| YouTube Channel

श्रमु (zramu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
श्रम्
मूलधातुः:
श्रमु
धात्वर्थः:
तपसि, खेदे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
श्राम्यति
अनुबन्धादिविशेषः:
शमादिः, उदित्
धातुप्रदीपः
Sanskrit
श्रमुँ श्रमु तपसि खेदे
- श्राम्यति अश्रमत् श्रमी श्रमणः कुमारश्रमणा आश्रमः विश्रमः विश्राम इति चान्द्राः 98
क्षीरतरङ्गिणी
Sanskrit
श्रमुँ श्रमु तपसि खेदे
- श्राम्यति अश्रमत् श्रान्त्वां श्रमित्वा श्रान्तः श्रम्यम् नन्द्यादौ (द्र0 गण0 31134) श्रमणः विश्रामः, विश्रमोऽपीष्टः 92
धातुवृत्तिः
Sanskrit
श्रमुँ श्रमु (अर्थः) तपसि, खेदे
( श्रम्यति ) इत्यादि अत्र वर्धमानो "नोदात्तोपदेश'' इति वृद्धिनिषेधे ज्ञाते प्रयोगदर्शनाद् वा श्रमेर्वृद्धिमाह तत् [ आचमिकमिवमीनामिति वक्तव्यम् ]इति चम्यादीनामेव भाष्यवार्तिकयोः वृद्ध्यङ्गीकारात्, "कथं सूर्यविश्रामभूः'' इति एवमादिकं प्रयोगं अन्यायमेव मन्यन्ते'' इति वृत्तावुक्तत्वाच्चायुक्तम्, कुमारी चासौ श्रमणा ( कुमारश्रमणा, ) "कुमारः श्रमणादिभिः'' इति कर्मधारयः श्रमणाशब्देन कुमारशब्दस्य सामानाधिकरण्याभावात् लिङ्गविशिष्टपरिभाषया कुमारीशब्दस्य समासे "पुंवत्कर्मधारय'' इति पुंवद्भावः, अत एव निर्देशाल्ल्युः, युज्वा 96
कृदन्तरूपमाला
Sanskrit
1 {@“श्रमु तपसि खेदे च”@} 2 शमादिः।
सर्वाण्यपि रूपाणि दैवादिकक्लाम्यतिवत् 3 ज्ञेयानि।
‘शमित्यष्टाभ्यः--’ 4 इति घिनुणि ‘शमामष्टानाम्--’ 5 इति दीर्घे श्रमी इति रूपम्।
‘नोदात्तोपदेशस्य--’ 6 इति वृद्धिनिषेधः।
7 श्रान्त्वा, विश्रान्तिः।
8 विश्रामः।
9 श्रमणा।
प्रासङ्गिक्यः
01
=>
(१७७३)
02
=>
(४-दिवादिः-१२०४। सक। सेट्। आत्म।)
03
=>
(२८३)
04
=>
(३-२-१४१)
05
=>
(७-३-७४)
06
=>
(७-३-३४)
07
=>
[पृष्ठम्१३२४+ ३०]
08
=>
[[१। घञि रूपमेवम्। ‘नोदात्तोपदेशस्य--’ (७-३-३४) इति वृद्धिनिषेधो नात्र, बाहुलकात्। ‘वौ श्रमेः’ इति वचनं वृद्ध्यर्थंकेचित् कल्पयन्ति। भाष्यवार्तिक- वृत्तिकारादयस्तु ‘विश्राम इति पाणिनीयम्।’ इत्याहुः। “विश्रामस्यापशब्दत्वं वृत्त्युक्तं नाद्रियामहे। मुरारिभवभूत्यादीन् अप्रमाणीकरोति कः?।। ‘विश्रामशाखिनं वाचां’ ‘विश्रामो हृदयस्य च।’ ‘विश्रामहेतोः’ इत्यादि महान्तस्ते प्रयुञ्जते।।” इति प्रक्रियासर्वस्वम् अत्रावधेयम्।]]
09
=>
[[२। णिजन्तात् नन्द्यादित्वात् कर्तरि ल्युः। ‘कुमारः श्रमणादिभिः’ (२-१-७०) इति निर्देशोऽत्र लिङ्गम्।]]