| YouTube Channel

श्रथ (zratha)

 
Wilson
English
श्रथ r. 1st and 10th cls. (श्रथति, श्रथयति)
1 To hurt, to injure, to kill.
2 To let loose or discharge, to set free, to liberate.
3 To bind or tie. r. 10th cl. (श्राथयति)
1 To apply diligently, to endeavour sedulously.
2 To delight frequently.
3 To march. r. 10th cl. (श्रथयति) To be weak or infirm. (इ)
श्रथि r. 1st cl. (श्रंथते)
1 To be loose or lax, to be slack or flaccid.
2 To let loose, to loosen.
Monier Williams Cologne
English
श्रथ See हिम-श्रथ.
Kridanta Forms
Sanskrit
श्रथ (श्र꣡थ꣡ दौर्बल्ये - चुरादिः - सेट्)
ल्युट् = श्रथनम्
अनीयर् = श्रथनीयः - श्रथनीया
ण्वुल् = श्रथकः - श्रथिका
तुमुँन् = श्रथयितुम्
तव्य = श्रथयितव्यः - श्रथयितव्या
तृच् = श्रथयिता - श्रथयित्री
क्त्वा = श्रथयित्वा
ल्यप् = प्रश्रथय्य
क्तवतुँ = श्रथितवान् - श्रथितवती
क्त = श्रथितः - श्रथिता
शतृँ = श्रथयन् - श्रथयन्ती
शानच् = श्रथयमानः - श्रथयमाना
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
श्रथ्
मूलधातुः:
श्रथ
धात्वर्थः:
हिंसायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
श्रथति
धातुः:
श्रथ्
मूलधातुः:
श्रथ
धात्वर्थः:
प्रयत्ने, प्रस्थाने
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
श्राथयति-ते, श्रथति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुः:
श्रथ्
मूलधातुः:
श्रथ
धात्वर्थः:
दौर्बल्ये
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
श्रथयति-ते
अनुबन्धादिविशेषः:
अदन्तः
धातुप्रदीपः
Sanskrit
श्रथँ श्रथ
मानकरूपान्तरम् - श्लथँ
श्लथ
मानकरूपान्तरम् - क्लथँ
क्लथ
मानकरूपान्तरम् - क्रथँ
क्रथ हिंसार्थाः
- श्रथति श्रथयति श्लथति श्लथयति क्लथति क्लथयति क्रथति क्रथयति जासिनिप्रहणनाटक्राथपिषां हिंसायाम् (2/3/56) इत्यत्र नाटक्राथेति निपातनाद् वृद्धिरिति जयादित्येनोक्तम् चौरस्योत्क्राथयति हि क्रथिं चुरादौ पठति अन्ये तु क्रथ हिंसायामिति चुरादौ पठित्वा तस्यैतद्रूपमिति वर्णयन्ति क्लथति। क्लथयति ।। 803-806 ।।
श्रथँ श्रथ प्रतियत्ने
(5)- श्राथयति अशिश्रथत् 13
श्रथँ श्रथ मोक्षणे
- श्राथयति श्रथति 267
शब्दकल्पद्रुमः
Sanskrit
श्रथ, शैथिल्ये इति कविकल्पद्रुमः
(भ्वा०आत्म०-अक०-सक०-च सेट् ।) शैथिल्यमिहशिथिलीभावस्तत्करणञ्च
इ, श्रन्थ्यते ङ, श्रन्थते वस्त्रं शिथिलं स्यादित्यर्थः श्रन्थते वस्त्रंलोकः शिथिलं करोति इत्यर्थः इति दुर्गा-दासः
श्रथ, यत्ने प्रतिहृषि इति कविकल्पद्रुमः
(चुरा०-पर०-यत्ने अक०-प्रतिहर्षे सक० सेट् ।क, श्राथयति पठितुं शिष्यः श्राथयति शिशुंलोकः पुनःपुनर्हर्षयति इत्यर्थः इति दुर्गा-दासः
श्रथ कि वधे मोक्षे वधे इति कविकल्पद्रुमः
(चुरा०-पक्षे भ्वा०-सक०-सेट् ।) कि, श्राथ-यति श्रथयति श्लाघ्यं श्राथयति स्फुटार्थ-मधुरं गद्यञ्च पद्यं सदा भावालङ्कृतिपेशलंश्रथयति स्पष्टाक्षरं नाटकम् श्रथ्नाति प्रथि-तावदातचरितः शास्त्रं विचित्रञ्च इतिहलायुधोक्तं श्रथयतीति श्रथ त् दौर्ब्बल्येइत्यदन्तस्य रूपम् अनेकार्यत्वात् बध्नाती-त्यर्थः इति दुर्गादासः
श्रथ, त् दौर्बल्ये इति कविकल्पद्रुमः
(अदन्तचुरा०-पर०-अक०-सेट् ।) श्रथयति इतिदुर्गादासः
श्रथ, वधे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) म, श्रथयति ! इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
श्रथ यत्ने अक० प्रतिहर्षे
सक०
चु०
उभ०
सेट् श्राथयति ते अशिश्रयत्
श्रथ दौर्बल्ये अ०
चु०
उ० अक० सेट् श्रथयति ते असश्रथत्
श्रथ बधे
भ्वा०
पर०
सक०
सेट् श्रथति अश्रथीत् अश्राथीत्
श्रथ बन्ध मोक्षे बधे वा
चु०
उ० पक्षे
भ्वा०
पर०
सक०
सेट् ।श्राथयति ते श्रथति अशिश्रथत् अश्रथोत्--अश्राथात्
श्रथ शैथिल्ये अक० तत्करणे
सक०
भ्वा०
आ० सेट् इदित् ।श्रन्थते अश्रन्थिष्ट
क्षीरतरङ्गिणी
Sanskrit
श्रथँ श्रथ
मानकरूपान्तरम् - क्रथँ
क्रथ
मानकरूपान्तरम् - क्लथँ
क्लथ हिंसार्थाः
- क्रथति क्रथयति चुरादौ (10218) चौरस्योत्क्राथयति घञन्ताण्णिजिति चन्द्रदुर्गौ, नाटक्राथपिषाम् (2356) इति लिङ्गाच्च 778-780
श्रथँ श्रथ प्रतिहर्षे
- आधृषाद्वा (10201) इत्यत्र श्रथ हिंसायाम् (10216) इति सिद्धिः, इह पाठाद् रूपान्यत्वम्-श्राथयते नन्दी क्रथ इत्याह-क्राथपिषाम् (2356) इति चौरस्योत्क्राथयति 13
श्रथँ श्रथ हिंसायाम्
- श्राथयति, श्रथति श्रन्थेत्येके-श्रन्थयति, श्रन्थति 269
धातुवृत्तिः
Sanskrit
श्रथँ श्रथ
मानकरूपान्तरम् - कथँ
कथ
मानकरूपान्तरम् - क्लथँ
क्लथ (अर्थः) हिंसार्थाः
( श्रयति शश्राथ श्रथिताशिश्रथिषति शाश्रथ्श्यते' शाश्रत्ति श्रयति अशिश्रथत् अश्चथि अश्वाथि एवं कथति क्लथति ) कथेस्तु "जासिनिप्रहणनाटकाथ''इतिनिर्देशाम्मित्त्वेपि वृद्धिरितिवृत्तितद्व्याख्यानेषु(क्राथयति चोरस्येति) भवति मित्त्वफलं तु (अक्रति अक्राथीत्यादौ) "चिण्णमुलोः'' इति दीर्घविकल्पः तथा "जासिनि'' इत्यत्र हरदत्तः घटादिपाठस्तु घठादयः षित इत्यातिदेशिकोऽङ्यथा स्यात् "चिण्णमुलोः'' इति दीघविकल्पश्च यथा स्यादिति ननु घटादयः षित इति मध्ये सूत्रणात्पूर्वेषामेव षित्त्वं परेषामिति कथं षित्तत्वमुक्तम् सत्यम् अत एव किलापरितुष्यन् स्वयमेव दीर्घघिकल्प्रयोजनमाह एवं दीर्घविकल्पश्चेति शब्दो वार्थो व्याख्यीयः अत्र न्यासे क्राथीति विकृतनिर्देशस्य प्रयोजनं मित्वेपि वृद्धिः तत्रैव षष्ठीत्युक्त्वाचडन्ते वृद्ध्यभावाच्चोरमचिकथदित्युक्तम् तत्र शेषाधिकारात्पुनः समासनिवृत्तये पुनः शपेषे षष्ठीधानमिति शेषविवक्षायां पष्ठी दुऊर्वारा, कर्मविवक्षायां द्वितीया स्वतः सिद्धेति नेदं प्रयोजनम् क्रथ हिंसायामिति युजादौ स्वरितेदिति देवः अयमात्मनेपदीति शाकटायनः "जासिनि'' इत्यत्र क्राथीति निपातनाद्वृद्धिरिति वदतां वृत्तिकारादीनां नायं धातुरेवास्ति 789
श्रथँ श्रथ (अर्थः) प्रयत्ने
प्रस्थान इति मैत्रेयः अतिहर्ष इति बहवः ( श्राथयति ) क्रथिमपिकेचिदत्र पठन्ति मैत्रेयादौ दृश्यते तथा क्रथश्रथौ हिंसायाम्, ( क्राथयेत्, क्रथते, क्रथेत ) इति घटादिं ( 1 ) ( 1 ) युजादीमिति पुस्तकान्तरे अधिकम् पठता देवेनापि पठितः 13
श्रथँ श्रथ (अर्थः) मोक्षणे
हिंसायामित्यपर इति पुरुषकारे ( श्राथयति श्रथति ) श्राथयतीति प्रयत्नेऽपि गतः श्रथयतीति कथादौ दौर्बल्ये 282
कृदन्तरूपमाला
Sanskrit
1 {@“श्रथ हिंसार्थः”@} 2 घटादिः।
‘श्नथ’ इति क्वचित् पाठः।
“दौर्बल्ये श्रथयेत् प्रयत्नविषये स्याच्छ्राथयेन्मोक्षणे यौ तु श्राथयति श्रथत्यपि वा णौ श्रन्थयेत् श्रन्थति।
सन्दर्भे श्नि विमोचनार्थविषये श्रथ्नात्यथ श्रन्थते, शैथिल्ये…।।’ 3 इति देवः।
सर्वाण्यपि रूपाणि भौवादिकक्लथतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७६५)
02
=>
(१-भ्वादिः-७९९। सक। सेट्। पर।)
03
=>
(श्लो। १०१)
04
=>
(२८०)
1 {@“श्रथ प्रयत्ने”@} 2 ‘…प्रतियत्ने’ इति क्वचित् पाठः।
दैवश्लोकः पूर्वस्मिन् धातौ द्रष्टव्यः।
‘प्रतिहर्षे’ इति क्षीरतरङ्गिणी-कातन्त्र-जैनेन्द्र-हेमचन्द्रीयेषु पाठः।
‘प्रस्थाने’ इति मैत्रेय इति माधवः।
सर्वाण्यपि रूपाणि चौरादिकक्लापयतिवत् 3 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७६६)
02
=>
(१०-चुरादिः-१५४६। सक। सेट्। उभ।)
03
=>
(२८२)
1 {@“श्रथ मोक्षणे”@} 2 आधृषीयः।
‘हिंसायाम्’ इति केचित्।
दैवश्लोकः 3 धातौ द्रष्टव्यः।
सर्वाण्यपि रूपाणि चौरादिकच्छदयतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७६७)
02
=>
(१०-चुरादिः-१८२३। सक। सेट्। उभ।)
03
=>
(१७६५)
04
=>
(५६२)
1 {@“श्रथ दौर्बल्ये”@} 2 अदन्तः।
सर्वाण्यपि रूपाणि चौरादिककथयतिवत् 3 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७६८)
02
=>
(१०-चुरादिः-१८७१। अक। सेट्। उभ।)
03
=>
(१६२)