श्यैङ् (zyaiG)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit श्यै
श्यैङ्
गतौ
भ्वादिः
सकर्मकः
अनिट्
आत्मनेपदी
श्यायते
ङित्, ऐकारान्तः
धातुप्रदीपः
Sanskritश्यैङ् गतौ
- श्यायते । अवश्यायः । शीनं घृतम् । शीतो वायुः ।। 971 ।।
क्षीरतरङ्गिणी
Sanskritश्यैङ् गतौ
- श्यायते श्याद्व्यध (31141) इति णः, श्याग्रहणं सोपसर्गार्थम्-प्रतिश्यायः, अवश्यायः द्रवमूर्तिस्पर्शयोः श्यः (6124) सम्प्रसारणम् शीनं घृतम्, श्योऽस्पर्शे (8447) नत्वम्, नेह-शीतो वायुः प्रेतश्च (6125) स्फैयकृतस्य पिता प्रतिशीनः विभाषाऽभ्यवपूर्वस्य (6126) अभिशीनः, अभिश्यानः, अवशीनः, अवश्यानः इषियुधि (उ0 1145) इति मक् श्यामः, श्यामा, श्यामाकः श्यास्त्याहृञ् (उ0246) इतीनच् श्येनः हृश्याभ्यामितन् (उ0 393) श्येतः 934
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritश्यैङ् (अर्थः) गतौ
(श्यायते शश्ये शश्याते शश्याषे श्याता श्यास्यते श्यायताम् अश्यायत श्यायेत आशिषि श्यासीष्ट अश्यास्त शिश्यासते शाश्यायते शाश्याति श्यापयति आशिश्यपत् अवश्यायः प्रतिश्यायः ) "श्याद्व्यध'' इति णः श्यैङो ऽवस्यतेश्चाकारान्तत्वादेव णे सिद्धे प्रतिपदोपादानं सोपसर्गार्थमिति स्थितम् शीतं भेदः शीतो वायुः "द्रवमूर्त्तिस्पर्शयोः श्यः'' इति द्रवस्य मूर्त्तौ काठिन्ये स्पर्शगुणे च वर्त्तमानस्य श्यायतेर्निष्ठायां परतः संप्रसारणे "हलः'' इति दीर्घः तत्रास्पर्शे "श्योस्पर्शे'' इति निष्ठानत्वे द्रवमूर्त्तिस्पर्शाभ्यामन्यत्र श्यानो वृश्चिक इति संप्रसारणं न भवति, निष्ठानत्वं "संयोगादे रातः'' इत्येव सिद्धं, प्रतिशीनं, "प्रतेश्च'' इति श्यैङः प्रतेः परस्य निष्ठायां संप्रसारणं, "श्योस्पर्शे'' इत्यत्र स्पर्शग्रहणेन गुणे निषिध्यते न तु रोग इत्यत्रापि निष्ठानत्वं भवति ( अभिशीनः अभिश्यानः अवशीनः अवश्यानः ) "विभाषाभ्यवपूर्वस्य'' इति श्यैङो निष्ठायां वा संप्रसारणम् अत्राभ्यवाभ्यामिति वक्तव्ये पूर्वग्रहणं व्यवहिते तथा स्यादिति अभिसंशीन इत्याद्यपि भवति, मूर्त्तिस्पर्शयोः परत्वादियमेव विभाषा भवति, सर्वत्र संप्रसारणपक्षे स्पर्शादन्यत्र "श्योऽस्पर्शे'' इति निष्ठानत्वमन्यत्र "संयोगादेरातः'' इति 944
कृदन्तरूपमाला
Sanskrit1 {@“श्यैङ् गतौ”@} 2 श्यायकः-यिका, श्यापकः-पिका, शिश्यासकः-सिका, शाश्यायकः-यिका
श्याता-त्री, श्यापयिता-त्री, शिश्यासिता-त्री, शाश्यायिता-त्री
इत्यादिकानि रूपाणि सर्वाणि वृद्ध्यर्थकभौवादिक ‘प्यैङ्’ धातुवत् 3 ज्ञेयानि।
4 प्रतिश्यायः- 5 अवश्यायः, शीतो वायुः, 6 शीनं घृतम्, 7 श्यानम्-नः, 8 प्रतिशीनः, 9 अभिशीनः, अभिश्यानः, अवशीनः, अवश्यानः, अभिसंशीनः, अवसंशीनः, 10 श्यामः-श्यामा, श्यामाकः, शिवः, 11 श्येनः, 12 श्येतः, शितिः, इमानि रूपाणि अस्य धातोः विशेषेण भवन्ति।
01 (१७६०)
02 (१-भ्वादिः-९६३। सक। अनि। आत्म।)
03 (१०६५)
04 [[१। ‘श्याद्व्यध--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्ययः। आकारान्त त्वादेव णप्रत्यये सिद्धे सूत्रे पृथक् धातोः ग्रहणं सोपसर्गार्थम्--इति माधवीयादिषु स्पष्टम्।]]
05 [पृष्ठम्१३२०+ ३०]
06 [[१। ‘द्रवमूर्तिस्पर्शयोः श्यः’ (६-१-२४) इति द्रवस्य मूतौं काठिन्ये च वर्तमानस्य श्यायतेः निष्ठायां परतः सम्प्रसारणम्। ‘हलः’ (६-४-२) इति दीर्घः। ‘श्योऽ- स्पर्शे’ (८-२-४७) इति निष्ठानत्वम्। ‘शीतो वायुः’ इत्यत्र तु स्पर्शार्थकत्वात् न निष्ठानत्वम्।]]
07 [[२। ‘श्यानो वृश्चिकः’ इत्यत्र द्रवमूर्तिस्पर्शाभ्यामन्यत्र सम्प्रसारणाभावात् ‘संयोगादे- रातो धातोर्यण्वतः’ (८-२-४३) इति निष्ठानत्वमिति बोध्यम्।]]
08 [[३। ‘प्रतेश्च’ (६-१-२५) इति प्रतेः परस्य श्यैङो निष्ठायां सम्प्रसारणम्। ‘श्यो ऽस्पर्शे’ (८-२-४७) इति निष्ठानत्वम्।]]
09 [[४। ‘विभाषाऽभ्यवपूर्वस्य’ (६-१-२६) इति अभि, अव इत्युपसर्गात् परस्य श्यैङः सम्प्रसारणविकल्पः। सम्प्रसारणपक्षे ‘श्योऽस्पर्शे’ (८-२-४७) इति निष्ठानत्वम्। सम्प्रसारणाभावपक्षे ‘संयोगादेरातो धातोः--’ (८-२-४३) इति निष्ठानत्वमिति विशेषः। “-- ‘अभ्यवाभ्याम्’ इति वक्तव्ये सति(सूत्रे)पूर्वग्रहणं व्यवहितेऽपि यथा स्यात्-इति
\n\n तेन अभिसंशीनः, अवसंशीनः इत्याद्यपि सिद्ध्यति” इति माधवीयधातुवृत्तिः।]]
10 [[५। ‘इषुयुधि--’ (द। उ। ८-२६) इति मक्प्रत्ययः।]]
11 [[६। ‘श्यास्त्या--’ (द। उ। ५-१२) इत्यादिना इनन्प्रत्ययः। श्येनः = गृध्रः।]]
12 [[७। ‘श्याभ्याम्--’ (द। उ। ६-१२) इतीतन्प्रत्यये श्येतः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
