| YouTube Channel

श्रमणः (zramaNaH)

 
Wordnet
Sanskrit
Synonyms:
तपस्वी, आश्रमवासी, आश्रमसद्, ऋषिः, जटाधरः, जटी, जटिलः, जितेन्द्रियः, परोक्षः, मुनिः, यतिः, यती, लिङ्गी, श्रमणः, तापसः
noun
यः तपस्यां करोति।
"विश्वामित्रः तपस्वी आसीत्।"
Synonyms:
बौद्धभिक्षुः, जातकः, भदन्तः, भिक्षुः, श्रमणः, श्रावकः
noun
सः साधुः यः बौद्धधर्मस्य उपासकः।
"कुशीनगरे नैके बौद्धभिक्षवः दृश्यन्ते।"
शब्दकल्पद्रुमः
Sanskrit
श्रमणः,
पुं,
(श्राम्यति तपस्यतीति श्रम + स्यु ।)यतिविशेषः इति मेदिनी
(स तु बौद्व-सन्न्यासी ।) तत्पर्य्यायः ।“मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ।वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः
निर्ग्रन्थो भिक्षुरस्य स्यं तपोयोगशमादयः ।”इति हेमचन्द्रः
(यथा, रामायणे १४ १२ ।“तापसा भूञ्जते चापि श्रमणाश्चैव भुञ्जते
”)निन्द्यजीविनिं त्रि, इति मेदिनी