| YouTube Channel

श्रन्भु (zranbhu)

 
धातुवृत्तिः
Sanskrit
श्रन्भुँ श्रम्भु (अर्थः) प्रमादे
तालव्योष्मादिः, एवं काश्यपः दन्त्यादिति चन्द्रः स्वामी चैवं पठित्वा मातन्तरेण स्रन्सेति दन्त्यान्तमप्याह मैत्रेयस्य त्वयमेव पक्षः यदाह संयोगान्साधर्म्येण सान्तोप्यत्र निर्दिश्यते द्युतादावप्ययं पठिष्यते तस्यैव ध्वंसुसाहचर्यान्नीगित्याहुः दत्वे पुनरसाहचर्यमिच्छन्तीति दैवेप्येवमेवोक्तम् तत्र तावदयं पक्षो वृत्तितद्व्याख्याकृतामनभिमत इव प्रतीयते, यद्दत्त्वसूत्रे उभयोर्गहणं नीक्सूत्रे नास्येति चाहुः सति ह्येवमवश्यवक्तव्यं, तथैव स्वामिचन्द्रयोरपि पाठोनभिमत इव यत् "वौ कषलसकत्थश्रम्भ'' इत्यत्र श्रम्भु विश्वास इति वदन्नमुं नोपाददते, वृत्तिकारोऽग्रहणे कारणं चाचष्ट तथा व्याख्याकृतोपि वृत्तिकारवचनमुपलक्षणमाचक्षता नान्यग्रहणे कारणम् ( श्रम्भते शश्रम्भे श्रम्भिता श्रम्भित्वा श्रब्ध्वा ) उदित्त्वादिड्विकल्पः "न क्त्वासेट्'' इत्यकित्त्वान्नलोपाभावः ( श्रब्धः ) "यस्य विभाषा'' इत्यनिट्त्वम् 390
कृदन्तरूपमाला
Sanskrit
1 {@“श्रन्भु प्रमादे”@} 2 धातुरयं तालव्योष्मादिः इति काश्यपादयः।
दन्त्यादिरिति चन्द्रादयः।
काशिकादिषु प्रकृतधातूपादानप्रकरणेषु शोधकानां इच्छानुसारेण यथेष्टं मुद्रितम्, अतो भाष्यादिषु ‘स्रम्भु’ इति वा, ‘श्रम्भु’ इति वाऽभीष्टमिति नेदानी निश्चेतुं सामग्री लभ्यते।
व्याख्यातारस्तु निर्विचारं परस्परदूषकाः।
3 विश्रम्भः, 4 विश्रब्धः।
इतराणि सर्वाण्यपि रूपाणि भौवादिककन्दतिवत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७७२)
02
=>
(१-भ्वादिः-३९३। सक। सेट्। आत्म।)
03
=>
[[३। घञि रूपमेवम्। धातुरयं नोपधः प्रयोगे परसवर्णवशात् मकारश्रवणं सर्वत्रेति बोध्यम्।]]
04
=>
[[४। निष्ठायाम्, उपधानकारलोपे, निष्ठातकारस्य ‘झषस्तथोः--’ (८-२-४०) इति धत्वे, भकारस्य जश्त्वेन बकारे रूपमेवम्।]]
05
=>
(९४८)