चास्तु यवतण्डुलदानम् । अमुक-गोत्राणामस्मत् पितृ-पितामह-प्रपितामहानांसपत्नीकानां दत्तमिदमन्नपानादिकमक्षय्यमस्तुइति पित्रादिब्राह्मणहस्ते सतिलजलदानम् ।यजमानस्य प्रश्ने अस्त्विति ब्राह्मणो वदेत् ।एवं मातामहादीनामक्षय्यम् । आशिषः ।ओँ अघोराः पितरः सन्तु गोत्रं नो वर्द्धताम् ।दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च ।श्रद्धाच नो मा व्यगमद्वहु देयञ्च नोऽस्त्विति ॥
अन्नञ्च नो बहु भवेदतिथोंश्च लभेमहि ।याचितारश्च नः सन्तु मा च याचिष्म कञ्चन ॥
एता एवाशिषः सन्तु सौमनस्यमस्तु सुसुखंचास्तु इत्युक्ते पिण्डपात्रे अर्घ्यसम्बन्धान् कुशान्पवित्राणि चास्तीर्य्य पित्रादिब्राह्मणं स्पृष्ट्वास्वधां वाचयिष्ये ओँ वाच्यतां ओँ पितृपितामह-प्रपितामह-मातामह-प्रमातामह-वृद्धप्रमाता-महेभ्यो यथानामशर्म्मभ्यः सपत्नीकेभ्यः स्वधो-च्यतां अस्त स्वधा इत्युक्ते ऊर्ज्जं वहन्तीरमृतंघृतं इति पिण्डानामुपरि वारिधारां दद्यात् ।तत ओँ विश्वेदेवा अस्मिन् यज्ञे प्रीयन्तां देव-ब्राह्मणहस्ते यवोदकदानं ओँ प्रीयन्तामितितेनोक्त ओँ देवताभ्य इति त्रिर्ज्जपेत् । अधो-मुखपिण्डपात्राणि चालयित्वा आचम्यदक्षिणोपवोती पूर्व्वाभिमुखः ओँ अमुकसगोत्रायअमुकशर्म्मणे ब्राह्मणाय सपत्नीकाय श्राद्ध-प्रतिष्ठार्थं दक्षिणामिदं रजतं तुभ्यमहं ददेइति दक्षिणां दद्यात् एवं मातामहादौ ततोदेवब्राह्मणाय दक्षिणादानम् । ततः पितृ-ब्राह्मणे । पिण्डपात्रमुत्तानं कृत्वा ओँ पिण्डाःसम्पन्नाः ओँ सुसम्पन्ना इति पिण्डे क्षीरधारांदत्त्वा पिण्डचालनम् ।ओँ वाजे वाजे वतवाजिनो नोधनेषु विप्रा अमृता ऋतज्ञाः ।अस्य मध्वः पिबत मादयध्वंतृप्ता यात पथिभिर्देवयानैः ॥
इति पित्रादिविसर्ज्जनम् ॥
ओँ आ मा वाजस्य प्रसवो जगम्या-देमे द्यावा पृथिवी विश्वरूपे ।आ मा गन्तु पितरा मातरा युव-मा मा सोमोऽमृतत्वाय गम्यात् ॥
इति देवविसर्ज्जनम् ॥
ओँ अभिरम्यतामित्युक्ते अभिरताः स्म इतिब्राह्मणैरनुज्ञातस्य निवर्त्तनम् । गवादिषु पिण्ड-प्रतिपादनमिति ।एष श्राद्धविधिः प्रोक्तः पठतां पापनाशनः ।अनेन विधिना श्राद्धं कृतं वै यत्र कुत्रचित् ॥
अक्षयं स्यात् पितॄणाञ्च स्वर्गप्राप्तिर्ध्रुवा तथा ।इत्युक्तं पार्व्वणश्राद्धं पितॄणां ब्रह्मलोकदम् ॥
”इत्याद्ये गारुडे पार्व्वणश्राद्धम् २२२ अध्यायः ॥
ब्रह्मोवाच ।“नित्यश्राद्धं प्रवक्ष्यामि पूर्व्ववत्तद्विशेषयेत् ॥
ओँ अमुकसगोत्राणामस्मत्पितृपितामहप्रपि-तामहानाममुकशर्म्मणां सपत्नीकानां श्राद्धंसिद्धान्नेन युष्मभ्यमहं करिष्ये ।आसनादिकमत्र स्याद्विश्वे देवविवर्ज्जितम् ।वृद्धिश्राद्धं प्रवक्ष्यामि पूव्ववत्तद्विशेषकम् ॥
जातपुत्त्रमुखदर्शनादौ वृद्धिश्राद्धे पूर्व्वाभिमुखेषुदक्षिणोपवीतिषु मधुयववदरमिश्राः पिण्डा दैवतीर्थेन नमस्कारान्तेन दक्षिणोपचारेणकर्त्तव्यम्दक्षिणजानु गृहीत्वा ओँ अद्यास्मदीयामुकवृद्धौअमुक-गोत्राणामस्मत्पितृ-पितामहप्रपिता-मह-मातामह-प्रमातामह-वृद्धप्रमातामहानांअमुकशर्म्मणां सपत्नीकानां नान्दीमुखानांश्राद्धेकर्त्तव्ये वसुसत्यसंज्ञकानां विश्वेषां देवानांश्राद्धं सिद्धान्नन युष्मासु मया कर्त्तव्यम् । इतिदेवब्राह्मणामन्त्रणं ओँ करिष्यसीति तेनोक्तेइत्थमेव मातृपितामहीप्रपितामहीनां देवब्राह्मणामन्त्रणम् । तत ओँ अमुकगोत्राया मत्-प्रतितामह्या अमुको देव्या नान्दोमुख्याः श्राद्धंसिद्धान्नेन युष्मासु मया कर्त्तव्यमिति प्रपिता-महीब्राह्मणामन्त्रणम् । करिष्यसीति तेनोक्तेइत्थमेव पितामहाब्राह्मणामन्त्रणं मातृब्राह्मणामन्त्रणञ्च । तत ओँ अद्यामुकवृद्धौ अमुक-गोत्राणामस्मत्-प्रपितामह-पितामह-पितॄणांनान्दोमुखानां श्राद्धं सिद्धान्नेन युष्मासु मयाकर्त्तव्यमिति ब्राह्मणामन्त्रणं ओँ करिष्यसीतितेनोक्ते इत्थमेव वृद्धप्रमातामहादिब्राह्मणा-मन्त्रणम् । देवपितृसर्व्वदेवब्राह्मणश्राद्धकरणानु-ज्ञापनम् । आसने ओँ विश्वे देवास आगत शृणु-ताम् इमं हवं एदं वर्हिर्निषीदत ओँ विश्वे-देवाः शृणुतेमं हवं ये मेऽन्तरीक्षे य उपद्यविष्टये अग्निजिह्वा उतवा यजत्रा आसद्यास्मिन्वर्हिषि मादयध्वम् । ओँ आगच्छन्तु महाभागाविश्वेदेवा इति विश्वेदेवावाहनम् । गन्धादि-दानञ्च । अच्छिद्रावधारणवाचनम् । ततः प्रपि-तामहीप्रभृतीनामनुज्ञापनं आसनं गन्धादि-दानं अच्छिद्रावधारणम् । इत्थं प्रपितामहा-दीनां अनुज्ञापनम् । आसनं आवाहनेगन्धादिदानम् । एवं वृद्धप्रमातामहादीनांअनुज्ञापनादिकरणम् । ओँ वसुसत्यसंज्ञकेभ्योविश्वेभ्यो देवेभ्य एतदन्नं सघृतं सपानीयं सव्य-ञ्जनं सवदरे सदधि प्रतिषिद्धवर्ज्जितं नमः ।इति अन्नसङ्कल्पनम् । ओँ अमुकमोत्रे मत्-प्रपितामहि अमुकीदेवि नान्दिमुखि एतदन्नंसवदरं सदधि नमः । इत्थं पितामहौमातृ-ब्राह्मणे । ततः प्रपितामहादिब्राह्मणपात्रे ओँअमुकगोत्रेभ्यो मत्प्रपितामहपितामहपितृभ्यएतदन्नं सवदरं सदधि सव्यञ्जनं सपानीयं नमः ।एवं वृद्धप्रमातामहादिभ्यः ॥
* ॥
एकोद्दिष्टं पुरावश्यं तद्विशेषं वदे शृणु ॥
प्रथमं निमन्त्रणं पादप्रक्षालनं आसनम् । अद्यअमुकगोत्रस्य मत्पितुरसुकदेवशर्म्मणः प्रति-सांवत्मरिकमेकोद्दिष्टं श्राद्धं सिद्धान्नेन युष्मासुअहं करिष्ये । श्राद्धकरणानुज्ञापनम् । आसनंअर्घ्यः । गन्धादिदानं पितृस्थापनम् । अन्न-संङ्कल्पनं जप्यं निवीती उत्तराभिमुखीभूया-तिथिश्राद्धं कुर्य्यात् । ततस्तृप्तिं ज्ञात्वा दक्षि-णाभिमुखो वामोपवीती उच्छिष्टसमीपे येअग्निदग्धा इति अन्नविकिरणम् । ओँ अमुक-गोत्र पितुरमुकदेवशर्म्मन् एतत्ते जलमवने-निक्ष्व ये चात्र त्वामनु यांश्च त्वमनु तस्मै तेस्वधा इति रेखोपरि दक्षिणामुखवारिधारा-दानम् ।” इति गारुडे २२३ अध्यायः ॥
* ॥
ब्रह्मोवाच ।“सपिण्डीकरणं वक्ष्ये पूर्णेऽब्दे तत्क्षयाहनि ।कृत्वा कुतपकाले तु प्रेतादेः पितृलोकदम् ।सपिण्डीकरणं कुर्य्यात् अपराह्वे तु पूर्व्ववत् ॥
पितामहादिब्राह्मणनिमन्त्रनम् । ओँ पुरोरवोमाद्रवःसंज्ञकेभ्यो देवेभ्य एतदासनं नमः ।वामपार्श्वे चासनदानम् । ततः पितामह-प्रपितामहवृद्धप्रपितामहानां सपत्नीकानांश्राद्धमहं करिष्ये । इत्यनुज्ञाग्रहणम् । पात्र-त्रयकरणं पात्रोपरि कुशं दत्त्वा पात्रान्तरेणपिधाय अच्छिद्रावधारणान्तं परिसमाप्य तथैवपितुरपि सपत्नीकस्य प्रेतान्तनाम्ना श्राद्धकर-णानुज्ञापनम् । देवपात्राच्छिद्रावधारणम् । तंपरिसमाप्य पितामहप्रपितामहवृद्धप्रपितामह-पितृक्रमेण पात्राणां मनाक् वाचनं उद्धाटनंकृत्वा ये समानाः संमनसः पितरो यमराज्ये ।तेषां लोकः स्वधा नमो यज्ञो देवेश कल्प्यताम् ॥
ये समानाः समनसो जीवा जीवेषु मामकाः ।तेषां श्रीर्मयी कल्प्यतां अस्मिन् लोके शतंसमाः ॥
एतन्मन्त्रद्वयेन पितृपात्रोदकं पितामहप्रपिता-महवृद्धप्रपितामहपात्रे दत्त्वा वृद्धप्रपितामह-पात्रं परित्यज्य पितामहप्रपितामहयोरुदकंपवित्रञ्च पितृपात्रे निक्षिपेत् । ततः पितृ-ब्राह्मणहस्ते पवित्रदानम् । पात्रपुष्पेण शिरसःकरपादार्च्चनं हस्तेऽन्यजलदानं हस्ताभ्यां पात्र-मुत्थाप्य ओँ या दिव्येति च पठित्वा अमुक-गोत्र मत्पितरमुक प्रेत एष ते अर्घ्यो येचात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा इतिपितृब्राह्मणहस्ते स्तोकमर्घ्योदकं पितृतीर्थेनदत्त्वा पितामहब्राह्मणहस्ते पवित्रदानं पात्र-पुष्पेण शिरः करपादार्च्चनं हस्तेऽन्यजलदानम् ।हस्ताभ्यां पात्रमुत्थाप्य या दिव्येति पठित्वाअमुकगोत्र मत्पितामह अमुकदेवशर्म्मन्सपत्नीक एष तेऽर्घ्यः स्वधा । पितृपात्रेणैवपितामहब्राह्मणहस्ते स्तोकमर्घ्योदकं दत्त्वा-शेषमुदवां पिण्डसेचनार्थं पात्रान्तरे निधायतेनैव पात्रेण पितामहब्राह्मणानां हस्तस्थंउदकं पवित्रञ्च गृीत्वा पितृब्राह्मणवामपार्श्वे-दक्षिणाग्रकुशोपरि पितृभ्यः स्थानमसीतिअधोमुखपात्रस्थापनम् । पितामहानां गन्धादि-दानं अग्नौकरणम् । देवानां अवशिष्टान्नंपितामहादिपात्रे क्षिपेत् । पितामहादिपात्रा-भिमन्त्रणादिवाचनपर्य्यन्तं क्रमेण समाप्य पितृब्राह्मणपात्राभिमन्त्रणं अङ्गुष्ठनिवेशनं तिल-विकिरणम् । सिद्धान्नविकिरणं कृत्वा अमुक-गोत्र मत्पितरमुक प्रेत एतत्ते अन्नं सघृतंसपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं ये चात्रत्वामनु यांश्च त्वमनु तस्मै ते स्वधा । ततोदेवप्रभृति आपोशानं दद्यात् । अतिथौप्राप्ते अतिथिश्राद्धं कुर्य्यात् अस्मिन्नवसरे ।ततो विकिरणम् । पितामहादौ प्रश्नं कृत्वापितृब्राह्मणे ओँ स्वदितं भवद्भिरिति प्रश्नःअमुकगोत्र मत्पितामह अमुकशर्म्मन् सप-त्रीक एष ते पिण्डो ये चात्र त्वामनु यांश्चत्वमनु तस्मै ते स्वधा । एवमन्ययोः । पिण्ड-दानमच्छिद्रमस्तु । सङ्कल्पसिद्धिरस्तु इति वाचनंकृत्वा ततः पितप्रे तपिण्डपातनं ओँ संकल्प-सिद्धिरस्त्विति वाचनम् । तंसमाप्य पिण्डं त्रिधाकृत्वा ये समानाः समनसः इति मन्त्रद्वयंपठित्वा पितामहप्रपितामहवृद्धप्रपितामह-पिण्डेषु क्षिपेत् । पिण्डेषु गन्धादिकं पिण्डचालनम् । अतिथिब्राह्मणे स्वदितमित्यादि प्रश्नः ।ब्राह्मणानामाचमनं भुक्तक्रमेण ताम्बूलदानंसुसुप्रोक्षितमस्तु शिवा आपः सन्तु वृद्धप्रपिता-महादिक्रमेण ब्राह्मणानां हस्ते जलदानम् ।गोत्रस्याक्षय्यमस्तु पितृब्राह्मणहस्ते ओँ उप-तिष्ठतामिति सतिलजलदानं नामगोत्रेण उप-तिष्ठतामिति तेनोक्ते अघोराः पितरः सन्तुमन्त्विति उक्ते स्वधां वाचयिष्ये इति पिता-महादिब्राह्मणानुज्ञापनम् ओँ वाच्यतामित्युक्तेपितामहादिभ्यः स्वधोच्यताम् अस्तु स्वधा इत्युक्तेपितृब्राह्मणे पितृभ्यः स्वधोच्यतां इति अस्तुस्वधा इत्युक्ते ओँ ऊर्ज्जं वहन्तीरमृतं इतिदक्षिणाभिमुखवारिधारात्यागः । ओँ विश्वेदेवाअस्मिन् यज्ञे प्रीयन्तामिति देवब्राह्मणहस्तेयवोदकदानम् । ओँ देवताभ्य इति त्रिर्ज्जपः ।पिण्डान् पात्रे तोलयित्वा आचम्य पितामहा-दिभ्यो दक्षिणां दत्त्वा ततः पितृब्राह्मणाय ततोअतिथिब्राह्मणाय च । आशिषो मे दीयन्ता-मित्याशीःप्रार्थनं आशिषः प्रतिगृह्यन्तां इत्युक्तेदातारो नोऽभिवर्द्धन्तामिति पात्रमुत्तानं कृत्वावाजे वाजे इति विसर्ज्जनम् । अभिरम्यतामितिपितृब्राह्मणविसर्जनम् ।सपिण्डीकरणश्राद्धं व्यासप्रोक्तं मया तव ।श्राद्धं विष्णुः श्राद्धकर्त्ता फलं श्राद्धादिकं हरिः ॥
”इति गारुडे २२४ अध्यायः ॥
* ॥
तिथ्यादिविशेषे श्राद्धकरणफलं यथा, --व्यास उवाच ।“अथ श्राद्धममावास्यां प्राप्य कार्य्यं हिजोत्तमैः ।पिण्डान्नाहार्य्यकं भक्तभुक्तिमुक्तिफलप्रदम् ॥
पिण्डान्नाहार्य्यकं श्राद्धं क्षीणे राजनि शस्यते ।अपराह्णे द्विजातीनां प्रशस्ते नामिषेण तु ॥
प्रतिपत्प्रभृति ह्येतास्तिथयः कृष्णपक्षके ।चतुर्द्दशीं वर्ज्ज यित्वा प्रशस्ता ह्युत्तरोत्तराः ॥
अमावास्याष्टकास्तिस्रः पौषमाघादिषु त्रिषु ।तिस्रश्चान्वष्टकाः पुण्या माघस्य दशमी तथा ॥
त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।शस्यपाकश्राद्धकाला नित्यं प्रोक्ता दिने दिने ॥
नैमित्तिकं हि कर्त्तव्यं ग्रहणे चन्द्रसूर्य्ययोः ।बान्धवानाञ्च मरणे नारकी स्यादथान्यथा ॥
काम्यानि चैव श्राद्धानि शस्यन्ति ग्रहणादिषु ।अयने विषुवे चैव व्यतीपातेऽप्यनन्तकम् ॥
संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।नक्षत्रेषु च सर्व्वेषु तथा कामे विशेषतः ॥
स्वर्गन्तु लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्च्चसम् ॥
मुद्राणां कर्म्मणां सिद्धिमार्द्रायां शस्यमेव च ।पुनर्व्वसौ तथा भूमिं श्रियं पुष्पे तथैव च ॥
सर्व्वान् कामान् तथा सर्पेपैत्रे सौभाग्यमेव चअर्य्यमणे त धनं विद्यात् फाल्गुन्यां पाप-नाशनम् ॥
ज्ञातिश्रेष्ठं तथा हस्ते चित्रायां सुबहून् सुतान् ।बाणिज्यसिद्धिं स्वातौ च विशाखायां सुवर्णकम् ।मैत्रे बहूनि मित्राणि राज्यं शक्रे तथैव च ।मूले कृषिं लभेद्यानं सिद्धिमाप्ये तथैव च ॥
सर्व्वान् कामान् वैश्वदेवे श्रैष्ठन्तु श्रवणे पुनः ।श्रविष्ठायां तथा कामान् वारुणेच क्ष परं बलम्अजैकपादके कुर्य्यादहिव्रध्ने गृहे शुभम् ।रेवत्यां बहवो रोगा ह्यश्विन्यां तुरगांस्तथा ॥
याम्ये चाजीवनं तस्मात् यदि श्राद्धं प्रयच्छतिआदित्यवारे चारोग्यं चान्द्रे सौभाग्यमेव च ॥
कौजे सर्व्वत्र विजयं सर्व्वान् कामान् बुधस्य चविद्यामभीष्टं जीवे तु धनं वै भार्गवे पुनः ।शनैश्चरे लभेदायुः प्रतिपत्सु शुभान् सुतान् ।कन्यकां वै द्धितीयायां तृतीयायां भुवन्तथा ॥
पशून् क्षुद्रांश्चतुर्थ्यान्तु पञ्चम्यां शोभनान्सुतान् ।षष्ठ्यां द्युतिं कृषिञ्चापि सप्तम्यां लभते नरः ॥
अष्टम्यामपि बाणिज्यं लभते श्राद्धदः सदा ।स्यान्नवम्यामेकस्वुरं दशम्यां द्विखुरं बहु ॥
एकादश्यान्तथा रूप्यं ब्रह्मवर्च्चस्विनः सुतान्द्वादश्यां जातरूपन्तु रजतं रौप्यमेव च ॥
ज्ञातिश्रैष्ठं त्रयोदश्यां चतुर्द्दश्यान्तु कुप्रजाःपञ्चदश्यां सर्व्वकाममाप्नोति श्राद्धदः सदा ॥
तस्माच्छ्राद्धं न कर्त्तव्यं चतुर्द्दश्यां द्विजातिभिः ।शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥
द्रव्यब्राह्मणसम्पत्ती न कालनियमः कृतः ।तस्माद्भोगापवर्गार्थं श्राद्धं कुर्य्यात् द्विजातिभिः ।कर्म्मारम्भेषु सर्व्वेषु कुर्य्यादाभ्युदयं पुनः ।पुत्त्रजन्मादिषु श्राद्धं पार्व्वणं पर्व्वणि स्मृतम् ॥
अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं तथाएकोद्दिष्टन्तु विज्ञेयं वृद्धिश्राद्धञ्च पार्वणम् ॥
एतत् पञ्चविधं श्राद्धं मनुना परिकीर्त्तितम् ।यात्रायां षष्ठमाख्यातं तत् प्रयत्नेन पालयेत् ॥
शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिकीर्त्तितम् ।दैविकं चाष्टमं श्राद्धं यत् कृत्वा मुच्यते भयात् ॥
सन्ध्यारात्र्योर्न कर्त्तव्यं रात्रोरन्यत्र दर्शनात् ।देशानाञ्च विशेषेण भवेत् पुण्यमनुत्तमम् ॥
गयायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।गायन्ति पितरो गाथां कीर्त्तयन्ति मनीषिणः ॥
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।यजेत् वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
एष्टव्या बहवः पुत्त्राः शीलवन्तो गुणान्विताः ।तेषान्तु समवेतानां यद्योकोऽपि गयां व्रजेत् ॥
गयां प्राप्यानुषङ्गेण यः श्राद्धं सम्यगाचरेत् ।तारिताः पितरस्तेन स याति परमां गतिम् ॥
वराहपर्व्वते चैव गङ्गायाञ्च विशेषतः ।वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥
गङ्गाद्वारे प्रभासे च विन्ध्यके नीलपर्वते ।कुरुक्षेत्रे च कुब्जाम्रे भृङ्गतुङ्गे महालये ॥
केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।सरस्वत्यां विशेषेण पुष्करे च विशेषतः ॥
नर्म्मदायां कुशावर्त्ते श्रीशैले भद्रकर्णके ।वेत्रवत्यां विपाशायां गोदावर्य्यां विशेषतः ॥
एवमादिष्वथान्येषु तीर्थेषु पुलिनेषु च ।नदीनाञ्चैव तीरेषु तुष्यन्ति पितरः सदा ॥
* ॥
ब्रीहिभिश्च यवैर्म्मांसैरद्भिर्म्मूलफलेन च ।श्यामकैश्च तथा शाकैर्नीवारैश्च प्रियङ्गुभिः ॥
गोधूमैश्च तिलैर्म्मुद्नेर्म्मासं प्रीणयते पितॄन् ।आम्रानाम्रातकानिक्षून् मृद्धीकांश्च सदाडि-मान् ॥
विदारीश्च भरुण्डांश्च श्राद्धकाले प्रदापयेत् ।लाजन्माधुयुतान्दद्यात् शक्तून् शर्कया सहदद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु ।औरभ्रे णाथ चतुरः शाकुनेन तु पञ्च च ॥
षण्माषान् छागमांसेन पाषतेनाथ सप्त व ।अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥
दशमासांस्तु तप्यन्ति वराहमहिषामिषैः ।शशकूर्म्मयोस्तु मांसेन मासानेकादशैव तु ॥
संवत्सरन्तु गव्येन पयसा पायसेन वा ।वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥
कालशाकं महाशल्कं खङ्गिनोऽप्यामिषं मधु ।आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्व्वशः ॥
क्रीत्वा लब्ध्वा स्वयंवाथ मृतानाहृत्यवै द्विजः ।दद्यात् श्राद्धे प्रयत्नेन यदस्याक्षयमुच्यते ॥
* ॥
पिप्पलिं शिग्रु कञ्चैव तथा चैव मसूरकम् ॥
कुष्माण्डालाववार्त्ताकान् भूतृणं सुरसं तथा ।कुसुम्भं पिण्डमूलं वै तण्डुलीयकमेव च ॥
राजमाषांस्तथा क्षीरं माहिषञ्च विवर्जयेत् ।कोद्रवान् कोविदारांश्च पालङ्कीं मरिचं तथा ।वर्जयेत् सर्व्वयत्नेन श्राद्धस्थाने द्विजोत्तमः ॥
”इति कौर्म्मे उपविभागे १९ अध्यायः ॥
व्यास उवाच ।“स्रात्वा यथोक्तं संतर्प्य पितॄन् चन्द्रक्षये द्विजःपिण्डान्वाहार्य्यकं श्राद्धं कुर्य्यात् सौम्यमनाःशुचिः ॥
पूर्व्वमेव परीक्षेत ब्राह्मणं वेदपारगम् ।तीर्थं तद्धव्यकव्यानां प्रदाने वातिथिः स्मृतः ॥
ये सोमपा विरजसो धर्म्मज्ञाः शान्तचेतसः ।व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥
पञ्चाम्निरप्यधीयानो यजुर्व्वेदविदेव च ।सुबह्वृक् च त्रिषवणस्त्रिमधुर्व्वाथ यो भवेत् ॥
त्रिणाचिकेतश्छन्दोगो ज्ये ष्ठसागम एव च ।अथर्व्व शिरसोऽध्येता रुद्राध्यायी विशेषतः ॥
अम्निहोत्रपरो विद्वान् न्यायविच्च षडङ्गवित् ।मन्त्रब्राह्मणविच्चैव यश्च स्याद्धर्म्मपाठकः ।ऋषिव्रती ऋषिकश्च तथा द्वादशवार्षिकः ॥
ब्रह्मदेयार्थसन्तानो गर्भशुद्धः सहस्रदः ।चान्द्रायणब्रतचरः सत्यवादी पुराणवित् ।गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥
विमुक्तः सर्व्वतो धीरो ब्रह्मभूतो द्विजोत्तमः ।महादेवार्च्चनरतो वैष्णवः पंक्तिपावनः ॥
अहिंसानिरतो नित्यमप्रतिग्राहकस्तथा ।सत्रिणो दाननिरता विज्ञेयाः पंक्तिपावनाः ॥
मातापित्रोर्हिते युक्तः प्रातःस्नायी च वा द्विजःअध्यात्मविन्मुनिर्द्दान्तो विज्ञेयः पंक्तिपावनः ॥
ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः ।श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पंक्तिपावनः ॥
वेदविद्याव्रतस्नातो ब्रह्मचर्य्यापरः सदा ।आथर्व्वणो मुमुक्षुश्च ब्राह्मणः पंक्तिपावनः ॥
असमानप्रवरको ह्यसगोत्रस्तथैव च ।असम्बन्धी च विज्ञेयाः ब्राह्मणाः पंक्तिपावनाः ॥
भोजयेद्योगिनं पूर्व्वं तत्त्वज्ञानरतिं यतिम् ।अलामे नैष्ठिकं दान्तमुपकुर्व्वाणकं तथा ॥
तदलाभे गृहस्थं वा मुमुक्षुं सङ्गवर्ज्जितम् ।सर्व्वालाभे साधकं वा गृहस्थमपि भोजयेत् ॥
प्रकृतेर्गुणतत्त्वज्ञो यस्याश्नाति यतिर्हविः ।फलं वेदविदां तस्य सहस्रादतिरिच्यते ॥
तस्मात् यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् ।योजयेद्धष्यकव्येषु त्वलाभे त्वितरान् द्विजान् ॥
एव वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरतुष्ठितः ॥
* ॥
मातामहं मातुलञ्च स्वस्रीयं श्वशुरं गुरुम ।दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोज-येत् ॥
* ॥
न श्राद्धे भोजयेन्मित्रं धनैः कार्य्योऽस्य संग्रः ।पैशाची दक्षिणा सा हि नैवामुत्र फलप्रदा ॥
कामं श्राद्धेऽर्च्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥
ब्राह्मणस्त्वनधीयानस्तुणाग्निरिव शाम्यति ।तस्मै हव्यं न दातव्यं न च भस्मनि हूयते ॥
यथौषरे बीजसुप्त्वा न वप्ता लभते फलम् ।तथानृचे हविर्द्दत्त्वा न दाता लभते फलम् ॥
यावतो ग्रसते पिण्डान् हव्यकव्ये ष्वमन्त्रवित् ।तावतो ग्रसते प्रेत्य दीप्तान् शूलर्ष्ट्ययोगुडान् ॥
अपि विद्याकुलैर्मुक्ता हीनवृत्ता नराधमाः ।यत्रेते भुञ्जते हव्यं तद्भवेदासुरं द्विजाः ॥
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।एष त्वब्राह्मणो नार्हः श्राद्धादिषु कदाचन ॥
शूद्रप्रेष्यो भृतो राज्ञा वृषलग्रामयाजकः ।वधबन्धोपजीवी च षडेते ब्रह्मबन्धवः ॥
दत्तात्मयोगो वृत्त्यर्थं पतितान्मनुरब्रवीत् ।वेदविक्रयिणो ह्येते श्राद्धादिषु विगर्हिताः ॥
श्रुतिविक्रयिणो ये तु परपूर्व्वासमुद्भवाः ।अधमान् ये याजयन्ति पतितास्ते प्रकीर्त्तिताः ॥
असंस्कृताध्यापका ये भृत्यर्थेऽध्यापयन्ति ये ।अधीयते तथा वेदान् पतितास्ते प्रकीर्त्तिताः ॥
बुद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रिविदो जनाः ।कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥
यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।न तस्य तद्भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम् ॥
अनाश्रमी यो द्विजः स्यादाश्रमी वा निरर्थकः ।मिथ्याश्रमी च ये विप्रा विज्ञेयाः पंक्तिदूषकाः ॥
दुश्चर्म्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ।विद्धप्रजननश्चैव स्तेनः क्लीवोऽथ नास्तिकः ॥
मद्यपो वृषलीसक्तो वीरहा दिधिषूपतिः ।अगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः ॥
परिवेत्ता तथा हिंस्राः परिवित्तिर्निराकृतिः ।पौनर्भवः कुशीदी च तथा नक्षत्रदर्शकः ॥
गीतवादित्रनिरतो व्याधितः काण एव च ।हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णी तथैव च ॥
कन्यादूषी कुण्डगोलौं ह्यभिशस्तोऽथ देवलः ।मित्रध्रुक् पिशुनश्चैव नित्यं भार्य्यानुवर्त्तकः ॥
मातापित्रोर्गुरोस्त्यागी दारत्यागी तथैव च ।गोत्रभिद्भ्रष्टशौचश्च काण्डपृष्ठस्तथैव च ॥
अनपत्यः कूटसाक्षी याचको रङ्गजीवनः ।ममुद्रयायी कृतहा तथा समयभेदकः ॥
वेदनिन्दापरश्चै व परदाररतास्तथा ।द्विजनिन्दारताश्चैव वर्ज्याः श्राद्धादिकर्म्मसु ॥
कृतघ्नः पिशूनः क्रूरो नास्तिको वेदनिन्दकः ।मित्रध्रुक् कुहकश्चैव विशेषात् पंक्तिदूषकाः ॥
सर्वे पुनरभोज्यान्नास्तदानार्हा हि कर्म्मसु ।ब्राह्मभावान्निरस्ताश्च वर्ज्ज नीयाः प्रयत्नतः ॥
शूद्रान्नरसपुष्टाङ्गः सन्ध्योपासनयर्ज्जितः ।महायज्ञविहीनश्च ब्राह्मणः पंक्तिदूषकः ॥
अधीतनाशनश्चैव स्नानहोमविवर्ज्जितः ।तामसो राजसश्चैव ब्राह्मणः पंक्तिदूषकः ॥
बहुनात्र किमुक्तेन विहितान् ये न कुर्वते ।निन्दितानाचरन्त्येव वर्ज्जनीयाः प्रयत्नतः ॥
”इति कौर्म्मे उपविभागे २० अध्यायः ॥
* ॥
“गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः ।सन्निपात्र द्विजान् सर्व्वान् साधुभिः सन्निमन्त्र-येत् ॥
श्वो भविप्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च ।असम्भवे परेद्युर्व्वा यथोक्तलक्षणैर्युतान् ॥
तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।अन्योन्यमनसा ध्यात्वा सम्पतन्ति मनोजवाः ॥
ब्राह्मणैस्ते सहाश्नन्ति पितरो ह्यन्तरीक्षगाः ।वायुभूताश्च तिष्टन्ति भुक्त्वा यान्ति परां गतिम् ॥
आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।वसेयुर्नियताः सर्वे ब्रह्मचर्य्यपरायणाः ॥
अक्रोधनोऽत्वरोऽमत्तः सत्यवादी समाहितः ।भारं मैथुनमध्वानं श्राद्धकृद्वर्जयेज्जपम् ॥
आमन्त्रितो ब्राह्मणो यः अन्यं वै कुरुते क्षणम्स याति रौरवं घोरं शूकरत्वं प्रयाति च ॥
आमन्त्रयित्वा यो मोहादपरं मन्त्रयेत् द्विजम् ।स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ॥
श्राद्धे निमन्त्रितो विप्रो मेथुनं योऽधिगच्छतिब्रह्महत्यामवाप्नोति तिर्य्यग्योनौ स गच्छति ॥
श्राद्धं कृत्वा तु भुक्त्वा च योऽध्वानं प्रतिपद्यते ।भवन्ति पितरस्तस्य तन्मासं पांशुभोजनाः ॥
निमन्त्रितस्तु यः श्राद्धे प्रकुर्य्यात् कलहं द्विजःभवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥
तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेत् द्विजःअक्रोधनः शौचपरः कर्त्ता चैव जितेन्द्रियः ॥
श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितःसमूलानाहरेद्वापि दक्षिणाग्रान् सुनिर्म्मलान् ॥
दक्षिणाप्लवनं स्निग्धं विविक्तं शुभलक्षणम् ।शुचिं देशं विविक्तञ्च गोमयेनोपलेपयेत् ॥
नदीतीरेषु तीर्थेषु स्वभूमौ चैव सानुषु ।विविक्तेषु च तुष्यन्ति दत्ते च पितरं सदा ॥
पारक्ये भूमिभागे तु पितॄणां नैच निर्वपेत् ।स्वामिभिस्तद्विहन्ये त मोहात् यत् क्रियते नरेः ॥
अटव्यः पर्व्वताः पुण्यास्तीर्थान्यायतनानि च ।सर्व्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥
तिलानवकिरेत्तत्र सर्वतो बन्धयेदजान् ।असुरोपहतं सर्व्वं तिलैः शुध्यत्यजेन वा ॥
ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् ।चोष्यपेयसमृद्धञ्च यथाशक्त्या प्रकल्पयेत् ॥
ततो निवृत्ते मध्याह्ने न्यु प्तलोमनखान् द्विजानअभिगम्य यथामार्गं प्रयच्छेद्दन्तधावनम् ॥
तैलमभ्यञ्जनं स्नानं स्नानोयञ्च पृथम्बिघम् ।पात्रैरौडुम्बरैः कुर्य्यात् वैश्वदेवत्यपूर्वकम् ॥
ततः स्नात्वा विवृत्तेम्यः प्रत्युत्थाय कृताञ्जलिः ।पाद्यमाचमनीयञ्च संप्रयच्छेद्यथाक्रमम् ॥
”पुस्तकान्तरे विवृत्तेभ्यः स्थाने निमित्तेभ्य इतिनिवृत्तेभ्य इति च पाठः ॥
“ये चात्र विश्वदेवानां द्विजाः पूर्व्वं निमन्त्रिताःप्राङ्मु खान्यासनान्येषां द्विदर्भोपहितानि च ॥
दक्षिणासुखयुक्तानि पितॄणामासनानि च ।दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥
तेषूप्रवेशयेदेतानासनं संस्पृशन् द्विजः ।आसध्वमिति संजल्पन्नासीरंस्ते पृथक् पृथक् ॥
द्वौ दैवे प्राङ्मु खौ पित्रे त्रयश्चोदद्मुखास्तथा ।एकैकं वा भवेत्तन्त्रं देवमातामहेष्वपि ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥
अपि वा योजयेदेकं ब्राह्मणं वेदपारगम् ।श्रुतशीलादिसम्पन्नमलक्षणविवर्ज्जितम् ॥
उद्धृत्य पात्रे चान्नं तत् सर्व्वस्मात् प्राकृतात्पुनः ।देवतायतने तस्मै निवेद्यान्नं प्रवर्त्तयेत् ॥
प्रास्येदग्नौ तदन्नन्तु दद्याद्वा ब्रह्मचारिणे ।तस्मादेकमपि श्रेष्ठं विद्धांसं भोजयेत् द्विजम् ॥
भिक्षुक्षो ब्रह्मचारी वा भोजनार्थमुपस्थितः ।उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥
अतिथिर्यस्य नाश्नाति न तत् श्राद्धं प्रशस्यते ।तस्मात् प्रयत्नात् श्राद्ध्वेषु पूज्या ह्यतिथयो द्विजैः ॥
आतिथ्यरहितश्राद्धे भुञ्जते ये द्विजातयः ।काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥
* ॥
हीनाङ्गः पतितः कुष्ठी ब्रणी पुक्कसनास्तिकौ ।कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥
वीभत्समशुचिं नग्नं मत्तं धूर्त्तं रजस्वलाम् ।नीलकाषायवसनं पाषण्डांश्च विवर्ज्जयेत् ॥
यत्तत्र क्रियते कर्म्म पैतृकं ब्राह्मणान् प्रति ।तत् सर्वमेव कर्त्तव्यं वैश्वदैवकपूर्व्व कम् ॥
यथोपदिष्टान् सर्व्वांस्तानलं कुर्य्याद्विभूषणैः ।स्रग्दामभिः शिरोवेष्टिधूपवासोऽनुलेपनैः ॥
ततस्त्वावाहयेद्देवान् ब्राह्मणानामनुज्ञया ।उदङ्मुखो यथान्यायं विश्वदेवास इत्यृचा ॥
द्वे पवित्रे गृहीत्वा च भाजने क्षालिते पुनः ।शन्नो देव्या जलं क्षिप्त्वा यवोऽसीति यवांस्तथाया दिव्या इति मन्त्रेण हस्ते त्वर्घ्यं निवेदयेत् ।प्रदद्याद्गन्धमाल्यानि धूपादीनि च शक्तितः ॥
अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः ।आवाहनं ततः कुर्य्यात् उशन्तस्त्वे त्युचा बुधः ॥
आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ।शन्नो देव्योदकं पात्रे तिलोऽसीतितिलां स्तथाक्षिप्त्वा चाघ्ये यथापूर्वं दत्त्वा हस्तेषु वै पुनः ।मंम्रवांश्च ततः सर्व्वान् पात्रे कुर्य्यात् समा-हितः ॥
पितृभ्यः स्थानमेतेन न्युब्जं पात्रं निधाय तु ।अग्नी करिष्येत्यादाय पृच्छत्यन्नं घृतप्लुतम् ॥
कुरुष्वेति ह्यनुज्ञातो जुहुयादुपवीतवत् ।यज्ञोपवीतिना होमः कर्त्तष्यः कुशपाणिना ।प्राचीनावीतिना पित्र्यं वैश्वदेवन्तु होमयेत् ।दक्षिणं पातयेज्जानुं देवान् परिचरन् मदा ॥
पितॄणां परिचर्य्यासु पालयेदितरं तथा ।सोमाय वै पितृमते स्वधा नम इति ब्रुवन् ॥
अग्नये कव्यवाहनाय स्वधेति जुहुयात्ततः ।अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ॥
महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः ।ततस्तेरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् ॥
गोमयेनोपलिप्योर्व्वीं स्थानं कृत्वा तु सैकतम् ।मण्डलं चतुरस्रं वा दक्षिणावनतं शुभम् ।त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ॥
ततः संस्तीर्य्य तत्स्थाने दर्भान् वै दक्षिणाग्र-कान् ।त्रीन् पिण्डान् निर्व्वपेत्तत्र हविःशेषान् समा-हितः ॥
न्युप्य पिण्डांस्तु तद्धस्तं निर्मृज्याल्लेपभागिनाम् ।तेषु दर्भेष्वथाचम्य त्रिरायम्य शनैरसून् ॥
षडप्यृतून्नमस्कुर्य्यात् पितॄनेव च मन्त्रवत् ।उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ॥
अवजिघ्रेषु तान् पिण्डान् यथाभ्युप्तान् समा-हितः ।अथ पिण्डावशिष्टान्नं विधिना भोजयेद्द्विजान् ॥
मांसान् पुपांश्च विविधान् दद्यात् कृशरपाय-सम् ।सूपशाकफलानीक्षून् पयो दधि घृतं मधु ॥
अन्नञ्चैव यथाकामं विविधं भक्ष्यपेयकम् ।यदुद्दिष्टं द्विजेन्द्राणां तत्तत्सर्व्वं निवेदयेत् ॥
धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथाउष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ॥
अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ।नाश्रूणि पातयेज्जातु न कुप्येन्नानृतं वदेत् ॥
न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥
क्रोधेन चैव यद्दत्तं यद्दत्तं त्वरया पुनः ॥
यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ।स्विन्नगात्रो न तिष्ठेत सन्निधौ च द्विजन्मनाम्न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् ।न दद्यादत्र हस्ते न प्रत्यक्षलवणं तथा ॥
न चायसेन पात्रेण न चैवाश्रद्धया पुनः ।काञ्चनेन तु पात्रेण राजतौडुम्बरेण च ॥
दत्तमक्षयतां याति खाङ्गेन च विशेषतः ।पात्रे तु मृण्मये यो वै श्राद्धे भोजयते पितॄन् ॥
स याति नरकं घोरं भोक्ता चैव पुरोधसा ।न पंक्त्या विषमं दद्यात् न याचेन्न च दापयेत्याचिता दापिता दाता नरकान् यान्ति-दारुणान् ।भुञ्चीत वाग्यताः स्पृष्टा न ब्रूयुः प्राकृतान्गुणान् ॥
तावद्धि पितोरऽश्नन्ति यावन्नोक्ता हविर्गुणाः ।नाग्रासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः ॥
बहूनां पश्यतां सोऽज्ञः पंक्त्या हरति किल्वि-षम् ।न किञ्चिद्वर्ज्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः ॥
न मांसं प्रतिषेधेत नवान्यस्यान्नमीक्षयेत् ।यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्म्मणिस प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥
स्वाध्यायं श्रावयेदेषां धर्म्मशास्त्राणि चैव हि ।इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥
ततोऽन्नमुत्सृजेद्भुक्तेष्वग्रतो विकिरन् भुवि ।स्पृष्ट्वा स्वदितमित्येवं तृप्तानाचमयेत्ततः ॥
आचान्ताननुजानीयादभितो रम्यतामिति ।स्वधास्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥
ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।यथा ब्रूयुस्तथा कुर्य्यादनुज्ञातो द्विजोत्तमैः ॥
पित्रे स्वदितमित्येवं वाच्यं गोष्ठेषु सुश्रुतम् ।सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥
विसृज्य ब्राह्मणांस्थान् वै पितृपूर्व्वन्तु वाग्यतःदक्षिणां दिशमाकाङ्क्षन् याचेतेमान् वरान्पितॄन् ॥
दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च ।श्रद्धा च नो मा व्यगमद्वहु देयञ्च नोऽस्त्विति ॥
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वामध्यमन्तु ततः पिण्डमद्यात् पत्नी सुतार्थिनीप्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण भोजयेत्ज्ञातिष्वपि च भुक्तेषु स्वान् भृत्यान् भोजयेत्ततःपश्चात् स्वयञ्च पत्नीभिः शेषमन्नं समाहरेत् ।नोद्वासयेत्तदुच्छिष्टं यावन्नास्तं गतो रविः ॥
ब्रह्मचारी भवेतान्तु दम्पती रजनीन्तु ताम् ।दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् ॥
महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ।शुचिरक्रोधनः शान्तः सत्यवादी समाहितः ॥
स्वाध्यायञ्च तथाध्वानं कर्त्ता भोक्ता च वर्जयेत् ॥
श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये द्विजातयः ।महापातकिभिस्तुल्या यान्ति ते नरकान् बहून्एष वोऽभिहितः सम्यक् श्राद्धकल्पः सनातनः ।अनेन वर्त्तयेन्नित्यमुदासीनोऽथ तत्त्ववित् ॥
अनग्निरध्वगो वापि तथैव व्यसनान्वितः ।आमश्राद्धं द्विजः कुर्य्यात् वृषलस्तु सदैवहिः ॥
आमश्राद्धं यदा कुर्य्यात् विधिज्ञः श्रद्धयान्वितःतेनाग्नौ करणं कुर्य्यात् पिण्डांस्तेनैव निर्वपेत् ॥
योऽनेन विधिना श्राद्धं कुर्य्यात् संयतमानसः ।व्यपेतकल्मषो नित्यं यतीनां वर्त्तते पदम् ॥
तस्मात् सर्व्वप्रयत्नेन श्राद्धं कुर्य्यात् द्विजोत्तमःआराधितो भवेदीशस्तेन सम्यक् सनातनः ।अपि मूलफलैर्व्वापि प्रकुर्व्वन्निर्धनो द्विजः ॥
तिलोदकैस्तर्पयेद्वा पितॄन् स्नात्वा समाहितः ।न जीवत्पितृको दद्याद्धामान्तं वा विधीयते ।येषां वापि पिता दद्यात्तेषाञ्चैके प्रचक्षते ।पितापितामहश्चैव तथैव प्रपितामहः ॥
यो यस्य म्रियते यस्मै देयं नाम्नास्य तेन तु ।भोजयेद्वापि जीवन्तं यथाकामन्तु भक्तितः ॥
न जीवन्तमतिक्रम्य ददाति श्रूयते श्रुतिः ।द्व्यामुष्यायणिको दद्याद्वीजिक्षेत्रिकयोः समम् ॥
ऋक्थादर्द्धं समादद्यात् नियोगोत्पादितो यदिअनियुक्तात् सुतो यस्तु शुल्कतो जायते द्विजः ॥
प्रदद्याद्वीजिने पिण्डं क्षेत्रिणे तु ततोऽन्यथा ।द्वी पिण्डौ निर्व्वपेत्ताभ्यां क्षेत्रिणे बीजिने तथा ।कोर्त्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ।मृताहनि तु कर्त्तव्यमेकोद्दिष्टं विधानतः ॥
अशौचे स्वे परिक्षीणे काम्यं वै कामतस्ततः ।पूर्व्वाह्णे चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना ॥
देववत् सर्व्वमेव स्यान्न वै कार्य्या तिलक्रिया ।दर्भाश्च ऋजवः कार्य्या युग्मान् वै भोजयेत्द्विजान् ॥
नान्दीमुखास्ते पितरः प्रीयन्तामिति वाचयेत् ।मातृश्राद्धन्तु पूर्वं स्यात् पितॄणां स्यादनन्तरम् ॥
ततो मातामहानाञ्च वृद्धौ श्राद्धत्रयं स्मृतम् ।देवपूर्व्वन्तु दद्याद्वै न कुर्य्यादप्रदक्षिणम् ॥
प्राङ्मुखो निर्व्वपेत् पिण्डानुपवीतौ समाहितः ।पूर्व्वं वै मातरः पूज्या भक्त्या चैव गणेश्वरः ॥
स्थण्डिलेषु पवित्रेषु प्रतिमासु द्विजातिषु ।पुष्पै र्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ॥
पूजयित्वा मातृगणान् कुर्य्यात् श्राद्धत्रयं बुधः ।अकृत्वा मातृयागन्तु यः श्राद्धं परिवेशयेत् ।तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥
”इति कौर्म्मे उपविभागे २१ अध्यायः ॥
मात्स्ये १६ । १७ । १८ । अध्यायेषु चान्यत् द्रष्ट-व्यम् ॥
* ॥
श्राद्धे कदलीपत्रं निषिद्धं भोजन-पात्रतया । इति हेमाद्रिव्याख्या श्राद्धखण्डे ॥
न जातीकुसुमानि दद्यात् न कदलीपत्रम् ।इति क्रतुवचनम् ॥
* ॥
श्राद्धोत्तरनिषिद्धानियथा, --“यात्रा युद्धं नदीपारं मिथ्यालापो द्विभोजनम् ।द्यूतक्रीडा दिवानिद्रा श्राद्धे सप्त विवर्ज्जयेत् ॥
”इति कर्म्मलोचनम् ॥
स्मृतिः ।द्यूतञ्च कलहञ्चैव सायंसन्ध्यां दिवाशयम् ।श्राद्धकर्त्ता च भोक्ता च पुनर्भुक्तञ्च वर्जयेत् ॥
”अपि च । विष्णुपुराणम् ।“वर्ज्यानि कुर्व्वता श्राद्धं कोपोऽध्वगमनं त्वरा ।भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥
”राजमार्त्तण्डे ।“पुनर्भोजनमध्यानं द्युताध्ययनमैथुनम् ।दानं प्रतिग्रहं सन्ध्यां श्राद्धं कृत्वाष्ट वर्जयेत् ॥
”नव्यवर्द्धमानधृता स्मृतिः ।“पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।दानं सन्ध्यां पुनः स्नानं श्राद्धं कृत्वाष्ट वर्जयेत् ॥
”इति श्राद्धतत्त्वम् ॥
अथ वैष्णवश्राद्धविधिः ।“प्राप्ते श्राद्धदिनेऽपि प्रागन्नं भागवतेऽर्पयेत् ।तच्छेषेणैव कुर्व्वीत श्राद्धं भागवतो नरः ॥
”यच्च स्मृतौ ।“गृहाग्निशिशुदेवानां यतीनां ब्रह्मचारिणाम् ।पितृपाकोन दातव्यो यावत् पिण्डान्न निर्वपेत् ॥
”इति ॥
“ईदृक् सामान्यवचनं विशेषवचनघ्रजैः ।श्रुतिस्मृतिपुराणादिवर्त्तिभिर्व्वाध्यते ध्रुवम् ॥
”तथा च पाद्मे ।“विष्णोर्निवेदितान्ने न यष्टव्यं देवतान्तरम् ।पितॄभ्यश्चापि तद्देयं तदानन्त्याय कल्प्यते ॥
”मोक्षधर्म्मे नारदोक्तौ ।“सात्वतं विधिमास्थाय प्राक् सूर्य्यमुखनिः-सृतम् ।पूजयामास देवेशं तच्छेषेण पितामहान् ॥
”ब्रह्माण्डपुराणे ।“यः श्राद्धकाले हरिभुक्तशेषंददाति भक्त्या पितृदेवतानाम् ।तेनैव पिण्डांस्तुलसीविमिश्रा-नाकल्पकोटिं पितरः सुतृप्ताः ॥
”स्कान्दे श्रीशिवोक्तौ ।“देवान् पितॄन् समुद्दिश्य यद्विष्णोर्विनिवेदितम्तानुद्दिश्य ततः कुर्य्यात् प्रदानं तस्य चैव हि ॥
प्रयान्ति तृप्तिमतुलां सोदकेन तु तेन वै ।मुकुन्दगात्रलग्नेन ब्राह्मणानां विलेपनम् ॥
चन्दनेन तु पिण्डानां कर्त्तव्यं पितृतृप्तये ।देवानाञ्च पितॄणाञ्च जायते तृप्तिरक्षया ॥
एवं कृते महीपाल मा भवेत् संशयः क्वचित् ॥
”तत्रैव श्रीपुरोषोत्तमखण्डे ।“अन्नाद्यं श्राद्धकाले तु पतिताद्यैर्निरीक्षितम् ।तुलसीदलमिश्रेण सलिलेनाभिषिञ्चयेत् ॥
तदन्नं शुद्धतामेति विष्णोर्नैवेद्यमिश्रितम् ।विष्णोर्नैवेद्यशेषन्तु तस्माद्देयं द्विजन्मना ।पिण्डे चैव विशेषेण पितॄणां तृप्तिमिच्छता ॥
”तत्रैव श्रीब्रह्मनारदसंवादे ।“पितॄनुद्दिश्य यैः पूजा केशवस्य कृता नरैः ।त्यक्त्वा ते नारकीं पीडां मुक्तिं यान्ति महामुने ॥
धन्यास्ते मानवा लोके कलिकाले विशेषतः ।ये कुर्व्वन्ति हरेर्नित्यं पित्रर्थं पूजनं मुने ॥
किं दत्तैर्ब्बहुभिः पिण्डैर्गयाश्राद्धादिभिर्मुने ॥
यैरर्च्चितो हरिर्भक्त्या पित्रर्थश्च दिने दिने ॥
यमुद्दिश्य हरेः पूजा क्रियते मुनिपुङ्गव ॥
उद्धृत्य नरकावासात्तं नयेत् परमं पदम् ॥
यो ददाति हरेः स्थानं पितॄनुद्दिश्य नारद ।कर्त्तव्यं हि पितॄणां यत्तत् कृतं तेन भो द्विज ॥
” *श्रुतौ च । एक एव नारायण आसीत् न ब्रह्मानेमे द्यावापृथिव्यौ सर्वे देवाः सर्वे पितरः सर्वेमनुष्याः विष्णुना अशितमश्नति विष्णुना घ्रातंजिघ्रन्ति विष्णुना पीतं पिबन्ति तस्साद्विद्वांसोविष्णूपहृतं भक्षयेयुरिति । अतएवोक्तं श्रीभग-वता विष्णुधर्म्मे ।“प्राणेभ्यो जुहुयादन्नं मन्निवेदितमु त्तमम् ।तृप्यन्ति सर्व्वदा प्राणा मन्निवेदितभक्षणात् ॥
तस्मात् सर्व्वप्रयत्नेन प्रदेयं मन्निवेदितम् ।ममापि हृदयस्थस्य पितॄणाञ्च विशेषतः ॥
”किञ्च तत्रै वान्यत्र ।भक्ष्यं भोज्यञ्च यत्किञ्चिदनिवेद्याग्रभोक्तरि ।न देयं पितृदेवेभ्यः प्रायश्चित्ती यतो भवेत् ॥
सर्गादौ कथितो देवैरग्रभुक् भगवान् हरिः ।यज्ञभागभुजो देवा ततस्तेन प्रकल्पिताः ॥
”इति श्रीहरिभक्तिविलासे ९ विलासः ॥
* ॥
अथोपवासदिने श्राद्धनिषेधः । पाद्मे पुष्कर-खण्डम् ।“एकादश्यां यदा राम श्राद्धं नैमित्तिकं भवेत् ।तद्दिने तु परित्यज्य द्वादश्यां श्राद्धमाचरेत् ॥
”तत्रैवोत्तरखण्डे ।“एकादश्यान्तु प्राप्तायां मातापित्रोर्म्मृतेऽहनिद्वादश्यां तत् प्रदातव्यं नोपवासदिने क्वचित् ॥
गर्हितान्नं न चाश्नन्ति पितरश्च दिवौकसः ॥
”स्कान्दे ।“एकादशी यदा नित्या श्राद्धं नैमित्तिकं भवेत्उपवासं तदा कुर्य्यात् द्वादश्यां श्राद्धमाचरेत् ॥
”ब्रह्मवैवर्त्ते ।“ये कुर्व्वन्ति महीपाल श्राद्धं त्वेकादशीदिने ।त्रयस्ते नरकं यान्ति दाता भोक्ता परेतकः ॥
”इति श्रीहरिभक्तिविलासे १२ विलासः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
